BharatKosha
Back to the archive

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

by आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य)

DevanagariHindipublished366 pages
Page 88Permalink

५८ शुल्बसूत्रम् [ द्वितीयो- त्तरयोरिति । अग्न्यन्तेषु का गतिरित्यत आह—तदिति । तद्भेदान् वर्जयेदित्येतत् असिपर्यन्तेषु न विद्यते । तत्रावर्जनीयत्वाद् भेदस्य । तथा—नेति । साररथचक्रचयने नाभिमध्ये सक्तीनां सङ्गमे पार्श्वे च, भेदान् वर्जयेदित्येतत् न विद्यते । तत्राप्यवर्जनीयत्वाद् भेदानामिति भावः ॥ ९ ॥ अथ अग्निधर्मानाह—भेदानिति । भेदस्वरूपं स्वयमेवाह—अधरोत्तरयोरिति । किं सर्वत्र ? नेत्याह—तदग्न्यन्तेष्विति । अग्न्यन्तेषु अग्निपर्यन्तेषु । अन्तस्यावर्जनीय- त्वादिति भावः । नेति । सक्तिपार्श्वयोः । साररथचक्रचयने नाभिमध्ये सक्तीनामेव- सङ्गमः । तयोर्वर्जनीयत्वादिति भावः ॥ ९ ॥ साहस्रं चिन्वीत प्रथमं चिन्वान इति । पञ्चमायां वा चितौ [L12

Page 89Permalink

Here is the accurate Devanagari transcription of the page, line by line:

ऽध्यायः ] बौधायनीयं ५६ तावतीरिष्टका उपधाय शेषा इष्टका इष्टकामन्त्रयोरिष्टका व्यतिरेक इति न्यायेन द्वैधो- क्तमार्गेण गणावृत्त्या वा उपधेयाः । पञ्चमायां चितौ मन्त्राणां भूयस्त्वान्मन्त्र व्यतिरेक अक्ताः शर्करा इति न्यायेनोपधानम् । पञ्चमायामिति । एवं वा तत्र मन्त्राणामपर्याप्तत्वाद् यावत् सिद्धैर्मन्त्रैः पञ्च- लोकंपृणाभिश्चोपधाय शेषाः पञ्चमायां चितावुपदध्यात् । तत्रापीष्टकाव्यतिरेके लोकं- पृणाभिर्गणावृत्तिभिर्वा उपधानं कर्त्तव्यम् । तत्र पञ्चमीव्यतिरिक्तासु पञ्चभिर्लोकं- पृणाभिर्यावत्य इष्टकाः सम्भवन्ति तावतीर्गणयित्वा भेदपरिहारेण अग्निक्षेत्रपरिमित- मिष्टकाः कार्याः । पञ्चमायां चितौ पूर्वांसु चितिषु उपहितशिष्टानां भेदपरिहारेण कल्पनम् । आचार्येण अस्मिन् पक्षे करणानुपदेशाद् आपस्तम्बादिभिरनुक्तत्वाच्च पूर्वैर्व्याख्यातृभिर्दिङ्मात्रमुक्तम् । द्विशतामिति । समष्ट्यभिप्रायेण नपुंसकत्वम् । द्विशतप्रस्तारपक्षेऽयं विशेषः । पञ्चचोडा अयं पुरो हरिकेश इत्युपुर्युपधेया अर्धोच्छ्राया इष्टकाः ! राज्ञ्यसीति पञ्च नाकसदस्तावदुच्छ्रायास्तासामधस्तादुपधेयाः । ता दश भवन्ति । द्विशतपूरणार्थ- मिष्टकागणनायां पञ्चेति विद्यात् । पञ्चमायां वा चितावित्यस्मिन् पक्षे भेदेन गणयेदित्यर्थः । समानसंख्यं द्वे द्वे एकीकृत्य गणयेत् ॥ १० ॥ पशुधर्मो ह वा अग्नैर्यथा ह वै पशोर्दक्षिणेषामस्थ्नां यद् दक्षिणं पार्श्वं तदुत्तरेषामुत्तरं यदुत्तरेषां दक्षिणं तद्दक्षिणेषो- मुत्तरं यदर्वाक्चोध्वंञ्च तत्समानम् । एवमिष्टकानां रूपाण्यु- पदध्यात् ॥ ११ ॥ अग्निः पशुसमानाकारस्तदेवाह--पश्विति । यथा पशोः प्राङ्मुखस्य सतः । दक्षिणेषामिति । दक्षिणपार्श्वस्थानामस्थ्नां यद्दक्षिणमग्रं तदुत्तरे- षामुत्तराग्रमिति यावत् । तत्तादृशमित्यर्थः । उत्तरपार्श्वस्थानां वाम- पार्श्वस्थानामस्थ्नां यदुत्तरमग्रं तद्दक्षिणपार्श्वस्थाग्रसदृशमित्यर्थः । यदुत्त- रेषां दक्षिणं मूलं तत्तुल्यं दक्षिणेषामुत्तरं मूलमित्यर्थः । यदवाक् अधः प्रदेशः पश्चाद्भागः, ऊर्ध्वं पूर्वप्रदेशः, तदुभयं सदृशमित्यर्थः । तथैवाग्निः कर्तव्य इति यावत् । एवमिति । इष्टकानां रूपमेवमा- पाद्योपदध्यात् । पश्चात् स्थित्यायनेन तुल्यन्यायापत्या (१) पार्श्वद्वये प्राक् प्रत्यक् चोपद्ध्यादित्यर्थः ॥ ११ ॥

Page 90Permalink

६० शुल्बसूत्रम् [ द्वितीयो- दक्षिणोत्तरपार्श्वयोरिष्टकानां समानरूपप्रतिपादनार्थं ब्राह्मणान्तरमाह— पश्विति । तत्समानमिति । तत् सदृशम् । अस्थ्याभिप्रायेण नपुंसकत्वं । यदवाक् पश्चाद् भागः । ऊर्ध्वञ्च पूर्वभागः । तत् समानम् तदुभयं सदृशं भवति । एवमिष्टकानां रूपाण्युपदध्यात् एवमिष्टकाः कुर्यादित्युक्तं ब्राह्मणे । तस्यार्थमाह या दक्षिणावृतो लेखा ( २।१२ सू० ) इत्यादिना । तथा चापस्तम्बः—सर्वान् वर्णान् इष्टकानां कुर्यादिति लेखाधिकारो भवतीति । आचार्येण लेखाधिकारस्य पशुत्वेनोक्तत्वात् सर्वान् वर्णान् इष्टकानां कुर्यादिति पशुधर्मत्वमुक्तं वेदितव्यम् ॥ ११ ॥ या दक्षिणावृतो लेखास्ता दक्षिणत उपदध्यात् । सव्यावृत उत्तरतः । ऋजुलेखाः पश्चात्पुरस्ताच्च भवन्ति । त्र्यालिखिता मध्ये ॥ १२ ॥ ब्राह्मणे सर्वान् वर्णानिष्टकानां कुर्यादित्युक्तं तस्यार्थमाह—या दक्षिणेति । इष्टकास्तु या ( इष्ट ) दक्षिणमावर्तते सव्यमारभ्य दक्षिणं प्रति चक्ररूपेणावर्तते लेखा इति तद्वत्य इष्टकाः लक्ष्यन्ते । दक्षिणावृत- लेखायुक्ता इष्टका दक्षिणत उपदध्यादिति यावत् । एवं दक्षिणमारभ्य सव्यमावर्तन्ते या लेखास्तद्युक्ता इष्टका उत्तरत उपदध्यात् । या इष्टका ऋजुलेखायुक्तास्ताः पश्चात् पुरस्ताच्च । एते च यथा भवति तथोपद्ध्या- दित्यर्थः । तिस्र आभिमुख्येन लिखितास्त्र्यालिखिताः, तादृशलेखायुक्ता मध्ये अग्निमंध्ये उपदध्यात् । यद्यपीष्टकाकरणे एवं गुणा इष्टकाः कर्तव्या इति नोक्तम् तथापि लोके प्रायेण इष्टकाकारिणां परिमार्जनवशादेव रेखाः सम्भवन्ति । तासामुपधाने स्थानविशेषनियम उक्तः । एवञ्च रेखासम्भ- वस्य प्रायिकत्वात् कल्पसूत्रेऽनुक्तत्वाच्च लेखाधिकारोऽयं वैकल्पिक इति द्रष्टव्यम् ॥ १२ ॥ या दक्षिणेति । सव्यपार्श्वादारभ्य दक्षिणपार्श्वं प्रति चक्ररूपेणावृता दक्षिण- वृल्लेखा । सव्यहस्तेन परिमृष्टेति यावत् । सव्येति । तद्विपरीताः सव्यावृतः । लेखा- नामुपधानासम्भवात् तद्वत्य इष्टका लक्ष्यन्ते । दक्षिणत उपदध्यात् दक्षिणपार्श्व उपदध्यात् । एवमुत्तरतः । ऋज्विति ! ऋजुलेखा अकुटिललेखा अग्नेः पश्चाद् भागे पूर्वभागे च । त्र्यालिखितेति । मध्ये तिस्र आभिमुख्येन या लिखिता लेखास्ताः त्र्यालिखिताः । ता अग्नेर्मध्य उपदध्यात् । एवंगुणा इष्टकाः कार्या इत्यनुक्त्वा

