BharatKosha
Back to the archive

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

by आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य)

DevanagariHindipublished366 pages
Page 192Permalink

१६० शुल्बसूत्रम् [ तृतीयोऽध्यायः ] क्तप्रमाणेण मण्डलं भ्रामयित्वा मण्डलान्तर्गतान् षोडशभागान् प्रत्येकमुपर्युपद- ध्यात् । मध्ये परिमण्डले यावत्संभवति तावत् चतुरश्रं कृत्वा तस्याः करण्या द्वादशेनेष्टकां कृत्वा ताभिश्चत्वारिंशच्छतेष्टकाभिर्मण्डलमध्यगतचतुरश्रे उप- धानं कृत्वा ताभिरेव चतुर्षु प्रधिषु षड्भिः षड्भिः (रुपधानं कृत्वा) उपधानं कुर्यात् । एवं चाष्टषष्टिशतेष्टकाः संपन्नाः ॥१३७॥ पुरुषस्येति । व्याख्यातमेतन्मण्डलद्रोणचयने । तासामिति । तासां षोडशीनां पञ्च षोडशीरपोद्धृत्य शेषाः षोडशीः परिमण्डलं करोति । तत्र समस्तमग्निक्षेत्रं लक्षं अष्टौ सहस्राण्यङ्गुलयः । तस्मात् पञ्चानां षोडशीनां क्षेत्रं चत्वारि सहस्राणि पञ्चशतानि च अङ्गुलानि पृथक्कृत्य लब्धं लक्षं सहस्रत्रयं पञ्चशतानि । तस्य मूलं त्रीणि शतानि एकविंशतिश्चाङ्गुलयः पञ्चविंशतितिलाश्च । सा चतुरस्रकरणी । तया समचतुरस्रं कृत्वा चतुरस्रं मण्डल ( १७७) मित्यादिना सार्धैकाशीतिशताङ्गुलेन विष्कम्भार्धेन परि- मण्डलं करोति । तदिति । तत् कूर्मचिदुपधानं उत्तरेण परिमण्डलद्रोणचिता व्याख्या- तम् । तत्र विशेषमाह—अथ या इति । उद्धृतानां षोडशीनां चतसृभिरवान्तरदिक्षु पादान् उन्नयेत् । पञ्चम्या इति । उन्नयेदित्येव । तासामिति । तासां षोडशीनाम् । परिकर्षणं सर्वतो लेखनं व्याख्यातम् षोडशीं पुरस्ताद् विशये उपधाय ( ३।११६) इत्यादिनोक्तमित्यर्थः ॥ १३७ ॥ प्रधीनां सप्तधा विभागः । प्रधिमध्यमाः प्रक्रमन्यासा भवन्ति । यदतिरिक्तं संपद्यते तच्चतुरश्राणामध्यर्धाभिर्योज्यते ॥१३८॥ यद्यपि प्रधीनां सप्तधा विभागः प्रधिमध्यप्रक्रमन्यासत्वं परिमण्डल- द्रोणवदित्युक्त्या लभ्यते तथापि पादानां शिरसश्च ओष्ठप्रदेशेषु प्रधिमध्येष्ट- कोपधानसिद्ध्यर्थं पूर्वोक्तमेव स्मारयति—प्रधीनामिति । सप्तधा विभागः। प्रधिमध्यमा इति । प्रधिषु प्रधिमूलोपहितेष्टकासहितक्षेत्राणि प्रत्येकं सप्त- धा विभज्य मध्येष्टकाश्चतस्रो यथा प्रक्रमविस्तारा भवन्ति तथा कुर्यादित्यर्थः। चतुर्षु पादेषु परिमण्डलद्रोणवत् कर्षणे क्रियमाणे तेनैव प्रत्येकमिष्टकाद्वयं संपद्यते । शिरसि तु प्रक्रमविस्तारा(स्मिन्)प्रधिवत् आहत्य षडधिकद्विशते- ष्टकाः संपन्नाः । तत्र द्विशतसंख्यापर्यवसानार्थमाह—यदतिरिक्त मिति । यद्द्विशतसंख्यापेक्षया अतिरिक्तमधिकं सम्पद्यते, तत्संख्या (जल...) चतुरश्राणामध्यर्धाभिरेकेन पार्श्वेनार्धाधिकाभिः दीर्घचतुरश्राभिः योज्येत द्विशतसङ्ख्यां पूरयेदित्यर्थः ।

