BharatKosha
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

by महर्षि ऐतरेय महिदास

Source: Aitareya Aranyakam with Vedic Accents & Commentary (origin)

DevanagariHindipublished304 pages

Page 247 of 304

Read in context
Page 247

२४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रpath/प्रपाठकारण्यके-

अदितेः पुत्रा आदित्यास्ते चाष्टसंख्याकाः। "अष्टौ पुत्रासो अदितेः" [ऋ०सं० म० १० सू० ७२ ऋ० ८] [तै० आ० प्र० १ अ० १३] इति श्रुत्यन्तरात्। तदनुक्रमणं च तत्रैवाऽऽम्नायते—"ताननुक्रमिष्यामः। मित्रश्च वरुणश्च। धाता चार्यमा च। अंशश्च भगश्च। इन्द्रश्च विवस्वाँश्चैत्येते" [तै०आ०प्र०१अ०१३] इति। त एव विश्वे सर्वेऽपि देवा मामवन्तु॑। य उदये चान्ये द्युलोकप्रकाशनार्थमभिषिक्ताः सप्तसंख्याका आरोगादिनामका राजानः सन्ति तेऽपि मामवन्तु। आरोगादयोऽपि श्रुत्यन्तरे समाम्नाताः—"आरोगो भ्राजः पटरः पतङ्गः। स्वर्णरो ज्योतिषीमान्विभासः। ते अस्मै सर्वे दिवमातपन्ति" [तै० आ० प्र० १ अ० ७] इति। तथा वायुरिह कर्मणि मामनुगम्यावतु। एवं पूषादिष्वपि योजनीयम्।

तृतीयाहुतेर्मन्त्रमाह— पितरो मा विश्वमिदं च भूतं पृश्निमातरो मरुतः स्वर्काः। ये अग्निजिह्वा उत वा यजत्रास्ते नो देवाः सुहवाः शर्म यच्छतेति, इति।

ये पितरोऽग्निष्वात्तादयस्ते मामवन्त्विति शेषः। न केवलं मामेव, किं त्विदं विश्वं प्राणिजातं चावन्तु। पृश्निर्माता येषां मरुतां ते पृश्निमातरः। तथा च मारुतसूक्ते समाम्नातम्—"पृश्नेः पुत्रा उपमासो रभिष्ठाः" [ऋ० सं० म० ५ सू० ५८ ऋ० ९] इति। तथा ब्राह्मणान्तरम्—"पृश्निर्यै वैवै यशो मरुतो हुताः" (?) इति। पृश्निर्गोमूर्तिर्देवता। तदप्यन्यत्राऽऽम्नातम्—"अङ्गिरसो वै सत्रमासत। तेषां पृश्निर्घर्मधुगासीत्" इति। ते च मरुतः स्वर्काः सुष्ठ्वर्चनीयाः। ते हि प्रियंगुचर्वादिभिरर्च्यन्ते। पृश्नये दुग्धे प्रैयंगवं चरुं निर्वपेन्मरुद्भ्यः" इति श्रुतेः। तादृशा मरुतो मामवन्तु। अग्निरेव जिह्वा येषां तेऽग्निजिह्वाः। अग्नौ हुतं हविर्भक्षयन्तीत्यर्थः। तादृशा देवा ये सन्ति। उत वाऽपि चेत्यर्थः। यजत्रा यजनीयाः पीठादौ गन्धपुष्पादिभिरभ्यर्चनीयाः। समर्पितं नैवेद्यं भक्षयन्ति, तादृशाश्च ये सन्तिँ। उभयविधा अपि देवा अन्यत्र स्पष्टमाम्नायन्ते—"हुतादो वा अन्ये देवा अहुतादोऽन्ये" इति। तादृशा देवा यूयं सुहवाः सुखनाऽऽह्वातुं शक्याः सन्तो नोऽस्मभ्यं शर्म सुखं यच्छत। इतिशब्दो मन्त्रत्रयसमाप्त्यर्थः।

होमान्तरं विधत्ते— दक्षिणे मार्जालीये दश स्रुच्युत्तमां चतुर्गृहीतं पूर्वमवदायाोत्तरतोऽग्नेरुपनिधाय विहरणप्रभृति मध्यं-


१ क. ख. घ. ङ. एव ते विं। २ क. ख ०न्तु। उं। ३ घ. ०श्रियेनैष। ४ ङ. ०र्यैनैव। ५ क. ख. ०ष पशो। ६ ग. ०तोद्वातेति। ७ ग. ०न्ति। त उं।