Page 91Permalink

या दक्षिणावृत इति लोक इष्टकाकारिणां प्रसिद्धमनूद्य देशविधानात् लोके च लेखाधिकारस्य प्रायिकत्वात् कल्पेऽनुक्तत्वाच्च लेखाधिकारो विकल्पते । लेखा- करणपक्ष अग्निक्षेत्रं पञ्चधा विभज्य प्रोक्षणदेशवद् दिक्सम्बद्धलेखायुक्तास्तेपू- पदध्यात् ॥ १२ ॥ अथ या विशयस्था यथा ह वै पशोः पृष्ठवंशो नैवैकस्मिन् पार्श्वे व्यतिरेकेण वर्त्तते नैवापरस्मिन् एवं तासामुपधानं प्रतीयात् ॥ १३ ॥ अथेति । अथ शब्दो लेखाधिकारव्यवच्छेदार्थः । लेखाधिकारो निवृत्त इत्यर्थः । या इष्टका विषयस्य मध्यस्थितास्तासामुपधानमेवं प्रतीयादि- त्युत्तरेणान्वयः । यथा पशोः पृष्ठवंश इति शेषः । शालामध्यवंश इव पुच्छादारभ्य मुखपर्यन्तं मध्य एव वर्तते । न त्वन्यतरपार्श्वे । एवकार- द्वयेन मध्य एव वर्तते, पार्श्वभूतो न वर्तत इति दृढीकृतम् । एवं पृष्ठ- वंशरीत्या तासां मध्यस्थेष्टकानामुपधानं जानीयादित्यर्थः । एवञ्च “सर्वान् वर्णान् इष्टकानां कुर्या”दिति वेदवाक्यस्य सर्वाणि रूपाणि ( इत्यस्य ? ) मध्यास्थिसदृशयः काश्चिदिष्टकाः, पार्श्वास्थिसदृशयः काश्चित् कर्त्तव्येत्यग्नेः पशुधर्मत्वकथनपरत्वेन व्याख्यानमाचार्यैः कृतं वेदितव्यम् ॥ १३ ॥ अथेति । अथ शब्दः पूर्वस्माद् व्यवच्छेदार्थः । व्यवच्छेदश्च लेखाधिकारो नास्तीति । विशयस्था मध्यस्थाः । यस्मादारभ्य पक्षपुच्छस्था इष्टका विविधं शेरते इति विशयाः । पुच्छादारभ्यान्तान्मध्यरेखायां या इष्टका उपधेयास्ता विशयस्था इत्यर्थः । यथा ह वै पशोः पृष्ठवंशः शालाया मध्यवंश इव । जाघनीप्रभृति आमु- खादेकस्मिन् पार्श्वे व्यतिरेकेण उदग्दक्षिणादिपार्श्वभूतो नैव वर्त्तते । उभाभ्यामेव- काराभ्यां कदाचिदपि न वर्त्तत इति सूचयति । एवमिति । तथेत्यर्थः । तासामुपधानं मध्यदेशवर्त्ति-अस्थितुल्यतामापाद्योक्तं भवति । पुच्छापरान्तमध्यादारभ्य आशि- रोऽग्रमध्यादुन्नीयते । अग्नेः पशुधर्मविधानार्थं ब्राह्मणान्तरमुक्तम् । तदुदाहृतम् । तत्र अस्थिसाहश्यमुक्तम् ॥ १३ ॥ अथापि ब्राह्मणं भवति प्रजापतिर्वा अथर्वाग्निरेव दध्यङ्ङा- थर्वणस्तस्यैष्टका अस्थानीतीति ॥ १४ ॥

Page 92Permalink

५२ शुल्बसूत्रम् [द्वितीयो- इष्टकानामग्निसाम्यात्प्रतिपादनादग्नेः पशुधर्मत्वकथनपरं ब्राह्मण- मुदाहरति—अथापोति । प्रजापतिरथर्वा नामोऽग्निः । आथर्वणः अथर्वपुत्रो दध्यङ् नाम । तस्याग्नेः इष्टका अस्थीनि । एवं पशुधर्मत्वमुक्तम् । तथा चाग्निः पशुवत् तुल्योपमपार्श्वः पृष्ठवंशे सदृशमध्येष्टकश्चेतव्य इत्युक्तं भवति ॥ १४ ॥ स्वशाखायामप्येष्टकानां अस्थिसादृश्यमात्रवचनमस्तीत्याह—अथापीति । अथ शब्दोऽस्माकमिति द्योतनार्थः । अपि शब्दः समुच्चय एव । न परकीयमेव अस्म- दीयमप्यस्तोत्यर्थः । किं तत् ? अथर्वा नाम प्रजापतिरग्निरेव मान्य अथर्वणः पुत्रो दध्यङ् । तस्य दधीच अस्थानी अस्थीनि इष्टका इति ब्राह्मणस्यार्थः । तस्मात् सादृश्यवाक्योपन्याससामर्थ्याद् विधिं प्रकल्प्य इष्टकानामस्थिसादृश्यमापाद्योपद्- ध्यादिति शेषः ॥ १४ ॥ बहिस्तन्वं चेच्चिनुयात्तन्वोपप्लवमध्यैरात्मोपप्लवमध्यान्तसं- दध्यात् । प्राञ्चमेनं चिनुत इति विज्ञायते ॥ १५ ॥ अग्निचयने नियमस्तावदाह—बहिस्तन्वमिति । तन्वशब्दोऽङ्ग- परः । अग्नयो हि द्विविधाः अन्तस्तन्वोबहिस्तन्वश्चेति । बहिस्तन्वाः श्येनकङ्कालजद्रोणकूर्मादयः । बहिर्भूतान्यङ्गानि यस्य सः बहि- स्तन्वः । तादृशमग्नि यदि चिनुयात्तदा तन्वोपप्लवमध्यैः तन्वानां शिरःपक्षप्रभृतीनां मध्यैरात्ममध्यान् संयोजयेत् । शिरसः पश्चि- मान्तमध्यैरात्मप्राच्यान्तमध्यो योजयेत् । एवं पक्षपुच्छादिष्वपि । इदञ्चाकृतिवचनात् सिद्धम् । एकस्यां दिशि कतमदङ्गं संदध्या- दित्यत आह—प्राञ्चमेनमिति । प्राङ्मुखं प्राक्शिरसमेन मग्निं चिनुते । एवञ्च इदमङ्गं अत्र संदध्यात् । अविज्ञातमुखादीनां प्रउगादीनां मुखादि- परिज्ञानार्थमिदमुक्तम् ॥ १५ ॥ तन्वशब्दोऽङ्गपर्यायः । अङ्गानि चात्र शिरःपक्ष-पुच्छ-पाद त्सर्वोष्ठानि श्येन- कङ्कालजद्रोणकूर्मादीनां बहिर्भूतान्यङ्गानि । ( त्सरुश्चतुरस्र द्रोणे, पादाः कङ्क- कूर्मयोः, परिमण्डलद्रोणे कूर्मे च ओष्ठ इति टिप्पण्याम् ) । रथचक्रश्मशानादीना- मन्तर्भूतानि ।