Page 193Permalink

अध्यायः ] बौधायनीयं १६१ अयमत्र प्रकारः—चतुरश्रस्य पूर्वस्यां रीत्यामुपहिता द्वादशेष्टका उद्धृत्य तत्राप्यध्यर्धाः प्रागायता उपदध्यात् । एवं चतस्र इष्टका अपनीता भवन्ति । तदनन्तररीत्यां चा(या)विष्टका उद्धृत्य तत्र चतस्रोध्यर्धेष्टका उप- दध्यात् । एवं च द्वे द्वे इष्टके अपनीते भवतः । आहत्य षडधिका भवन्ति । एष द्विशतः प्रस्तारः ॥ १३८ ॥ प्रधीनामिति । तदुत्तरेण द्रोणचिता व्याख्यातमित्यस्यैव प्रपञ्चः । यदतिरिक्त- मिति । मण्डलमध्यचतुरस्रे चतुश्चत्वारिंशच्छतमिष्टकाः शेरते । प्रधिमूलेषु चतुर्विं- शतिश्चतुरस्राः । प्रधीष्टका अष्टाविंशतिः । प्रथमे प्रस्तारे शिरसोऽवस्तात् प्रधिमध्यमस्थाने एकविंशतिरिष्टकाः । शिरसि एका प्रधिमध्यमा । अष्टौ पादेषु । एवमुपहिते यदतिरिक्तं संपद्यते तच्चतुरस्राणां अध्यर्धाभिः योज्युज्यते युज्यत इत्यर्थः । यत्तदिति सामान्यनिर्देशः । अध्यर्धेष्टकानां अर्धांशस्य अक्ष्णयापच्छेदः । नित्यमक्ष्णयापच्छेदनम इत्युक्तेः ॥ १३८ ॥ अपरस्मिन् प्रस्तारे पादानां शिरोवद्विभागः शिरसः पादवत् ॥ १३९ ॥ अपरस्मिन्निति । अपरप्रस्तारे अग्निक्षेत्रमण्डले यथा प्रधान- दिक्षु चतस्रः स्रक्तयो भवन्ति तथा चतुरस्रं कृत्वा तत्र पूर्ववत् चतुरश्रेष्ट- काभिरुपधानं कृत्वा प्रधिमूलेष्वपि तथैवोपधानं कृत्वा (प्रधिमूलेष्वपि) शिरसि यावदिष्टकाद्वयं चतुर्षु पादेषु प्रधिमध्यमाः प्रक्रमविस्ताराः चतस्र इष्टका यथा आत्मान्तरगता भवन्ति तथोपदध्यात् । प्रक्रमविस्तारपादेष्टका- सहितप्रधिक्षेत्रे पूर्ववदिष्टकाद्वयं उपधेयम् । तयोरुभयतो द्वे द्वे पूर्ववत्, तयोः पार्श्वयोः द्वे द्वे पूर्ववदाहृत्य एकस्मिन् प्रधावष्टावेव अवशिष्टेषु त्रिषु प्रधिषु अष्टाविष्टका उपधेयाः, एवं च षडधिकद्विशतेष्टकाः सम्पन्नाः । तत्र द्विशतसङ्ख्यापूरणार्थमष्टादशेष्टका उद्धृत्य तत्र द्वादशाध्यर्धा उपधेयाः । एष द्विशतः प्रस्तारः ॥ १३९-१४० ॥ अपरस्मिन्निति । अपरस्मिन् प्रस्तारे विशेषो वक्ष्यत इति शेषः । द्रोणचितो- द्वितीयप्रस्तारे प्रधिमध्यमामोष्ठ उपधायावस्तात्तद् द्वेधा विभजेद् ( ३।११७ ) इति यदुक्तं तदिह मण्डलकूर्मचितौ द्वितीयप्रस्तारे पादानां भवति । शिरसः पादवत् । द्वेधा विभाग इत्यर्थः । प्रथमे प्रस्तारे विपरीतमपधानमित्युक्तं भवति । प्रधिमध्यमा- २१

Page 194Permalink

१६२ शुलवसूत्रम् [तृतीयो- मोष्ठ उपधाय ( ३।११७ ) इत्यस्य प्रथमे प्रस्तारे विनियोगात् । मण्डलमध्य- चतुरस्रस्य प्रस्तारद्वयेऽपि रथचक्रचिद्वत् स्रक्तयो भवन्ति । अयमत्र प्रकारः । अग्निम मध्ये शङ्कं निहत्य पञ्चदशाधिकशतषोडशीनां करण्या सप्तविंशतितिलैकविंशत्यधिकशतत्रयाङ्कुलया चतुरस्रं विहृत्य चतुरस्रं मण्डलं चिकीर्षन् (१।७७) इति न्यायेन सार्धैकाशीतिशताङ्गुलेन विष्कम्भार्धेन मण्डलं परिलिख्य मण्डलशङ्कोः पुरस्तात् त्रिंशदङ्गुलेन शङ्कु निहत्य मण्डलपूर्वान्ते परिधेः पश्चाद् एकोनचत्वारिंशत्तिले विष्कम्भान्ते शङ्कं निहत्य तं शिरसः पश्चान्मध्यशङ्क परिगृह्य प्रक्रमप्रमाणेण शिरसश्चतुरस्रं कुर्यात् । एवं मण्डलप्रकृतिभूतचतुरस्रे उभयतोऽक्ष्णयारज्जुं नियम्य चतुरस्रमध्यशङ्कं परिगृह्य चतसृषु कोणदिक्षु प्रक्रमे प्रक्रमे अतीते शङ्कवः । परिधेरभ्यन्तरतः कोणदिक्षु एकोनचत्वारिंशत्तिले शिरोवत् शङ्कवः । ततः प्रभृति विदिक्षु पदार्धानि प्रक्रमप्रमा- णानि चत्वारि चतुरस्राणि कृत्वा विष्कम्भार्धशङ्कोरन्तरशङ्कुषु प्रतिमुच्य शिरः पदा- र्धानां चतुरस्राणामेकमंसमारभ्य इतरादंसाद् आलिखेत् । मण्डलमध्ये एकोनविंश- तितिलसहितेन पञ्चपञ्चाशच्छतद्वयाङ्गुलेन विदिक्षु यथा स्रक्तयः प्रथमे प्रस्तारे तथा चतुरस्रं कृत्वा तस्य करण्या द्वादशेन त्रयोदशतिलसहितैकविंशत्यङ्गुलेन इष्टकाः कुर्यात् । प्रधीनां चत्वारि करणानि । त्रिकोणमाद्यम् । तस्य पश्चिमफलकं द्वाविंशदङ्गुलं सतिलत्रयम् । उत्तरं पार्श्व पञ्चविंशत्यङ्गुलं साष्टादशतिलम् । एकचत्वारिंशदङ्गुलं तृतीयं कर्णरूपं धनुरिव तक्षेत् यथा चत्वारिंशत्तिलाः शरः । उपान्त्यस्य पूर्ववत् पश्चिमं फलकम् । प्रध्यन्तस्य उत्तरवद् दक्षिणं फलकम् । एकचत्वारिंशदङ्गुलं सप्तञ्चतिलमुत्तरं फलकम् । साष्टविंशतितिलपञ्चत्रिंशदङ्गुलं कर्णरूपं तद्धनुरिव तक्षेत् । त्रिंशत्तिलाः शरः । तृतीयस्य पश्चिमं फलकं षट्तिलं नवचत्वारिंशदङ्गुलम् । दक्षिणं सतित- द्वयविंशत्यङ्गुलम् । सप्तञ्चतिलमेकत्रिंशदङ्गुलमुत्तरम् । सचतुर्दशतिलं पञ्चाशदङ्गुलं चतुर्थं कर्णरूपं तद्धनुरिव तक्षेत् यथा अष्टपञ्चाशत्तिलाः शरः । प्रधिमध्यमायाः पूर्वपश्चिमे प्रक्रमप्रमाणे । दक्षिणोत्तरे सप्तञ्चतिले एक- त्रिंशदङ्गुले तद्धनुरिव तक्षेत् । त्रिंशत्तिलाः शरः । पादशिरसामुपधानार्थानि त्रीणि करणानि । तेषां मण्डलसन्धावुपधेयस्य सप्ततिले अष्टाङ्गुले दक्षिणोत्तरफलके । त्रिंशदङ्गुले पूर्वपश्चिमे । पश्चिमं मण्डल- सन्धिगतपार्श्वं धनुराकारं तक्षेत् । अन्तर्वक्रं भवति यथा नवत्रिंशत्तिलाः शरः। तस्याः पुरस्तादुपधेयस्य षोडशतिलहीनैर्काविंशत्यङ्गुले दक्षिणोत्तरफलके । पूर्वपश्चिमे प्रक्रमप्रमाणे । पूर्वफलकं धनुरिव तक्षेत् । नवत्रिंशत्तिलाः शरः । पादशिरसामग्रे उपधेयाया उद्धृतायाः प्रधिमध्यमायाः स्थाने उपधेययोरेकं करणम् । त्रिंशदङ्गुल

