ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
by महर्षि ऐतरेय महिदास
Source: Aitareya Aranyakam with Vedic Accents & Commentary (origin)
Page 21 of 304
Read in context१६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
चतुर्थस्य तृचस्य प्रथमपादं व्याचष्टे—
अश्विना यज्वरीरिष इत्यन्नं वा इषोऽन्नाद्यस्यावरुद्धयै, इति।
हेऽश्विनौ यज्वरीर्यागनिष्पादका इषो हविर्लक्षणान्यन्नानि स्वी कुरुतमित्यध्याहारः। यद्वा ऋचोऽन्तिमेन चनस्यतमिति पदेन संबन्धः। भक्षयतमिति तस्यार्थः। अत्र यदिदमिष इति पदं तस्यान्नमेवार्थोऽतोऽन्नप्राप्त्यर्थमिदं भवति।
एतस्य तृचस्यान्तिमपादो निगदव्याख्यात इत्येतद्दर्शयति—
आयातं रुद्रवर्तनी इति, इति।
अत्राऽऽयातमित्यादिपादं पठति1। अत्राश्विनोरागमनं स्पष्टमेव प्रतीयत इत्यर्थः। रुद्रस्येव वर्तनिर्मार्गो ययोरश्विनोस्तौ [रुद्र]वर्तनी। यथा रुद्रस्य जगदीश्वरस्य मार्गो न क्वापि प्रतिबध्यते तद्वदनयोरपि। तादृशौ हेऽश्विनाविहास्मिन्कर्मण्यागच्छतम्।
वेदनं प्रशंसति—
आ हास्याश्विनौ यज्ञं गच्छतो य एवं
वेद येषां चैवं विद्वानेतद्धोता शंसति, इति।
पञ्चमस्य तृचस्य तिसृष्वृक्षु प्रथमपादानां तात्पर्यं दर्शयति—
इन्द्राऽऽयाहि चित्रभानविन्द्राऽऽयाहि धियेषित इन्द्राऽऽ-
याहि तूतुजान इत्यायाह्यायाहीति शंसति, इति।
हेऽचित्रभानो विचित्ररश्मियुक्तेन्द्र त्वमस्मिन्कर्मण्यायाहि। तद्यथा(तथा) हे इन्द्र धिया स्वबुद्धयेषितः प्रेषितः सन्ननुग्रहपूर्वमायाहि। तथा हे इन्द्र तूतुजानः शत्रून्हिंसन्नायाहि। इत्येतेषु त्रिषु पादेषु पुनः पुनरायाहीति पठन्नेव होता शंसतीति तेनेन्द्रस्त्वरया समागच्छतीत्यभिप्रायः।
वेदनं प्रशंसति—
आ हास्येन्द्रो गच्छति य एवं वेद
येषां चैवं विद्वानेतद्धोता शंसति, इति।
आगच्छति हेत्यन्वयः। सर्वथैवाऽऽगच्छतीत्यर्थः। पूर्वस्मिन्नश्विनोर्वाक्येऽप्यागच्छतो हेत्येवं योजनीयम्।
अश्विना यज्व०—ऋ० सं० म० १ सू० ३ ऋ० १। आयातं स०—ऋ० सं० म० १ सू० ३ ऋ० ३। इन्द्राऽऽयाहि चित्र०—ऋ० सं० म० १ सू० ३ ऋ० ४। इन्द्राऽऽयाहि धि०—ऋ० सं० म० १ सू० ३ ऋ० ५। इन्द्राऽऽयाहि तू०—ऋ० सं० म० १ सू० ३ ऋ० ६।
Footnotes
-
ख. ग. घ. पठन्ति। ↩