Page 93Permalink

ऽध्यायः ] बौधायनीयं ६३ तत्र यदि बहिस्तन्वमग्निं चिनुयात् तन्वोपसवमध्यैः, तन्वानामुपसव- मध्यास्तन्वोपसवमध्याः, उपसवशब्दोऽन्तपर्यायः, तेषां मध्येरात्मोपसवाना- मात्मोपसवमध्यान् पार्श्वानां मध्यान् संदध्यात् । आत्मनः पूर्वपार्श्वान्तमध्यं शिरसः पश्चिमान्तमध्येन संयोजयेत् । एवं पक्षादिषु द्रष्टव्यम् । कङ्कपादयोस्तु तावदन्तरालविधानात् सान्तरालपद्वयमध्यं पुच्छान्तमध्ये भवति । अन्यथा- सम्भवात् । कूर्मे तु प्रध्यपच्छेदमध्यान् पादान्तमध्यैः श्लेषयेत् । एतत् सर्वमाकृ- तिवचनेनैव सिद्धं विस्पष्टार्थमुच्यते । कस्यां दिशि कतमदङ्गं संदध्यादित्यत आह— प्राञ्चमेनमिति । प्राञ्चं प्राक्शिरसमेनर्माग्नि चिनुत इति । अनेनेदमस्मिन् प्रदेशे संद- ध्यादिति विस्पष्टार्थं विज्ञायते । अविज्ञातमुखानां प्रउगादीनां मुखादिप्रदेशपरि- ज्ञानमेव प्रयोजनं प्रयोक्तुरुपस्थानाद्यर्थम् ॥ १५ ॥ अमृन्मयीभिरनिष्टकाभिर्न सङ्ख्यां पूरयेत् ॥ १६ ॥ हिरण्येष्टकाभिः सहस्रसङ्ख्यापूरणे प्राप्ते तन्निवृत्त्यर्थमाह—अमृ- न्मयीभिरिति । अमृद्विकारेष्टकाभिः सहस्रादिसङ्ख्यां न पूरयेदित्यर्थः । ननु कुम्भेष्टकानां मृन्मयत्वात् ताभिः सङ्ख्या (पूरणं प्राप्तमिति चेन्न तादृशस्थले ? ) पूरकानामिष्टकार्थोर्ध्वप्रमाणादिलक्षणाभावेन लोकप्रसि- द्ध्यभावेन च इष्टकत्वाभावात् ॥ १६ ॥ अमृन्मयीभिर्हिरण्येष्टकाभिः । मृन्मयत्वे सत्यपि कुम्भेष्टकाभिर्न संख्यां सहस्रादिकां पूरयेत् । लोकप्रसिद्धाभिरेव मृन्मयीभिरिष्टकाभिः संख्यां पूरये- दित्युक्तं भवति । लोकप्रसिद्धयैव मृन्मयत्वे सिद्धे मृन्मयग्रहणं स्व ( स ? ) प्रयो- जनञ्च । यज्ञे प्रारब्ध उत्तमे प्रस्तारे प्राप्ते पूर्वस्यां रात्रौ चोरेण द्विषद्विर्वा इष्टका अपहृताः स्युः सद्यः पुनरिष्टकाकरणस्य अशक्यत्वाद् आरब्धस्यावश्यपरिसमाप्य- त्वात् प्रतिनिधिप्राप्तौ त्रपुभिः शिलाभिर्वा सादृश्यात् तथेष्टकाः कारयित्वोपधानं स्यात् । तन्निवृत्त्यर्थमस्यामप्यवस्थायां अमृन्मय्यः संख्यायां नान्तर्भवेयुः ॥ १६ ॥ इष्टकाचिद्वान्योऽग्निः पशुचिदन्य इत्येतस्माद् ब्राह्मणात् । पशुर्वा एष यदग्निर्योनिः खलु वा एषा पशोर्विक्रियत इति यत् प्राचीनमैष्टकाद् यजुः क्रियत इति च ॥ १७ ॥ मृन्मयेनैव सङ्ख्यापूरणे ब्राह्मणमुदाहरति--इष्टकचिद्वेति । यत इतिवत् (?) साभिमर्शनस्य पशुचिदं (?) नित्येन स्तवनार्थं प्रसिद्धोऽग्नि- रिष्टकचिदित्यनूद्यते । ततश्च इष्टकाभिरेव प्रसिद्धोऽग्निश्चेतव्य इत्यस्माद् Nepal Sanskrit University, Balmeeki Campus, Kathmandu

Page 94Permalink

६४ शुल्बसूत्रम् [द्वितीयो- ब्राह्मणादवगम्यते । अमृन्मयत्वे च इष्टकचित्त्वं व्याहन्येत । इष्टकाभिरेव चित इष्टकचित्त्वात् । अग्नेः पशुधर्मत्वे मृन्मयीभिरेवेष्टकाभिः संख्या- पूरणे ब्राह्मणमुदाहरति--पशुर्वैति । अपस्योपधानविधिविशेषोऽयमर्थ- वादः । अयमग्निः पशुधर्मत्वात् पशुः । अस्य पशुरूपस्याग्नेः एषा पुष्कर- पर्णरूपयोनिः इष्टकोपधानात् ( पूर्वंयजुषा कृतेन रुक्मोपधाने तयोन्येने॑ह॑ण विकृती क्रियते तत्परिहारार्थमपस्योपधाने कृते योन्यर्हरेत्त ) एव सिद्धं भवतीत्यर्थः । पुष्करपर्णस्य उपधानं प्रशंसन्ति । योनेर्वा अग्नेः पुष्करपर्ण- मिति ब्राह्मणादवगम्यते ॥ १७ ॥ अस्य ( २।१६ ) प्रतिषेधस्य हेतुरूपेण श्रुतिं दर्शयन्नाह—इष्टकेति । अग्निहो- त्रस्य वत्साभिमर्शनम्यर्थवादः । इष्टकया चित एकोऽग्निः पशुना चित अन्यो- ऽग्निरित्येतस्माद् अन्यार्थवादविषयब्राह्मणलिङ्गाद् इष्टकाभिरेव चिन्वीत न द्रव्यान्तरैणापीत्यत्र प्रसिद्धश्चयनाग्निरनूच्यतेऽभिमर्शनेन । पशुचितमेन मग्निं कुरुत इति ज्ञापनार्थम् । अनेन ब्राह्मणेन इष्टकाभिरेवेत्यत्र स्वशाखायाञ्चास्ति लिङ्ग- मिति प्रतिपादितं भवति । अन्यच्च । योऽग्निरेष पशुधर्मत्वादभेदेन पशुधर्म इत्युच्यते । योनिरुत्पत्तिस्थानम् । एषा योनिः पशोर्विक्रियते विविधं क्रियते । कथम् ? यत्प्राचीनं यस्मात् प्राचीनं पूर्वमैष्टकात् इष्टकासम्बन्धात् चयनाद् यदिष्टकानां यजुर्मन्त्रवत् कर्म क्रियते दर्भस्तम्भोपधानकर्षणादि । अत्रैष्टकात् पूर्वमित्यनेन ऐष्टक एवाग्निरुपधातुं शक्यते । च शब्दः समुच्चयार्थः । इदञ्च लिङ्ग- मिति । अत्र यत् प्राचीनमित्यादिना लिङ्गदर्शनेन इष्टकचित्त्वे सिद्धे पशुधर्मत्व- ञ्चाग्नेः स्वशाखायामस्ति इति दर्शयितुं पशुर्वा एष इत्याद्युदाहृतम् ॥१७॥ लोकबाधीनि द्रव्याण्यवटेषूपदध्यात् ॥ १८ ॥ इष्टकोपधानात् प्रागेव पुरुषशिरः प्रभृतीनां कल्पोक्तप्रकारेण उपधाने क्रियमाणे ता(वद् ?)कचिदौन्नत्यं च स्यात् । ततश्चेष्टकोपधानं कर्तुं न शक्यत इति आशङ्क्याह--लोकबाधीनीति । लोकबाधीनि पुरुषशिरः उलूखलमुसलादीनि नित्यकारिणि (?) इष्टकोपधानविघ्नानि अवटेषु गर्तेषूपदध्यादित्यर्थः ॥ १८ ॥ इष्टकानां स्थानबाधीनि उलूखलपशुशिरःप्रभृतीन्यवटेषु गर्तेषूपदध्यात् । इष्टका अपसार्यो लूखलादिद्रव्यस्योपधित्सितस्य स्थान इष्टका अपनीय अवटं