Page 195Permalink

द्वे फलके । इतरे पञ्चदशाङ्गुले पूर्वपश्चिमे । संख्यापूरणार्थं चतुरस्राध्यर्धेष्टके पूर्वापरे समस्य तयोः पूर्वा प्रागुदक्सविशेषां अक्ष्णयापच्छिन्द्यात् । एवं नव करणानि । उपधाने प्रथमे प्रस्तारे चतुरस्रस्य अवान्तरदिक्षु स्रक्तयः । चतुरस्रमध्ये चतुश्चत्वारिंशच्छतमिष्टकाः । प्रधिमूलमध्येषु चतुर्विंशतिश्चतुरस्राः । प्रधिषु अष्टाविंशतिः । पूर्वस्मिन् प्रधौ प्रधिमध्यमां शिरस्युपधाय तस्या अवस्ताद् द्वे चतुर्थ्यर्ध्ये उपदध्यात् । चतुर्षु पादेषु मण्डलसन्धावेकैकां अन्तर्वक्रां ह्रस्वेष्टकाम् । पुरस्ताद् बहिर्वक्रां बृहतीम् । एवं षडिष्टका अतिरिच्यन्ते । चतुरस्रस्रक्तिषु अग्नि- धर्मानुरोधेन अष्टादश चतुरस्रा उद्धृत्य द्वादशाध्यर्धेष्टका उपदध्यात् । एवं द्विशतः प्रस्तारः । अपरस्मिन् प्रस्तारे मण्डलमध्यचतुरस्रस्य महादिक्षु स्रक्तयः । पादेषु प्रधि- मध्यमानामुपधानम् । तेषामभ्यन्तराइचतर्थ्यर्धाः । शिरसि ह्रस्वबृहत्योरुपधानम् । अत्रापि षडतिरिच्यन्ते । मण्डलमध्यचतुरस्रं पूर्ववदष्टादश चतुरस्रेष्टका उद्धृत्य अग्निधर्मानुरोधेन द्वादशाध्यर्धा उपदध्यात् । एवं द्विशतः प्रस्तारः ॥ १३९ ॥ व्यत्यासं चिनुयाद् यावतः प्रस्तारांश्चिकीर्षेत् ॥ १४० ॥ व्यत्यासमिति । सर्वशेषार्थमन्ते वचनम् ॥ १४० ॥ कूर्मस्यान्ते तनुपुरीषमुपदध्यात् । मध्ये बहुलम् । एतदेव द्रोणे विपरीत्तम् ॥१४१॥ कल्पसूत्रे मध्य उत्पृष्ठ इति कूर्मस्योन्नतपृष्ठत्वमुक्तम्, तत्संपादनार्थ- माह—कूर्मस्यान्त इति । ( अन्ते ? ) पर्यन्ते तनु अल्पं पुरीषमुपदध्या- न्मध्ये प्रभूतमपदध्यात् , लोके कूर्मस्य पृष्ठं यादृशं भवति तादृशमुपदध्यात् । द्रोणचितं मध्ये निम्नमिव करोतीति कल्पसूत्रोक्तविकृतिसम्पादनमाह— एतदेवेति । मध्येऽल्पं पर्यन्ते बहुलं यथा अन्नपात्रद्रोणाकृतिर्भवति तथोप- दध्यात् ॥१४१॥ कूर्मस्येति । अन्ते पर्यन्ते । तनु अल्पम् । पुरीषमुपदध्यात् । मध्य इति । प्रभूतं मध्ये । उत्पृष्ठ इति कल्पे उक्तमेतत् । पुरीषेणैव संपाद्यमिति भावः । एतदिति । मध्ये तनु पुरीपम् । अन्ते बहुलमिति । मध्ये निम्नमिव करोतीति (बौ० श्रौ० सू० १७।२९) द्रोणचित्युक्तम् । एवं संपाद्यमिति भावः । अत्र कल्पोक्तो विशेषोऽनुसन्धेयः ( बौ० श्रौ० सू० १७।३० पृ० ३०९) । तत्रैवमुक्तम् । अथ हैष द्रोणचिद् ब्राह्मणो मध्य उत्पृष्ठः परितस्तनुः । तस्यैवं सतोऽरत्नि-

