अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
by महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी
Page 115 of 540
Read in contextप्रथमोऽङ्कः
३३
इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति ॥ १८ ॥
भवतु पादपान्तर्हित एव विस्रब्धां तावदेनां पश्यामि। (तथा करोति।)
एवंविधरूपलावण्यातिशयवती सा = वैखानसमुखश्रुता कण्वदुहिता = कण्वस्य महर्षेः धर्म-कन्या शकुन्तला नाम। अथ अलोकिकरूपवतीं तां दृष्ट्वा मुनेः अविमृश्यकारितां सकरुण-माह—असाधुदर्शीति। असाधुदर्शी = साधु = सम्यक् न पश्यतीति असाधुदर्शी अविमृश्य-कारी खलु = निश्चयेन तत्रभवान् = पूज्यः महर्षिकण्वः य इमां = कामकलापरिशीलनयोग्यां शकुन्तलाम् आश्रमधर्मे = तपोवनकर्त्तव्ये वृक्षसेचनादौ नियुक्ते = आदिशति, विनियोजयति।
अन्वयः— यः अव्याजमनोहरं इदं वपुः तपःक्षमं साधयितुम् इच्छति सः ऋषिः ध्रुवं नीलोत्पलपत्रधारया शमीलतां छेत्तुं व्यवस्यति किल।
इदमिति। यः = ऋषिः कण्वः इदं = पुरो दृश्यमानं, अव्याजमनोहरं = अव्याजेन = अकपटेन, भूषणादिकं विना निसर्गतः मनोहरं = सुन्दरं = रमणीयमिति अव्याजमनोहरं = स्वभावसुन्दरं इदं = एवंविधसौन्दर्यसौकुमार्यादिगुणगणशालिपुरोदृश्यमानं वपुः = शरीरं तपःक्षमं = तपश्चरणयोग्यं साधयितुं = सम्पादयितुं, इच्छति = वाञ्छति, सः ऋषिः ध्रुवं = नूनं नीलोत्पलपत्रधारया—नीलमुत्पलं नीलोत्पलं नीलोत्पलस्य पत्राणां धारया नीलो-त्पलपत्रधारया = नीलकमलपत्राग्रभागेन शमीलतां = कठिनां शमीवृक्षस्य शाखां कण्टकितं कठोरं च शमीवृक्षं वा छेत्तुं = भेत्तुं = खण्डयितुं व्यवस्यति = यतते समीहते, उद्युङ्क्ते वा किल = न श्रदधे। अत्रोपमा-व्याजस्तुति-सन्देहसंकरालङ्काराः वंशस्थवृत्तं च।
अयं भावः लोकातिगरूपसंभारं शकुन्तलामाश्रमोचितधर्माचरणेषु वृक्षसेचनादिषु नियुक्तामवलोक्य राजा दुष्यन्तश्चिन्तयति—अहो! निसर्गसुन्दरेणानेन वपुषा य आश्रमधर्मान् विधातुं समीहते, सर्वथा अविमृश्यकारी सः ऋषिः नीलोत्पलपत्रधारया कठिनां शमीशाखा-च्छेदनं चिकीर्षति। यदि नीलकमलधारया शमीलताच्छेदनप्रयासः क्रियते तर्हि शमीलता तु अंशतःऽपि न छिद्येत, नीलोत्पलपत्राणि तु विदलितानि एव भवेयुरेव तद्वत्प्रकृतेऽपि बोध्यम्।
राजा— भवतु = अस्तु पादपान्तर्हितः = वृक्षतिरोहितः एव विस्रब्धां = विश्वस्तां एनां = इमां पुरोदृश्यमानां शकुन्तलां पश्यामि = अवलोकयामि, ( तथा करोति = उक्तानुसार-माचरति )।
स्वभाव से ही सुन्दर मनोहर शरीर वाली इस बाला को ये ऋषि तपस्या के योग्य बनाना चाहते हैं, वे तो मानो नीलकमल के कोमल पत्तों की धार से कठिन और कण्टकित शमी वृक्ष की शाखा को काटना चाहते हैं। तात्पर्य यह है कि शकुन्तला नीलोत्पल की कोमल पत्ती के समान है और तपस्या कण्टक युक्त कठोर शमी वृक्ष के समान। जिस प्रकार नीलकमल की पँखुड़ी के किनारे से कठोर शमी वृक्ष की शाखा नहीं काटी जा सकती वैसे ही शकुन्तला के कोमल शरीर से तपस्या नहीं कराई जा सकती है। यहाँ नील शब्द तलवार के लोहे के काले रंग की समता बताता है ॥ १८ ॥
अच्छा वृक्षों के पीछे छिपकर निर्भय होकर स्वच्छन्द विहार करती इस बाला शकुन्तला को देखता हूँ। ( वैसा करते हैं )
पाठ०—१. ततःफलमम्। १. पादपान्तरितो विश्वस्तां तामेनाम्।
३ शाकु०