Page 95Permalink

ऽध्यायः ] बौधायनीयं ६५ खात्वा तत्रोपधाय समां भूमिं कृत्वा अपनीता इष्टकाः स्थाप्याः। अवकाः ( ? ) स्वयमातृण्णाश्चोत्तरास्वपि चितिषु दृष्टत्वात् सर्वत्र सन्धिषूपदध्यात् ॥ १८॥ मण्डलमृषभं विकर्णीमितीष्टकासु लक्ष्माणि प्रतीयात् ॥१९॥ मण्डलेष्टका उपदधाति ऋषभेष्टका उपदधाति विकर्णीमुपदधाती- त्यादिविधानेन मण्डलाद्याकारतया इष्टकाकरणे प्राप्ते तन्निवृत्त्यर्थमाह— मण्डलमिति। इष्टकाया मध्ये मण्डलाकारतया लेखां लिखेत् सा मण्ड- लेष्टकेत्युच्यते। एवं वृषभाकारतया लिखेत्। एवं विकर्णाकारतया लिखेत्। एवं रूपेण इष्टकासु लक्षणानि चिह्नानि कुर्यात् ॥ १६ ॥ इतिरेवमित्यर्थे। मण्डलेष्टकामुपदधाति ऋषभमुपदधाति, विकर्णीमुप- दधाति इत्येवं यत्र श्रूयते तत्र इष्टकासु लक्ष्माणि चिह्नानि प्रतीयात्। इष्टकानां मण्डलाकृतिविधानमिति न जानीयात्। चतुरस्राभिरित्यादिवचनविरोधात्। तत्र तिसृषु मण्डलाकारं लिखेत्। पञ्चसु ऋषभाकारम्। एकस्यां विकर्णीरूपं अर्धचन्द्राकृतिं वा लिखेत् ॥ १९ ॥ इष्टकामन्त्रयोरिष्टकाव्यतिरेके लोकंपृणाः संपद्यन्ते परिमाणा- भावात्। अतीतानेवेष्टकागणानत्रोपदध्यात् ॥ २० ॥ इष्टकेति। इष्टकामन्त्रयोर्मध्ये इष्टकाव्यतिरेके इष्टकातिरेके लोकं- पृणाः संपद्यन्ते। कुतः लोकंपृणानां भावात्। अयमर्थः—तत्तत्प्रस्तारोक्तमन्त्रोपधानान्तरं यदि काश्चिदतिरिक्ताः स्युस्तदा अतिरिक्तासु इष्टकासु लोकंपृणाभिरुपधानं कुर्यात्। इष्टकातिरेके पक्षान्तरमाह—अतीतानेवेति। तत्र इष्टकाधिक्ये अतीतानपस्यादिगणानुपधाय संख्यां पूरयेत्। एवकारो वार्थकः ॥ २० ॥ ता इष्टकामन्त्रा अवधेया मन्त्रप्रकरणपठिता आचार्येणोक्ताश्च। इष्ट- कानां मन्त्राणां मध्ये इष्टकाव्यतिरेके इष्टकाधिक्ये प्रथमे प्रस्तारे शतमष्ट- षष्ठिश्च मन्त्रा द्रष्टव्याः। वापश्चिदादीनां मन्त्राणां विनियोगान्तरे पञ्चषष्टिरिति। यद्वा त्रिंशत् पञ्चत्रिंशद्वा इष्टका मन्त्रेभ्योऽतिरिच्यन्ते ता लोकंपृणाः संपद्यन्ते। कुतः? इयत्य एव लोकंपृणा इति परिमाणाभावात्। ननु पञ्च लोकंपृणा इति वक्ष्यति। कथं परिमाणाभावः? सत्यम्। पञ्चैवेति न तस्यार्थः। द्वैधोक्तमार्गेण ६

Page 96Permalink

६६ शुल्बसूत्रम् [ द्वितीयो- गणावृत्तौ द्विशताश्चेदित्यस्मिन् पक्षे पञ्चमायां चितौ च अवश्यं पञ्चोपधेया इति तस्यार्थः । अनुष्टुभानुचरतीति वचनात् । तस्मात् प्राणः सर्वाण्यङ्गान्यनु- चरतीति अर्थवादाच्च । द्वितीये प्रस्तारे शतमष्टत्रिंशच्चातिरिक्ताः । तृतीये पञ्च- दशातिरिक्ताः । चतुर्थे षोडशाधिकं सप्तदशाधिकं वा शतम् । पञ्चमे नेष्टकातिरेक उत्तमायां पूरणत्वेऽतिरिच्यन्ते । तत्राथोधोचीभिरिति दर्शनात् स्वकल्पोक्तमार्गेण लोकंपृणाभिरेव पूरणम् । द्वैधोक्तमार्गेण वा गणावृत्त्योपधानम् । न संकलितो- पधानम् । अत्र एतस्मिन् काले लोकंपृणानामुपधानकाले अतीतानेवेष्टकागणानपस्या- श्विनीदिश्याक्ष्णयास्तोभीयासपन्नादीनुपदध्यात् । अथवा कल्पे अपानभृदभि- श्चितिराप्यते पुरुषेण वालखिल्याभिर्व्युष्ट्रीभिर्नक्षत्रेष्टकाभिश्चितिराप्यते इति वचनात् । अतीतानुपधानकाले विस्मृतानिटकागणान् एतस्मिन् काले उपदध्यात् । अस्मिन् पक्षेऽत्रेति शब्दोऽनर्थकः । कल्प आप्यत इति वचनेनान्यगणापानभृ- दादिभिरपि पूरणं सूचयति । तत्र पुरुषेण चितिराप्यत इति वचनात् पुरुषो वय इत्यस्यैवावृत्तिः । अन्यथेतेरेष्विव वयस्याभिरित्येवावक्ष्यत् ॥ २० ॥ पञ्च लोकंपृणाः ॥ २१ ॥ अस्मिन्नपि पक्षे पञ्च लोकंपृणावश्यमुपधेया इत्याह-- पञ्चेति ॥ २१ ॥ सर्वप्रकारेखपि पूरणे पञ्च । लोकंपृणाः पञ्च अवश्यमुपदध्या- दित्यर्थः ॥ २१ ॥ मन्त्रव्यतिरेकेऽक्ताः शर्कराः सन्धिषूपदध्यात् ॥ २२ ॥ मन्त्रव्यतिरेक इति । मन्त्राधिक्ये अधिकैर्मन्त्रैरिष्टकासन्धिषु घृत- सिक्ताः शर्करा उपदध्यादित्यर्थः ॥ २२ ॥ द्विशतप्रस्तारपक्षे पञ्चमे तेजो घृतमिति वाक्यशेषाद् घृताक्ताः शर्करा ऋतव्यासु सगराद्यैर्मन्त्रैः पौर्णमास्यन्तैः शतं विंशतिसंयुक्ताः सन्धिषु इष्टकाविवरेषु उपदध्यात् । प्रतितारकपक्षे द्वे द्वे भवतः ॥ २२ ॥ प्राचीरुपदधाति प्रतीचीरुपदधातीति गणेषु रीतिवादः । प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः । पुरस्तादन्याः प्रतीचीरुपदधाति पश्चादन्याः प्राचीरित्यपवर्गवादः । चतुरश्रास्वे- वैतदुपपद्यते ॥ २३ ॥ प्राचीरिति । कल्पसूत्रश्रुतौ प्राचीरुपदधाति प्रतीचीरुपदधातीति