Page 196Permalink

१६४ शुल्बसूत्रम् [तृतीयो- मात्रेण प्राक्शिर इव निरूहतोति । तस्यावान्तरदिशः पादानि वेष्टका आयातयति। स एष कूर्मचिद् ब्राह्मणो मध्ये उत्पृष्ठः परिकृष्यत इति ॥ १४१ ॥ [ इति परिमण्डलकूर्मचिदुपधानप्रकारः । ] अथ हैक एकविधप्रभृतीन् प्रउगादीन् ब्रुवते ॥ १४२ ॥ अथ हैक इति । एकविधप्रभृतीन् षड्विधपर्यन्तान् ॥१४२॥ अथ केचित् पठन्ति अथ ह इति । अथहैकविधप्रभृतीन् अपक्षपुच्छांश्चिन्वन्त (बौ० शु० २।१५ ) इत्यारभ्य एकविधादीनां अकरणं प्रतिपाद्य, तस्मात् सप्तविध एव प्रथमोऽग्नि (बौ० शु० २।२१ ) रिति सप्तविधस्याग्नेः प्रथमाग्नित्वं प्रतिज्ञातं, तत् सप्तविधप्रशंसापरमिति मन्वानाः केचिदाचार्याः प्रउगादीन् पक्षपुच्छरहितान् अग्नीं- श्चेतव्यान् ब्रुवते । तत्र एकविधाग्नौ पुरुषप्रमाणेण वेणुना समचतुरस्रं कृत्वा प्रउगादिकरणम्। द्विपुरुषविधाग्नौ पुरुषाङ्गुष्ठोर्द्वाभ्यां हत्वा तस्य मूलमानीय चतुरस्रं कृत्वा प्रउगादि- करणम् । एवं त्रिविधादिषु द्रष्टव्यम् । तत्र एकविधादिषु प्रउगादीनां पक्ष- पुच्छादिरहितानां आकृतिविकाराभावात् सप्तविधे यदुक्तमिष्टकाकरणञ्च तदेवात्र प्रत्येत्यव्यम् ॥ १४२ ॥ समचतुरश्रानेक आचार्याः ॥ १४३ ॥ समचतुरश्रानिति । समचतुरस्राकारान् ब्रुवते ॥१४३॥ समचतुरश्रानिति । एके आचार्या एकविधप्रभृतीन् अग्नीन् समचतुरस्राकारां- श्चेतव्यान् इति ब्रुवते । न प्रउगादीन् गुणविकारानित्यर्थः ॥ १४३ ॥ तस्य करण्या द्वादशेनेष्टकाः कारयेत् । तासामर्ध्याः पाद्याश्च ॥ १४४ ॥ समचतुरश्रपक्षे करणाण्याह--तस्येति । तस्याग्नेः करण्या द्वाद- शेनेष्टकाः कारयेत्। तासां द्वादशानामर्ध्याः तिर्यग्भेदाः । पाद्याः अर्ध्यायास्ति- र्यग्भेदाः समचतुरश्राः कार्याः । एवं त्रिप्रकाराभिरिष्टकाभिर्भेदपरिहारे- णोपधानं कर्तव्यम् ॥१४४॥ अस्मिन् पक्षे करणाद्याह-तस्येति । तस्याग्नेः करण्या द्वादशेनेष्टकाः कारयेत्। तासामिति । तासां द्वादशकरणीनां अर्ध्यास्तिर्यग्भेदाः पाद्याश्च । अर्ध्यायास्तिर्यग्भेदे समचतुरस्राश्च कार्या इत्यर्थः । एवं त्रिप्रकाराभिरिष्टकाभिर्भेदपरिहारेण उपधानं कर्त्तव्यम् ।

Page 197Permalink

अत्रापस्तम्बः । एकविधप्रभृतीनां करणीनां द्वादशेन त्रयोदशेनेतीष्टकाः कारयेत् पादेष्टकाश्च । व्यत्यासं चिनुयाद् यावत् प्रस्तारंश्चिकीर्षेदिति । तत्र द्वादशभिः सावयवाभिः प्रथमः प्रस्तारः । इतराभिरितर इति व्यत्यासः ॥ १४४ ॥ आश्वमेधिकस्याग्नेः पुरुषाभ्यासो नारत्निप्रादेशानाम्। प्राकृतो वा त्रिगुणः ॥ १४५ ॥ आश्वमेधिकानामभ्यासे विशेषमाह — आश्वमेधिकस्येति । अश्व- मेधे एकविंशोऽग्निर्भवतीत्याम्नातं तदभिप्रायेणेदमुच्यते । तत्रार्धाष्टमविध- स्य प्रकृतिभूतस्याग्नेः सप्तविधस्याभ्यासे पुरुषाणामेव सप्तानामभ्यासः कर्तव्यः श्रुतावेकविंशोऽग्निसङ्ख्यायोगात् । नत्वरत्निप्रादेशानामभ्यासः कर्तव्यः, एकविंशत्वविरोधापत्तेः । पक्षान्तरमाह--प्राकृतविति । अश्वमेध एव त्रिस्तावोऽग्निर्भवतीत्याम्नातं तदभिप्रायेणोच्यते । प्राकृत अर्धाष्टमविधोऽग्नि- स्त्रिगुणो भवति । एवं च सार्धत्रयोविंशपुरुषप्रमाणो वाग्निरश्वमेधे कर्तव्य इत्यर्थः ॥१४५॥ आश्वमेधिकस्येति । अश्वमेध एकविंशोऽग्निर्भवती (बौ० श्रौ० सू० २६।१० ) त्याम्नातम् । तदभिप्रायेणेदमुच्यते । तत्र अर्धाष्टमविधस्य प्रकृतिभूतस्याग्नेः सप्ताना- मेवाभ्यासः श्रुतावेकविंशतिसंख्यायोगात् । नारत्निप्रादेशाभ्यासः । एकविंशतिसंख्या- भिस्तुल्यजातीयस्य निवर्त्तिका यथाविधाभ्यासे । तत्र पुरुषत्रिकरण्या पञ्चतिलोनया अष्टशतद्वयाङ्गुलया पक्षपुच्छानां मानं कृत्वा पक्षपुच्छेषु अरत्निप्रादेशानां प्रक्षेपः । प्राकृत इति । अश्वमेधे त्रिस्तावोऽग्निर्भवती (बौ० श्रौ० सू० २६।१० ) त्याम्नातम् । तदभिप्रायेणेदमुच्यते । प्राकृत अर्धाष्टमविधोऽग्निस्त्रिविधो भवति । तस्मात् त्रिस्ताव- विधौ विधाभ्यासवत् पुरुषविशेषश्रवणात् । एवञ्च अर्धत्रयोविंशाः पुरुषा अग्निर्भवति । तत्र पुरुषत्रिकरण्या मानम् । पक्षपुच्छानां तिर्यङ्मानीत्रिकरणी तिर्यङ्मानी । पार्श्व- मान्याश्च त्रिकरणी पार्श्वमानी । एवमाश्वमेधिकस्याग्नेरुभयरूपत्वमुक्तम् ॥ १४५ ॥ त्रिस्तावोऽग्निर्भवतोत्येकविंशोऽग्निर्भवतीत्युभयं ब्राह्मण- मुभयं ब्राह्मणम् ॥ १४६ ॥ ननु पक्षद्वयाभिधानं विरुद्धमित्याशङ्क्य श्रुतिवाक्यद्वयवशात् विकल्पो युज्यत इत्युभयमुदाहरति । त्रिस्तावोऽग्निरिति । द्विरुक्तिर- ध्यायसमाप्तिद्योतनार्था ॥ १४६ ॥

