अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
by महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी
Page 149 of 540
Read in contextप्रथमोऽङ्कः ६७
प्रियंवदा--तेण हि णारिहदि एदं अङ्गुलीअअं अङ्गुलीविओअ। अज्जस्स वअणेण अणिरिणा दाणिं एसा। हला सउन्दले मोइदासि अणुअम्पिणा अज्जेण अहवा महाराएण। गच्छ दाणि [ तेन हि नाहंत्येतदङ्गुलीयकमङ्गुलिवियोगम् । आर्यस्य वचनेनानृणेदानीमेषा । ( किंचिद्विहस्य ) हला शकुन्तले मोचितास्यनुकम्पि-नार्येण अथवा महाराजेन गच्छेदानीम् । ]
माह—अलमिति । अस्मात् = इमं जनं अन्यथा = विपरीतम्, अस्मदुक्तप्रकारातिरिक्त-प्रकारेण राजत्वेनेति यावत् संभाव्य अलं = संभावना न कर्तव्या अहमधिकारिपुरुष एवेति भावः । तर्हीदमङ्गुलीयकं कथं तव करे ? इत्यत आह—राज इति । परिगृह्यते इति परिग्रहः राज्ञो दुष्यन्तस्य परिग्रहः = मह्यं दानमेतत् राज्ञः सकाशाल्लब्धमिदं पारितोषिकमित्यर्थः । अतोऽत्र न शङ्का कार्या भवतीभ्यामित्याशयः । अयं=एषः परिग्रहस्वरूपः अङ्गुलीयरूपः । आन्तरार्थस्तु राज्ञो मम परिग्रहः = परिग्रहयोग्यं = धारणयोग्यमिद-मङ्गुलीयकमित्यर्थः यद्वा राज्ञः = मम दुष्यन्तस्य परिग्रहः = भवत्यै उपहारः इत्यर्थः । अतो न राज्ञो मिथ्याभाषणदोषः । इति = एवं विभाव्य माम् इमं जनं राज्ञः पुरुषो राज-पुरुषः तं राजपुरुषमिति षष्ठीतत्पुरुषे राजपुरुषं = नृपसेवकं, यद्वा राजा चासौ पुरुषो राज-पुरुषः तं राजपुरुषं = राजरूपं पुरुषं दुष्यन्तम् अवगच्छत = जानीत । इति भावः ।
प्रियंवदा—अथात्यन्तचतुरा प्रियम्वदा तदभिप्रायं सम्यग् विदित्वा सङ्गत्या उत्तर-यति—तेनेति । तेन हि = राजपरिग्रहात्, एतत् = इदं चरितमङ्गुलीयकम्-मुद्रिकामङ्गुली-वियोगं = भवतः अङ्गुल्याः = अङ्गुलितः वियोगं = विरहं न र्होति, यतो राजपरिग्रहात् भवता धारणीयमेव, स्वकीयमेव वस्तु दातव्यं भवति राजप्रसादलब्धमिदं तु सर्वथा अदेय-मेवेति भावः, आर्यस्य=श्रीमतो धर्माधिकारिणो महाराजस्य वा वचनेन = वचनामृतेन एव इदानीं = सांप्रतम् एषा = इयं पार्श्ववर्तिनी शकुन्तला मे प्रियसखी अनृणा = ऋणमुक्ता जाता ( किञ्चिद् विहस्य = ईषत् स्मितेन सह ) हला, शकुन्तले ! = प्रियसखि शकुन्तले ! अनुकम्पास्त्यनुकम्पा तेन अनुकम्पिना = दयालुना तव ऋणधारणजन्यक्लेशमसहमानेन
रूप में मुझे मिली है। अतः आपलोग इसमें किसी प्रकार की आशङ्का न करें। मुझे राजपुरुष समझें ।
विशेष—राजपुरुष के समासभेद में दो अर्थ होते हैं, एक राजा का पुरुष=सेवक, दूसरा राजा रूप पुरुष । राजा दुष्यन्त अपने को छिपाना चाहते थे । इसलिए उन्होंने श्लेष शब्द राजपुरुष कहकर छिपाने का प्रयास करते हुए कहा कि आप लोगों ने अँगूठी पर दुष्यन्त नाम पढ़कर मुझे राजा दुष्यन्त समझा होगा किन्तु मैं दुष्यन्त नहीं हूँ । यह अँगूठी मेरी नहीं है, बल्कि राजा के द्वारा मुझे इनाम में मिली है ।
प्रियम्वदा—यदि ऐसी बात है अर्थात् यह राजा से पारितोषिक के रूप में मिली है तो फिर उसे आप अपनी अँगुली में रहने दें। इसे अँगुली से पृथक् करना समुचित नहीं है। यह मेरी प्रिय सखी शकुन्तला तो आपके वचन मात्र से ही अब ऋण से मुक्त हो गई। ( कुछ मुस्कराकर ) सखि शकुन्तले ! इस दयालु सज्जन ने तुमको ऋण से मुक्त कर दिया है अथवा इस राजर्षि ने दया करके तुमको ऋण से छुड़ा दिया ? अब तुम जा सकती हो ।
विशेष—प्रियम्वदा परिहास प्रिया सखी है । यह समय-समय पर परिहास के द्वारा चुटकी लेती ही रहती है । प्रियम्वदा ने मुस्कराकर अपना अभिप्राय व्यक्त किया कि महाराज ! आप खास