Page 97Permalink

ऽध्यायः } बोधायनीयं ६७ यत्र श्रूयते तत्र तेषु गणेषु रीतेर्वादः, श्रेण्या वादः अभिधानं, प्रागपवर्गा प्रत्यगपवर्गा च रीतिं समापयेदित्यर्थः । इदमुपलक्षणम् । उदीची- रुपदधाति दक्षिणा उपदधातीत्यत्रापि उदगपवर्गा दक्षिणापवर्गाञ्च रीतिं समापयेदिति द्रष्टव्यम् । प्राचीरिति । इष्टकायाः प्राङ्मुखत्वाद्यसम्भवात् कर्तुः प्राङ्मुखत्वाद्यभिप्रायेण अयं व्यपदेशः । पुरस्तादन्या इति । नक्षत्रे- ष्टकासु पुरस्तादन्याः प्रतीचीरुपदधातीति अंसादारभ्य श्रोणीपर्यन्तं प्रत्य- गपवर्गा उपधेयाः, पश्चादन्याः प्राचीरिति श्रोणेरारभ्यांसपर्यन्तं प्रागपवर्गा उपधेयाः । न त्विह रीतिर्विवक्षिता । चतुरश्रास्विति । एतत्प्रागुक्तमंसश्रोण्यादिविशेषमुपधानं चतुरश्रा- स्वेव चितिषु उपपद्यते न तु रथचक्रादिषु (गण) श्रोण्यादिविभागस्य अस्पष्टत्वात् गौण्या वृत्त्या संपद्यत. इत्यर्थः ॥ २३ ॥ प्राचीरुपदधाति प्रतीचीरुपदधातीति कल्पे श्रुतौ वा यत्र श्रूयते अप- स्यादिषूपलक्षणत्वात् , उदीचीर्दक्षिणा इति च यत्र श्रूयते, तत्रायमर्थः --तेषु गणेषु रीतेर्वादः श्रेण्या वादः अभिधानम् । रीतिशब्देन प्रसिद्धा अकुटिला गति- रुच्यते । प्रागपवर्गा इत्युक्तं भवति । प्राचीमिति । अस्यां शाखायामुदाहृतरूपस्यो- भयस्याभावादर्थवादरूपेण ग्रहणम् । अस्य च प्रदर्शनार्थत्वात् पञ्चैकैकामित्या- दिषु प्राङ्मुख इत्यादि चयनकर्त्तुश्चोदन भवति । तत्र प्राङ्मुखत्वादेरिष्टकाया अस- म्भवादुपधानकर्त्तुरित्युक्तम् । पुरस्तादन्या इति । नक्षत्रेटकासु अंसादारभ्य आश्रोणे रोहिण्याद्या विशाखान्ताः प्रत्यगपवर्गाः । पश्चादन्या इति । श्रोण्या आरभ्य अंसाद् अनुराधाद्या अपभरण्यान्ताः प्रागपवर्गाः । तत्र अपवर्गवादो न रीतिवादः । आरम्भावसानस्थानवचनात् तद्- वश्यं संपाद्यं कुटिलतायान्तु दोषः । चतुरश्रास्विति । अनन्तरोक्तनक्षत्रेटकासु । अंस- श्रोणिविशिष्टं विधानं चतुरस्रासु चितिष्वेवोपपद्यते । अन्यत्र रथचक्रादिषु गौण्या वृत्त्या सम्पद्यत इत्यर्थः ॥ २३ ॥ [ इति अग्नीनां विशेषधर्मकथनम् । ] न खण्डामुपदध्यात् । न भिन्नामुपदध्यात् । न जीर्णामुप- दध्यात् । न कृष्णणमुपदध्यात् । न लक्ष्मणामुपदध्यात् ॥२४॥ अग्निधर्मानुक्त्वा इष्टकाधर्मानाह--न खण्डामिति । ( खण्डां वा

Page 98Permalink

स्यादिति वा ) चतुरश्रकृतामिष्टकां भित्वा तत्संपादितेष्टकां नोपदध्या- दित्यर्थः । न भिन्नामिति । भिन्नां रेखाकारतया संयुक्तां स्फुटितामिष्टकां नोपदध्यात् । न जीर्णामिति । न जीर्णां चिरकालसंपादिताम् । अत एव “यद्युवै संवत्सरभृतं दीर्घोऽध्वाऽजिरिति नाद्रियेत” इति उख्यस्य संवत्सरभरण- पक्षे उपकल्पनं निषिद्धम् । न कृष्णामिति । कृष्णां पाकाधिक्येन न्यून- तया वा नीलवर्णाम् । न त्वेकदेशनीलां पाकानन्तरीयकस्य एकदेशनैल्यस्य अपरिहरणीयत्वात् । कृष्णामित्युपलक्षणं लोहितव्यतिरिक्तश्वेतादियुक्तामपि नोपदध्यात् । लोहितपचनायैः पचन्तीत्यापस्तम्बवचनात् । न लक्ष्मा- मिति । लक्ष्मां छान्दसत्वान्न दोषः । लक्ष्मणां शोषणसमये दारुपाषाणा- दिना चिह्नितां नोपदध्यादित्यर्थः ॥ २४ ॥ अथेष्टकाधर्माः—न खण्डेति । वाश्यादिना संतक्ष्य पादेष्टकादिमापाद्य नोप- दध्यात् । तत्र भिन्नप्रतिषेधादेवमुक्तम् । न भिन्नेति । द्विधाभूतां पुनः संधायैकीभूतां नोपदध्यात् । न जीर्णेति । एकदेशजीर्णां किञ्चिद्विशिष्टामपि नोपदध्यात् । न कृष्णेति । उत्तरदेशे कृष्णापि कृष्णैव । यथा सर्वो रोहित इत्यत्र एकदेशरोहितापेक्षया तद्विशेषणत्वम् । न लक्ष्मणेति । शोषणकाले काष्ठपाषाणादिना अङ्किताम् । निर्मध्येन लोहिनीः पचन्तीति वचनादिष्टकासु अतीवव्यतिरिक्तश्वेतश्यावादिवर्णा अपि वर्जनीयाः ॥ २४ ॥ न स्वयमातृण्णां स्वयं चितावुपदध्यात् ॥ २५ ॥ इष्टकास्वरूपनिविष्टानखण्डादिधर्मानुक्त्वा स्वयमातृण्णानपिधाय- कत्वाख्यमुपधानमुखेनेष्टकाविनिवेशितं धर्ममाह—न स्वयमातृण्णा- मिति । स्वत एव संपन्नच्छिद्रा शर्करा स्वयमातृण्णा । अग्नौ हि तिस्रः स्वयमातृण्णा उपधेयाः । एका हिरण्मयपुरुषोपधानानन्तरं मृन्मयेष्ट- कोपधानात् पूर्वमसिमध्ये उपधेया । द्वितीया द्वितीयप्रस्तारोपधाना- नन्तरमसिमध्येष्टकारन्ध्रोपर्युपधेया । तृतीया पञ्चमप्रस्तारसमाप्तावसिमध्य एवेष्टकारन्ध्रोपर्युपधेया । ताश्चोपधानकाले इष्टकाभिर्यथा न पिधीयन्ते तथोपदध्यादिति भावः । इष्टकानामुपधानकाले स्वयमातृण्णानपिधायकत्वं प्रथमस्वयमातृण्णोपर्युपधेयासिमध्ये इष्टकाया आर्ध्याद्वयरूपेणान्यथा वा