Page 198Permalink

१६६ शुल्बसूत्रम् [तृतीयो- इति श्रीमद्वैतविद्याचार्यसाग्निचित्य सर्वतोमुखातिरात्रसाग्निचि- त्याप्तवाजपेययाजिगोविन्ददीक्षितवरनन्दनस्य सर्वतन्त्रस्वतन्त्रसाग्निचित्य सर्वपृष्ठाप्तोर्यामयाजिश्रीयज्ञनारायणदीक्षितानुजस्य तच्छिष्यतालब्धसमस्त- विद्यावैशद्यस्य साग्निचित्याप्तवाजपेययाजि श्रीव्यङ्कटेश्वरदीक्षितस्य कृतिषु बोधायनशुल्बमीमासायां तृतीयोऽध्यायः । ॥ इति बोधायनशुल्बसूत्रस्य व्याख्या शुल्बमीमांसा समाप्ता ॥ अस्मिन्नर्थे ब्राह्मणमुदाहरति—त्रिस्ताव इति । उभयं विधिवाक्यमेवेत्यर्थः । उभयस्यापि ब्राह्मणार्थत्वात्दुभयमनुष्ठेयमिति भावः । वीप्सा समाप्तिख्यापनार्था ॥१४६॥ टीका भट्टात्मजेनेयं द्वारकानाथयज्वना । तृतीयो व्याकृतोऽध्याय उपपत्तिसमन्वितः ॥ इति श्रीद्वारकानाथयज्वकृते बौधायनशुल्बसूत्रव्याख्याने तृतीयोऽध्यायः समाप्तः । समाप्तञ्चेदं बौधायन शुल्बसूत्रम् ॥

Page 199Permalink

तृतीयो- नचि- चित्य नस्त- तिषु ्यर्थः। ४६॥

Page 200Permalink

अत अतीत अतीत अध अथ अथ अथ अथ अथ अथ अथ अथ ह अथार्ति अथाग अथाङ् अथाप अथाप अथाप अथाप अथाि अथाप अथाश् अथास् अयेतं अयेमे

३. तृतीय अध्याय: अग्निचयन, गार्हपत्य, आहवनीय एवं श्येनचिति (गरुड़ वेदी) निर्माण

Page 201Permalink

बौधायनशुल्बसूत्रस्थवाक्यानां वर्णानुक्रमः

( क्रमेण अध्याय-सूत्र-वाक्यबोधिकाः संख्याः ज्ञेयाः )

अत ऊर्ध्वनेकशत० २।२।१ | अधेष्टकानां विकाराः । ३।५७।१, ३।७४।१ अतीतञ्चेदाह० २।४।२ | अथैनां स्पन्द्यया १।३६।४ अतीतानेवेष्टका० २।२०।२ | अथोप॰ वाः १।७५।१ अथ प्राच्यैकादशिन्यां १।८१।१ | अधरोत्तरयोः २।६।२ अथ मार्जालीयं २।४१।१ | अध्यर्धापाद्यां ३।१३३।३ अथ याः पञ्च ३।१३७।४ | अध्यर्धाभ्याभिः ३।५५।१ अथ या विशायस्था २।१३।१ | अध्यर्धा विशिष्यते ३।७२।१ अथ वक्रपक्षो ३।२८।१ | अध्यर्धेष्टकां ३।७५।४ अथ वै भवति ३।१।१ | अनग्निकान् वा २।३।१ अथ हैक एकविध० २।६।२, ३।१४२।१ | अन्तः स्पन्द्यमप० ३।३८।५ अथ हैकेषां २।६।४ | अन्यत्राश्वमेधात् । ३।२।२ अथ होतुर्धिष्ण्यं २।३६।१ | अपरं प्रस्तारं २।३६।१, ३।६३।१ अथाग्निं विमिमीते ३।८।१, ३।३२।१, | अपरयोः पादयोः ३।१३२।१७ ३।६१।१, ३।११०।१, ३।१३३।१ | अपरस्मादपनामात् ३।७६।४ अथाग्न्याधेयिके १।५१।१ | अपरस्मिन्नर्धे १।२५।१ अथाङ्गुलं १।३।१ | अपरस्मिन् प्रस्तार ३।३१।२ अथापरम् १।२४।१, १।३२।१ | अपरस्मिन् प्रस्तारे ३।१४।१, ३।२४।१, अथापरं वयसा ३।४।१ | ३।४२।१, ३।६३।१, ३।८४।१, ३।८८।१, अथापरः । ३।१८।१, ३।४६।१, ३।६४।१, | ३।१०४।१, ३।१११।१, ३।११७।१, ३।११४।१, ३।१३६।१ | ३।१२६।१, ३।१३५।१, ३।१३६।१ अथापरेषां २।६।५ | अपरस्योत्तरस्यां १।५३।१ अथापि ब्राह्मणं २।१४।१ | अपरेणाहवनीयं १।५६।१ अथाप्युदाहरन्ति १।१६।१ | अपि चैतस्मिंश्चतुरस्रं १।४२।१ अथाश्वमेधे १।८०।१ | अपि वा गार्हपत्या० १।५६।१ अथास्माकम् २।७।१ | अपि वा द्वादश० १।६८।२ अथैतरन्नवधो २।४०।१ | अपि वा पञ्चदश० १।४६।१ अथेमेऽग्निचयाः १।१।१ | अपि वा प्रमाणं १।५७।१