Page 99Permalink

ऽध्यायः ] बौधायनीयं ६६ रन्ध्रान्तः स्वयमातृष्णाकत्वेनोपधाने द्वितीयप्रस्तारादावेवं मध्यरन्ध्रान्तं पिधानोपायेनोपधाने सिध्यतीति द्रष्टव्यम्। ननु तृतीयस्याः स्वयमा- तृष्णायाः सर्वप्रस्तारसमाप्तावुपधेयत्वेनेष्टकाभिरपिधानप्रसक्त्यभावात् कथं तन्निषेध इत्यत आह—स्वयं चिताविति। इष्टकायां स्वयं चित्ताववस्थायां ताभिः स्वयमातृणान् नापिदध्यादित्यर्थः। एवञ्च स्वयंचितावित्युक्त्या प्रथमद्वितीयस्वयमातृष्णापिधायकत्वमेव प्रसक्तमिष्टकानां निषिध्यत इति नानुपपत्तिरिति त(ा)न्मुखेन प्रथमद्वितीयस्वयमातृणानपिधायकत्वमेवेष्टका- धर्मे विधीयत इति भावः ॥ २५ ॥ न स्वयमिति । तृतीयस्याः स्वयमातृष्णायाः प्रस्तारसमाप्तावुपधेयत्वात् पूर्व- योरयं धर्मः स्वयंचितौ स्वयमातृणावत्यां चिताविष्टकया नापिदध्यात् । यथा सन्धौ भवति तथेष्टकयोर्मध्ये इत्यर्थः ॥ २५ ॥ ऊर्ध्वप्रमाणमिष्टकानां जानोः पञ्चमेन कारयेत् ॥ २६ ॥ असिगार्हपत्यधिष्ण्येष्टकानां साधारण्येन ऊर्ध्वप्रमाणमाह—ऊर्ध्वेति । इष्टकानाम् ऊर्ध्वप्रमाणं जानोः पञ्चमेन कारयेत् ॥ २६ ॥ ऊर्ध्वमिति । इष्टकानां गार्हपत्यधिष्ण्येष्टकाभिः सर्वासामपृथग्विधानाद् इष्टकाग्रहणाच्च ॥ २६ ॥ अर्धेन नाकसदाम् पञ्चचोडानाञ्च ॥ २७ ॥ अर्धेनेति । पूर्वोक्तोर्ध्वपरिमाणार्धेन नाकसदाम् पञ्च चोडानां करण- मित्यर्थः ॥ २७ ॥ अर्धेनेति । पञ्चमार्धेन ॥ २७ ॥ यच्छोषपाकाभ्यां प्रतिह्रसेत पुरीषेण तत्संपूरयेत् पुरीषस्या- नियतपरिमाणत्वात् ॥ २८ ॥ यच्छोषपाकाभ्यामिति । यदि इष्टकारूपद्रव्यं शोषपाकाभ्यां प्रति- ह्रसेत् न्यूनं भवेत्तदिष्टकारूपं पुरीषेण यावदाम्नातप्रमाणं पूरयेदित्यर्थः । पुरीषस्यानियतपरिमाणत्वात् ॥ २८ ॥ यच्छोषेति । यच्छोषपाकाभ्याम् उपलक्षणत्वात् कालेन वा प्रतिह्रसेत उक्त- प्रमाणाद्धीयते पुरीषेण तत्सम्पूरयेत् । पुरीषस्यानियतपरिमाणत्वात् । परिमाण-

Page 100Permalink

७० शुल्बसूत्रम् [ द्वितीयो- नियतवचनाभावात् । न केवलं विवरेष्वेव निम्नोन्नतपरिहारार्थं जान्वादिप्रमाणा- विरोधेन पुरीषोपधानम् । तस्मान्मांसेन इत्यर्थवादेन शोषपाकाभ्यां ह्रासवचनेन । उक्तानि प्रमाणानि करणीनामेव नेष्टकानामित्युक्तं भवति ॥ २८ ॥ [ इति इष्टकाधर्मकथनम् ! ] व्यायाममात्री भवतीति गार्हपत्यचितेर्विज्ञायते ॥ २९ ॥ इष्टकाधर्मानुक्त्वा गार्हपत्यासिपरिमाणप्रतिपादिकां श्रुतिमाह— व्यायाममात्रीति । गार्हपत्यचयनस्य व्यायाममात्री वेदिर्भवतीत्यर्थः । एवं चतुररत्निर्यायाम इत्युक्तत्वात् चतुररत्निप्रमाणेन सर्वतो गार्हपत्याग्ने- रायतनं कुर्यादित्यर्थः ॥ २९ ॥ व्यायामेति । चतुररत्निर्यायामः कल्प एतेनैव ज्यायसः प्रक्रमानित्यस्योपलक्षण- त्वात् । व्यायाममात्राद् गार्हपत्यपरिमाणात् प्राग्वंशिकमाहवनीयपरिमाणं पद्‌चतुष्टयं परित्यज्य शिष्टानि षट्त्रिंशदङ्गुलानि प्राग्वंशस्य पूर्वापरप्रक्रमप्रमाणेन षोडशधा विभज्य सपादमङ्गुलद्वयं प्रक्रमे प्रक्षिप्य प्राग्वंशमानकाले तेन प्रक्रमस्थानीयेन षोडश- प्रक्रमायाममित्यादिना मित्वा पश्चाद्भागे षष्ट्यङ्गुलं सञ्चरमवशिष्य ततः पुरस्तात् षष्ट्यङ्गुलविष्कम्भपरिमण्डलं गार्हपत्यायतनं कृत्वा तस्य पुरस्तात् चतुश्चत्वारिंश- च्छताङ्गुलेन प्रमाणेन शङ्कुं निहत्य ततः षण्णवत्यङ्गुलायामां वेदिं कृत्वा ततः पुरस्तात् चतुररत्न्यायामञ्च समचतुरस्रमाहवनीयं कृत्वा दीक्षादिवसेषु मध्येऽग्निं निधाय चयनकाले अथैनमग्निम् इत्यादि एवं कृते प्रकृतिसिद्धयोः पूर्वापरयोः सञ्चरयोर्वे- द्याश्च सङ्कोचो न भवति । आहवनीयोऽप्यायतनमध्ये निहितो भवति ॥ २६ ॥ चतुरश्रेत्येकेषाम् । परिमण्डलेत्येकेषाम् ॥ ३० ॥ गार्हपत्यस्यायतनभेदावाह—चतुरश्रेति । परिमण्डलेति च । इदमा- यतनं केषाञ्चिदाचार्याणां पक्षे चतुरश्रम्, केषाञ्चित्तु परिमण्डलम् ॥ ३० ॥ गार्हपत्यचितेः सर्वाङ्गीनामङ्गत्वात् परिभाषाध्याय उच्यते चतुरस्रेति । श्रुतिरिति शेषः । परिमण्डल इति । पूर्ववत् । परिमण्डलपक्षे व्यायामार्धेन परिमण्डल- करणम् । तत्र चतुररत्न्यायामः ॥ ३० ॥ चतुरश्रं सप्तधा विभज्य तिरश्चीं त्रेधा विभजेत् । अपर- स्मिन् प्रस्तारे उदीचीरुपदधाति । समचतुरश्राश्चेदुप- दध्यात् ॥ ३१ ॥