Page 202Permalink

( २ ) अपि वा शिरसोऽग्रे ३।३८।१ आश्वमेधिकस्याग्नेः ३।१४५।१ अमृन्मयीभि० २।१६।१ आहवनीयात् षट्० १।१६५।५ अरत्निना पक्षौ २।७।४ इष्टकच्छिद्रान्यो० २।१७।१ अरत्निमात्रं १।७५।२ इष्टकामन्त्रयो० २।२०।१ अरा॑श्रतुर्धा ३।१०३।१ उख्यभस्मना २।४२।१ अराणां पञ्चधा ३।१०५।१ उत्पततां धारयेत्यर्थः । ३।५।१ अर्धचतुर्थाः शिरसि । ३।४९।१ उदक् सप्तविंशत्य० १।७०।१ अर्धदशमाः २।१।३ उपधाने पक्षपार्श्वयोः ३।२०।१ अर्धनवमाः २।१।२ उपधाने पक्षाग्रा० ३।११।१ अर्धपदेन पदेन० ३।३३।३ उपधाने शिरसो० ३।३७।१, ३।१३४।१ अर्धप्रादेशेना० १।७५।३ उभयं ब्राह्मणम् । ३।३।१ अर्धप्रादेशेनाध्यर्ध० ३।७५।३ उभयतः प्रउगं ३।८२।१ अर्धव्यायामेन ३।५२।१ ऊर्ध्वप्रमाणमग्नेः ३।१२७।१ अर्धाष्टमाः २।१।१ ऊर्ध्वप्रमाणमिष्टकानां २।२६।१ अर्धोऽसार्थम् । १।२६।१ ऊर्ध्वप्रमाणाभ्यासं २।६।१ अर्धेन नाकसदाम् २।२७।१ ऋजुलेखाः पश्चात् २।१२।३ अर्धैष्टकाभिः संख्यां ३।८३।४, ३।८४।६, एकविंशोऽग्नि० ३।३।१ ३।११२।१, ३।१२३।६, ३।१२६।७, एकैकामपरयोः । ३।६३।१ ३।१३४।६, ३।१३५।७ एतदेव द्रोणे ३।१४१।३ अर्ध्याश्रान्तयोः ३।८३।२, ३।८४।४, ३।८८।४ एतेन मार्जालीयो १।७८।१ अलञ्चित एतेना० ३।७८।१ एतेनापरं १।४६।४ अविशेषात्ते ३।६०।२, ३।१०६।२, ३।१३०।२ एतेनेतरासां ३।३३।५ अश्वमेधमप्राप्तै० २।४।१ एतेनेतरेषां ३।९३२।६ अष्टपञ्चाशत् ३।५१।१ एतेनोत्तरं पार्श्व १।५६।८ अष्टादशेत्येकेषाम् १।७०।४ एतेनोत्तरः पक्षो ३।१०।४, ३।११।५ अष्टाशीनिशत० १।६।१ एतेनोत्तरस्य पक्षस्य ३।३६।७ अस्मिन् प्रस्तारे ३।६२।२ एतेनोत्तरोऽस्रो १।३०।३ आकृतिः शिरसो ३।५६।१ एवं दक्षिणतः ३।१३१।६ आकृत्तिद्वैविध्यं ३।२।१ एवं दीर्घचतुरस्र० १।५६।४ आग्नीध्रागारस्य १।७७।१ एव पञ्च पञ्चम्यः ३।७६।५ आत्मनि पञ्चम० ३।५९।१ एवं सारत्निः प्रादेशः ३।१०।७, ३।३६।६, आत्माद्विपुरुषा० ३।३३।१ ३।७३।१, ३।११०।७, ३।१३२।८ आयामस्तृतीयेन १।५२।१ एवमपरतः ३।३३।३

Page 203Permalink

( ३ ) एवम परम् १।५६।१० चतुस्त्रिंशत्तिलाः १।४।१ एवमस्य मन्त्रवतो २।४२।३ चात्वालः शम्या० १।७४।१ एवमादाय० ३।१०१।२ चुबुक एकाम् । ३।८४।२ एवमिष्टकानां २।११।२ छन्दश्चितं त्रिधाहस्रस्य २।४३।१ एवमुत्तरोत्तरः २।१।४ जघनेन पुच्छा० ३।२२।३ एष द्विशतः प्रस्तारः । ३।१३।२,२।१७।१, तं सर्वाभिः ३।२२।१ ३।२३।२,३।२७।१ तत एकस्मिन् १।७०।१ एष प्रथमः प्रस्तारः । ३।१०३।३ ततश्चतुर्षु १।७१।१ एषाऽनित्या १।४६।२ ततोऽष्टौ चतुर्थ्यः । ३।११।३ कङ्कचित एतेन० ३।६८।१ तत्तिर्यक्स्वयमातृण्णा० २।४२।२ कथमु खलु २।५।१ तन्नोपपद्यते २।६।३ कामविवेकात् । २।४३।२ तत्पूर्वेण रथचक्र० ३।११५।३ कूर्मचितं चिन्वीत ३।१२६।१ तत्सर्वं त्रेधा ३।१२७।२ कूर्मस्यान्ते ३।१४१।१ तत्सर्वं पञ्चधा १।५७।२ खण्डमावापेन १।४३।२ तथाध्यर्धायाः । ३।५८।५ गार्हपत्याहवनीययो० १।५६।२ तथा पुच्छस्य ३।३६।२ चतुःशतमक्षः । १।१०।१ तथा पुच्छे । ३।६०।१ चतुःषष्टिराराः । ३।९७।१ तथोत्तरस्याम् । ३।१५।२ चतुःषष्टिर्वेदिः । ३।६८।१ तथोत्तरे । ३।१४।२,३।२०।२,३।५१।२, चतुररक्तिः १।१६।१ ३।७१।२,३।७६।२ ३।११३।२ चतुरश्रं चिकीर्षन् १।२०।१ तथोपधानम् । ३।८७।१ चतुरश्रं प्रउगं १।४५।१ तदग्न्यन्तेषु २।६।३ चतुरश्रं मण्डलं १।४७।१ तदुत्तरेण द्रोण० ३।१३७।३ चतुरश्रं सप्तधा २।३१।१ तदेतत् सप्तविध० २।१।६ चतुरश्र आत्मा ३।११०।२ तद्दक्षिणाग्रे० १।५६।३,१।५७।४ चतुरश्रमुभयतः प्रउगं १।४६।१ तद्दशकं १।७१।२ चतुरश्रमेकतोऽणिम० १।४४।१ तद्दशकम् । १।७०।२ चतुरश्राच्चतुरश्रं १।४०।१ तमवस्तात् प्रादेशेन ३।१०।६ चतुरश्राणामग्र्यांभिः ३।११६।५ तया पुच्छस्यावस्तात् ३।७२।२ चतुरश्रास्वेवै० २।२१।४ तयोरवस्ताद० ३।३७।४, ३।३८।४ चतुरश्रेत्येकेषाम् । २।३०।१ ३।४३।२, १।७२।३, चतुरस्र आत्मा ३।१३१।२ ३।११३।६, ३।१३५।२-३, चतुर्विंशतिः पुरस्तात् १।६३।३ तयोरवस्तान्म० ३।११३।७

Page 204Permalink

" or "३।७१"? It says "३।७१,". And next to it in Line 31: तृतीयकरण्ये तेन १।३६।१ Wait, "तृतीयकरण्ये" or "तृतीयकरण्यै"? It has 'े' on य: तृतीयकरण्ये. Line 32: ३।१२१।१, ३।१३३।१ ते द्वे पार्श्वयो० ३।१२६।३ Line 33: तस्यैव दक्षिणे १।५४।१ ते द्वे यथा ३।३१।३ Line 34: तस्यै दीर्घकरणा० १।६६।३ तेन वेदि विमिमीते १।७६।४, १।८०।३

Wait! Look at the footer: "Nepal Sanskrit University, Balmeeki Campus, Kathmandu" This is a standard scanner stamp at the bottom.