Page 101Permalink

ऽध्यायः ] बौधायनीयं ७१ चतुरश्रपक्षे इष्टकाकरणप्रकारमाह--चतुरश्रमिति । चतुरश्रं दक्षिण- मारभ्य उदगपवर्गं सप्तधा विभज्य प्रत्यगारभ्य प्रागपवर्गं त्रेधा विभजेत् । एवञ्च प्रागायताः सप्तरीतय उदगायतास्तिस्रो रीतयः संपन्नाः । अपर- स्मिन्निति । उदीच्यः सप्तरीतयः प्राच्यस्तिस्रः समचतुरश्रा यथा भवन्ति तथोपद्ध्यादित्यर्थः ॥ ३१ ॥ चतुरस्रमिति । पूर्वापरेण सप्तधा विभागः । विभागद्वारेण करणान्युक्तानि भवन्ति । तत्र द्वात्रिंशदङ्गुल आयामः । दशतिलोनाचतुर्दशाङ्गुलन्यासम् एकमेव करणम् । अपरस्मिन्निति । उदीचीरुदगायताः । अस्मादेव व्यत्यासवचनाद् अत्रापि भेदवर्जनं पशुधर्मत्वञ्च आश्रयणीयमिति सूचितं भवति । समचतुरस्त्रेति । इष्टका इति शेषः ॥ ३१ ॥ व्यायामषष्ठेनेष्टकाः कारयेत् चतुर्थेन तृतीयेनेति ॥ ३२ ॥ अस्मिन्नेव चतुरश्रपक्षे उपधाने प्रकारान्तरमाह--व्यायामषष्ठेनेति । षोडशाङ्गुलप्रमाणे समचतुरश्रेष्टकाः कारयेत्, चतुर्थेन अरत्निप्रमाणे समचतुरश्रा इष्टकाः कारयेत्, तृतीयेन द्वात्रिंशदङ्गुलप्रमाणे समचतुर- श्रेष्टकाः कारयेत् ॥ ३२ ॥ व्यायामेनेति । अत्र षोडशाङ्गुलेन, अरत्निना, द्वात्रिंशदङ्गुलेन । इति- रेवमर्थे ॥ ३२ ॥ तासां नव प्रथमा, द्वादश द्वितीया, इति पूर्वस्मिन् प्रस्तार उपदधाति ॥ ३३ ॥ इष्टकाकरणमुक्त्वोपधानप्रकारमाह--तासामिति । तासां पूर्वोक्तेष्ट- कानां मध्ये नव प्रथमाः षोडशाङ्गुलप्रमाणा मध्ये संश्लिष्टा उपधाय द्वादश द्वितीया अरत्निप्रमाणाः सर्वत उपदध्यात् ॥ ३३ ॥ तासामिति । प्रथमाः प्रथमोक्ताः षोडशाङ्गुलाः । द्वितीया द्वितीयोक्ता अरत्नयः । इति शब्दः समुच्चयार्थः । अरत्नित्रयसमचतुरस्रे प्रथमा उपदध्यात् । परितो द्वाद- शारत्नयः । एवं पशुधर्मत्वं भवति ॥ ३३ ॥ पञ्च तृतीयाः षोडश प्रथमा इत्यपरस्मिन् ॥ ३४ ॥ पञ्चेति । अपरस्मिन् प्रस्तारे पञ्च तृतीया द्वात्रिंशदङ्गुलप्रमाणाश्च-

Page 102Permalink

७२ शुल्बसूत्रम् [ द्वितीयो- तसृषु दिक्षु चतस्र एका मध्ये, षोडश प्रथमाः षोडशाङ्गुलप्रमाणाश्चतुर्षु- कोणेषु चतस्रश्चतस्र इष्टका उपदध्यात् ॥ ३४ ॥ पञ्चेति । महादिक्षु चतस्रः मध्ये एका एवं पञ्च तृतीयाः । चतसृषु स्रक्तिषु चतस्रश्चतस्रश्चतुरस्रकृताः षोडश प्रथमाः । एवं भेदवर्जनं पशुधर्मत्वञ्च सिध्यति ॥ ३४ ॥ [ इति चतुरश्रागार्हपत्यचित्युपधानम् । ] परिमण्डलायां यावत्सम्भवेत्तावत् समचतुरश्रं कृत्वा तन्न- वधा विभजेत् । प्रधींस्त्रिधा त्रिधेति । स्रक्तोरवान्तरदिक्षु संपा- दयेत् ॥ ३५ ॥ चतुरस्रोपधानमुक्त्वा परिमण्डलकरणमाह—परिमण्डलायामिति । चतुरश्रं परिमण्डल(१।४७)मित्यादिना परिमण्डलं कृत्वा कृतायां परिमण्ड- लायां चितौ यावत् सम्भवति चतुरश्रं तावत् कृत्वा तन्मध्यवर्ति चतुरश्रं नवधा विभजेत् । प्रथमे प्रस्तारे चतुरः स्रक्तीरवान्तरदिक्षु सम्पादयेत् । प्रधीनिति । अवशिष्टांश्चतुरः प्रधींस्त्रिधा त्रिधा विभजेत् । एवं चतसृषु प्रधिषु द्वादश मध्ये नव आहत्यैकविंशतीष्टका भवन्ति ॥ ३५ ॥ परिमण्डलायामिति । अर्द्धव्यायामेन मण्डलं परिलिखेदित्युक्तम् । तत्र यावत् प्रमाणं समचतुरस्रं (कृत्वा तन्नवधा विभजेत् ) क्षेत्रमन्यूनानतिरिक्तं मण्डलमध्ये सम्भवति तावत् प्रमाणं समचतुरस्रं कृत्वा अवान्तरदिक्षु यथा स्रक्तयस्तथा विष्क- म्भार्द्धिकरणया अष्टषष्ट्यङ्गुलेन चतुस्तिलोनेन समचतुरस्रं कृत्वा तच्चतुरस्रं नवधा विभजेत् । प्रधीनिति । प्रधिरिव प्रधिः । प्रधिश्चक्रपर्यन्तः । तांस्त्रेधा विभजेत् । इतिरेवमित्यर्थे । एवं एकाविंशतिः ( ? ) संपद्यन्त इत्यर्थः । जानोः पञ्चमप्रमाणो- त्सेधं व्यायामविष्कम्भपरिमण्डलक्षेत्रं क्वचिद् आपाद्य उक्तेन मार्गेण विभजेदि- त्याचार्यस्य पक्षः । गणितविदः करणैरिष्टकाः कुर्वन्ति । त्रीणि करणानि । समचतुरस्रं, प्रधिमध्यं, प्रध्यन्तमिति । समचतुरस्रं द्वाविंशत्यङ्गुलं सैकविंशतितिलम्, प्रधिमध्यमपार्श्व- मान्योः प्रमाणमेतदेव । तिर्यङ्मान्यौ दशतिलोनत्रयोदशाङ्गुले । एकं पार्श्वफलकं धनुरिव तक्षेत् यथा अङ्गुलिर्द्वादशतिलाः शरप्रमाणं भवति । प्रध्यन्तन्तु त्रिक- रणम् । तस्यापि चतुरस्रवदेकं पार्श्वम् । अपरं पार्श्वं त्रयोदशाङ्गुलं दशतिलोनम् ।