Let's double-check the layout. The prompt asks: "Transcribe all text on Vedanga Kalpa / Shrauta / Grihya / Shulba Sutra page line by line into pure, clean Markdown in Unicode Devanagari. Include all sutras, prayoga vidhi, mantras, bhashya, geometric measurements, altars, Hindi translation, and footnotes. Prefix each line with line marker like , . Output line markers for every line. Do NOT output LaTeX math syntax."

Let's check

Page 205Permalink

( ५ ) ते यत्र समेयातां १।२२।२ द्वौ द्वावेकैक० १।२८।२ ते यथा दीर्घ० ३।३३।४ द्वौ प्रादेश० १।५५।२ तेषां भूमेः १।२।१ धिष्ण्या एक० २।३७।१ तेषामाग्नीध्रीयं २।३८।१ न कृष्णांमुप० २।२४।४ त्रयस्त्रिंशदति० ३।६५।६ न खण्डामुंप० २।२४।१ त्रिंशत्पदानि १।६९।१ न च सप्तविधं २।८।३ त्रिपदपरिणाहा० १।८३।१ न चासप्तविध० २।८।२ त्रिभागोनः पुरुषः ३।११०।६ न जीर्णामुप० २।२४।३ त्रिभिर्भागै० ३।१२५।१ न भिन्नामुप० २।२४।२ त्रिस्ता वोऽग्नि० ३।१४६।१ न लक्ष्माणमुप० २।२४।५ त्रिषष्टिर्दक्षिणे ३।७९।१ नव नव षष्ठयो ३।१५।३ त्र्यालिखिता मध्ये २।१२।४ नवमस्तु भूमे० १।३६।२, १।६४।३ त्सरोः पुरस्तात् ३।११३।५ न व्यतिषङ्गः । १।८१।३ दक्षिणयोः पाशौ १।५६।६ न स्रक्तिपार्श्वयोः । २।६।४ दक्षिणस्यां श्रोण्यां ३।१५।१ न स्वयमातृण्णां २।२५।१ दक्षिणोत्तरयोः १।१२।२, ३।१२।२, ३।११३।४ न ह्यपक्षः २।७।३ दशपदा पश्चा० १।६०।१ नात्राष्टाङ्गुलं १।८१।२ दशपदोत्तरवेदि० १।७३।२ नानाचतुरश्रे २।३९।२ दशाङ्गुलं १।५।१ नापक्षपुच्छः २।८।१ दिक्षुसक्तयो १।६६।१ नाभिः षोडश० ३।६६।१ दीर्घचतुरश्रं १।२८।१, २।४३।१ नाभिमन्तसः ३।१००।१ दीर्घचतुरश्रस्या० १।३७।१ नाभिमष्टधा ३।१०३।२ दीर्घेनेतरे १।८४।३, २।८८।३ नाभ्यन्तराले० ३।१०६।२ द्रोणचितं चिन्वीत० ३।१०८।१ नित्यमक्ष्णया० ३।३७।१ द्वयाः खलु कूर्मा ३।१३०।१ नेमिं चतुःषष्टि ३।१०२।१ दशानि तु खलु ३।६०।१, ३।१०६।१ नेमिः शेषाः । ३।९९।१ द्वात्रिंशज्जानुः । १।१२।१ नेमिमन्तत० ३।१०१।१ द्वादश प्रादेशः । १।६।१ नेमिमन्तरत० ३।१०४।२-३ द्विपदः प्रक्रमः । १।१४।१ नेम्यामन्तराले ३।१०६।१ द्विपदाक्ष्णया० ३।१३३।५ पक्षः समचतुरश्रः ३।१०।२ दिशस्तांश्चे० २।१०।१ पक्षयोश्चाध्यर्धाः ३।६१।१, ३।६६।१ द्वे द्वे द्विपदे ३।१३५।४ पक्षयोस्त्रिभि० ३।५४।१ द्वे द्वे शिरसः ३।६४।१ पक्षशेषं ३।११।४

Page 206Permalink

( ६ ) पक्षाग्रयो० ३।२५।१, ३।३६।८ पुरुषस्य षोडशी० ३।११५।१, ३।१३७।१ मण्ड० पक्षीभवति २।७।२ पुरुषाधार्तत्पञ्चदशे० ३।६५।१ मध्यमे पक्षो द्वादशपक्ष० ३।३६।१ पुरुषेण पक्षयो० ३।६६।२ मध्ये पञ्च तृतीयाः २।३४।१ पुरुषो वय ३।३।७ मध्ये पञ्चदक्षिणायां ३।३।२ पूर्वं पार्श्वं १।५६।६ मन्त्र० पञ्चदशपुच्छे । ३।५०।१ पूर्वस्मिन्ननीके ३।२४।३, ३।११३।३ महावे पञ्चपञ्चचतु० ३।१३४।३ ३।२३१।५ मानयं पञ्चमभागीया० ३।५८।४, ३।५८।७, ३।७१।४, पूर्वस्मिन् पाशं १।२२।१ मानयं ३।७५।१ पूर्वस्मिन् पाशौ १।२३।१ मानये पञ्चमायां वा २।

Page 207Permalink

( ७ ) मण्डलमृषभं २।१६।१ लोकबाधीनि २।१८।१ मध्यमे पाशौ १।३०।१ वस्तो वय ३।श१।३ मध्ये तृतीयम् ३।६।२ वितृतीया वेदि० १।६४।१ मध्ये बहुलम् ३।१४।१२ विधाभ्यास० २।१।५ मन्त्रव्यतिरेकै २।२२।१ विपर्यस्यैतेनो० १।५८।१ महावेदेस्तृतीयॆन १।६४।१, १।६७।२ विराट् सम्पन्ने० १।६२।१ मानयोगस्तया १।६०।२ विशये यद्यपच्छिन्नं ३।४४।२ मानयोगस्तयो० १।७२।१ विष्कम्भान्तयोः १।२१।३, १।२२।३ मानयोगस्तयां० १।६६।४, १।७३।३ वृक्षस्य पार्श्वमानी १।४०।२ यच्छेषं नामे० ३।१०६।३ वेदितृतीये १।६७।१ यच्छोपपाकाभ्यां २।२८।१ व्यत्यासं चिनुयाद् ३।१७।२, ३।२७।२, यजमानमात्री १:६५।१ ३।४०।१ यत्र पुरस्ताद० १।३१।१२ व्याघ्रो वयः ३।३।५ यथायोगमिष्टकानां ३।१२८।२ व्याममात्रौ २।७।६ यदतिरिक्तं ३।१३८।३ व्यामश्च। १।१८।१ यदतिशिष्यते १।४७।२ व्यायाममात्री २।२६।१ यदन्यत्कृते० २।५।२ व्यायामषष्ठे ने० २।३२।१ यदपच्छिन्नं ३।१३५।५ व्यायामेन सप्रादे० ३।७१।३ यदमूत्रस्पन्द्यया ३।६।३ शम्यामात्री चतुः सक्ति० १।६३।१ यदवस्तादप० ३।११६।२ शिरः पञ्चपदा० ३।३२।१ यद्यदपच्छिन्नं ३।४०।१, ३।१३४।४ शिरसि पञ्चोपद्ध्यात्। ३।६६।१ या दक्षिणावृत्तो २।१२।१ शिरसि याः ३।६२।१ यावती तिर्यङ्कानी १।२६।१ शिरसोऽवस्तात् ३।३६।१ यावती पार्श्वमानी १।५६।५ शिरोऽर्धषष्ठ० ३।३४।१ यावानग्निः सारत्नि० ३।८२।१, ३।८६।१, शेषं यथायोगं १।६७।२ ३।६१।२ शेषमग्निं चतुर्था० ३।४१।१, ३।४५।१, यावान् पुरुष उर्व्व० ३।९।१ ३।१३४।५, ३।१३५।६ यूपावटाः पद० १।८२।१ शेषमग्निं पञ्चमभा० ३।१३१।१, ३।२६।२, ३ यूपावटीयाच्छुङ्को० १।७३।१ २३।१, ३।२६।१ रथचक्रचितं ३।८६।१ शेषमग्निं बृहतीभिः १।८३।३, ३।८४।५, ३ रथसम्मितॆ० १।६१।१ ८८।५, ३।१११।८, रथाक्षान्तराला० १।७६।१ ३।३७।५, ३।३८।५ लेखामलिख्य १।२१।१ शेषे पादेष्टकाः। ३।१२२।१ इमशानचित्तं चिन्वीत ३।१२३।१

Page 208Permalink

( ८ ) श्रोण्योरेकैकम् । ३।३६।३ समचतुरश्रानेक ३।१४२।२ षट्त्रिंशच्छम्या० १।२३।१ समचतुरश्राभि० ३।६।२ षट्त्रिंशत्प्राची १।६६।२ समचतुरश्रावि० १।६३।२ षडशीतियुगम् । १।२१।१ समचतुरश्राश्चे० ३।३१।१ षोडशीं पुरस्ताद् ३।११६।१ सविशेषः । १।५०।२ संनतं पुच्छम् । ३।५३।१ समूह्यपरिचाय्यौ ३।११८।१ संवत्सरभृत० २।४२।२ समूह्यस्य दिक्षु ३।११९।१ स आत्मा । ३।३३।६, ३।३३।७ सर्वमग्निं चतुरश्रान् ३।१२४।१ स एष नव० ३।११७।२ सव्यावृत उत्तरतः । २।१२।२ स एष द्वादश० ३।१२२।१ सा यत्र निपतेत् १।४०।३ स एष षोडश० ३।१०७।१ साहसं चिन्वीत २।१०।१ स तु दक्षिणतो० १।१०।३ सिंहो वय ३।३।६ स दसः पूर्वार्धाद् १।७६।१ सोऽसः । १।३०।२ स निर्नामः । ३।३६।६ सक्थीरवान्तर० २।३५।३ सन्ध्यन्तयोश्च ३।८२।२ सक्थ्यवच्छेदे ३।१२२।१ सप्तपञ्चाशद् दक्षिणे ३।७१।१ हंसमुखीं पुरस्तात् । ३।३७।२ स प्रक्रमः स्यात् । १।७९।३, १।८०।२ हंसमुख्या० ३।१३४।२ समचतुरश्रं दीर्घचतु० १।४१।१ हंसमुख्यौ प्रतीच्यौ ३।४३।१ समचतुरश्रस्याक्ष्णया० १।३४।१ —:❖:—

Page 209Permalink

बौधायनशुल्बसूत्रीयक्षेत्रादीनां चित्राणि

Page 210Permalink

चित्रप्रतिरूपनिर्माणविषये सम्पादकीयं न्यूनताक्षमापनम् चित्रप्रतिरूपाणां निर्माणकार्यस्य यथार्थपरिदर्शनानभिज्ञस्य मम सम्पाद- कत्वेऽत्र मुद्रितेषु चित्रेषु बह्व्यस्त्रुटयः समापतिताः सन्ति, तदर्थं क्षन्तव्योऽहं सहृदयैः पाठकैः । १. आदितो द्विचत्वारिंशत्संख्यकेषु चित्रेषु आकृतिबाहुल्यमस्पष्टता च वर्तते । २. चितीनां चित्रेषु बहुत्र पुरुषमानप्रदर्शकलेखाया अनिर्देशात् क्षेत्रमानं दुर्ज्ञेयं जातम् । ३. इष्टकाकरणेषु संख्याङ्कानिर्देशात् चित्राधोलिखितानां संख्याज्ञानेऽपि स्वरूपं दुर्ज्ञेयमेव जातम् । ४. कदाचित् चितीनां चित्रेषु इष्टकरीतिज्ञापिकानां लेखानां दोषाद् रीतिषु यथार्था इष्टकसंख्या दुर्ज्ञेया जाता । निर्मितेषु चित्रप्रतिरूपेषु एतासां त्रुटीनां प्रतीकारोऽपि न सम्भाव्यत इति नितरां दुःखितचित्तोऽहं क्षमां याचे । विदुषां कृपामिलाषी सम्पादकः

Page 211Permalink

...म् ...म्पाद- ...व्योऽहं ...र्तंते। ...त्रमानं ...नेऽपि ...तिषु ...इति