Page 103Permalink

ऽध्यायः १ ] बौधायनीयं ७३ षड्विंशकं तिलद्वयोनमपरं धनुरिव तक्षेत् । यथा अङ्गुलिः सप्तविंशतितिलाश्च शरो भवति । स्रक्तीति । प्रथमे प्रस्तारे चतुरस्रस्रक्तीरवान्तरदिक्षु सम्पा- दयेत् ॥ ३५ ॥ अपरं प्रस्तारं तथोपद्ध्याद् यथा प्रष्ठ्यनीकेषु स्रक्तयो भवन्ति ॥ ३६ ॥ अपरमिति । अपरस्मिन् प्रस्तारे प्रध्यनीकेषु प्रधिमध्येषु यथा चतुर- स्रस्य स्रक्तयो भवन्ति तथा चतुरश्रं कृत्वा तं नवधा विभजेत् । तथा च पूर्वस्रक्तिभाग इह प्रध्यः संपन्नाः, तांस्त्रिधा विभजेत् ॥ ३६ ॥ अपरमिति । प्रध्यनीकेषु प्रधिमध्येषु चतुरस्रस्रक्तयो भवन्ति । महादिक्षु इत्यर्थः ॥ ३६ ॥ [ इति परिमण्डलगार्हपत्यचित्युपधानम् । ] धिष्ण्या एकचितीकाश्चतुरश्राः परिमण्डला वा ॥ ३७ ॥ मण्डलपक्षे गार्हपत्योपधानप्रकारमुक्त्वा धिष्ण्योपधानप्रकारमाह— धिष्ण्या इति । एकचितीका एकप्रस्तारयुक्ताः । अत्र धिष्ण्यक्षेत्रपरिमा- णकथनादग्निष्टोमोक्तधिष्ण्यपरिमाणक्षेत्रमेव चतुरश्रं परिमण्डलं कर्त्तव्य- मिति गम्यते ॥ ३७ ॥ धिष्ण्येति । एकचितीका एकप्रस्ताराः । एकचितीकत्वं प्राप्तस्य पुनर्वचनप्रयोजनं पशुधर्मपरिग्रहार्थम् । ततश्च न खण्डा (२।२४) मित्यादिप्रतिषेधोऽप्याश्रयणीयः । चतु- रस्राः परिमण्डला वा । धिष्ण्यानां द्विप्रादेशो विष्कम्भ (१।७६) इति वचनात् । माना- धारस्य क्षेत्रस्य अरत्निविष्कम्भपरिमण्डलत्वात् मण्डलं चतुरस्र (१।४८) मित्यादिना चतुरस्रकरणम् । तत्र चतुरस्रकरणी एकविंशतिरङ्गुलयो नव तिलाश्च ॥ ३७ ॥ तेषामाग्नीध्रीयं नवधा विभज्यैकस्याः स्थानेऽश्मानमुप- दध्यात् ॥ ३८ ॥ तेषामिति । तेषां धिष्ण्यानां मध्ये आग्नीध्रीयं नवधा विभज्य मध्ये अश्मानमुपदध्यात् ॥ ३८ ॥ तेषामिति । तेषां धिष्ण्यानां मध्ये आग्नीध्रीयं नवधा विभज्य "मध्ये दिवो- निहितः पृश्निरश्मेति" लिङ्गान्मध्यमामुद्धृत्य तत्प्रमाणमश्मानमुपधाय पुरस्तादा- रभ्येतराभिरुपधानम् । १०

Page 104Permalink

७४ शुल्बसूत्रम् [ द्वितीयोऽध्यायः एतासामेकं करणम् । विभागविधानेन करणान्युपदिष्टानीति वेदितव्यं सर्वत्र । परिमण्डलपक्षेऽष्टाङ्गुलविष्कम्भं परिमण्डलमश्मानं मध्ये निधाय परितः सममष्टधा विभजेत् । एवं भूमौ लिखित्वा इष्टकाः कारयेत् । तत्र बाह्यफलकं बहिर्वक्रम् । अभ्यन्तरफलकमन्तर्वक्रम् ॥ ३८ ॥ अथ होतुर्धिष्ण्यं नवधा विभज्य पूर्वास्त्रिभागानैकैकं द्वेधा विभजेत् ॥ ३९ ॥ अथेति । होतुर्धिष्ण्यमपि नवधा विभज्य पूर्वान् त्रिभागानैकैकं द्वेधा विभजेत् । आद्यहोतुर्धिष्ण्यमध्ये द्वादशेष्टका भवन्ति ॥ ३६ ॥ अथेति । अथ शब्द उपधानक्रममनुवदति, नेष्टकाकरणक्रमम् । पूर्वान् पूर्व- रीतिस्थान् । द्वेधा—अष्टाङ्गुलदीर्घान् चतुरङ्गुलव्यासान् । तासामेकं करणम् । इतरासाम् आग्नीध्रीयवत् । एवं द्वादशहोत्रीय उपदधातीत्युक्तं भवति । मण्डलपक्षे द्वादशधा समशः प्रतिविभागः । तत्र बाह्यफलकं धनुर्वक्रम् । अभ्यन्तरं प्रदेशशून्य- मेव । मण्डलपक्षे सर्वत्र भूमौ लिखित्वा इष्टकाः कारयेत् ॥ ३९ ॥ अथेतरान्नवधा नवधा विभज्य मध्यमपूर्वौ द्वौ भागौ समस्येत् ॥ ४० ॥ अथेतरानिति । अथेतरान् मैत्रावरुणादिधिष्ण्यानेकैकं नवधा विभज्य मध्यपूर्वभागमेकीकुर्यात्, आहत्य प्रति धिष्ण्यम् अष्टाविष्टका भवन्ति ॥४०॥ अथेतरेति । इतरान् प्रशास्तृप्रभृतीन् पञ्चधिष्ण्यान् नवधा नवधा विभज्य द्वितीय-तृतीययोर्मध्यमौ भागौ समस्येत् एकीकुर्यादित्यर्थः । तासामेकैकं करणं अष्टाङ्गुलन्यासं षोडशाङ्गुलदीर्घम् । उत्तरासाम् आग्नीध्रीयवत् । एवं धिष्ण्या अष्टेष्टका भवन्ति । मण्डलपक्षे तु समप्रविभागः ॥ ४० ॥ अथ मार्जालीयं त्रेधा विभज्य पूर्वापरौ भागौ पञ्चधा विभजेत् ॥ ४१ ॥ अथ मार्जालीयमिति । मार्जालीयन्तु त्रेधा विभज्य पूर्वं भागं द्वेधा विभज्यापरं भागं विभजेत्, आहत्य षडिष्टका भवन्ति ॥ ४१ ॥ अथेति । दक्षिणोत्तरेण त्रेधा विभज्य पूर्वं द्वेधा अष्टाङ्गुलन्यासं द्वादशाङ्गुल- दीर्घं विभजेत् । तयोरेकं करणम् । अपरं त्रेधा विभजेत् । तासाम् आग्नीध्रीयवदेकं करणम् । मध्यमस्य धिष्ण्यायाम् अष्टाङ्गुलन्यासमेकं करणम् । मण्डले तु समशः षोढा विभागः । एवं धिष्ण्यानां चतुरस्रपक्षे पञ्च करणानि । अष्टाङ्गुलसमचतुरस्रमेकम् । तेन द्विपञ्चाशदिष्टकाः । अष्टाङ्गुलदीर्घं चतुरङ्गुल-

Page 105Permalink

ऽध्यायः ] बौधायनीयं ७५ व्यासं द्वितीयम् । तेन षडिष्टकाः । षोडशाङ्गुलदीर्घमष्टाङ्गुलन्यासं तृतीयमेकम् । तेन पञ्च । अष्टाङ्गुलन्यासं द्वादशाङ्गुलदीर्घं चतुर्थम् । तेन द्वे । धिष्ण्यदीर्घं अष्टाङ्गुलन्यासमेकं पञ्चमम् । तेनैका । एवं समस्ताः षट्षष्टिरिष्टकाः । मण्डलपक्षे आग्नीध्रीयहोत्रीयाष्टेष्टकमार्जालीयानां चत्वारि करणानीष्ट- काश्च द्रष्टव्याः ॥ ४१ ॥ [ इति धिष्ण्यानामुपधानप्रकारः । ] उख्यभस्मना संसृज्येष्टकाः कारयेदिति । संवत्सरभृत एवैत- दुपपद्यते न रात्रिभृतः । एवमस्य मन्त्रवती चितिकॢप्तिः ॥ ४२ ॥ इष्टकानिर्माणे विशेषमाह—उख्येति । उख्यभस्मना मृदं संयोज्य तयैवेष्टकाः कुर्यात् । संवत्सरेति । संवत्सरोख्यभरणपक्ष इदं संभवति । संव- त्सरग्रहणं मासादीनामुपलक्षणम् । तदपि उख्यया भस्मसंसृष्ट्या मृदेष्टकाकरण- संभवात् । न रात्रिभृत इति रात्रिपदे चोदना अतिरात्रप्रभृत्याविंशद्रात्रं चोदितकल्पेष्वयं नियमो वोपपद्यते । तेषु उख्यभस्मसंसृष्टमृदा तत्करणा- संभवात् संवत्सरभरणपक्ष एव ज्यायानिति स्तौति--एवमिति । एवं उख्यसंसृष्टमृदेष्टकाकरणे अस्य यजमानस्य चितिकॢप्तिरिष्टकाकरणं मन्त्रयुक्तं भवति ॥ ४२ ॥ उख्येति । उख्यभस्मना संसृज्येष्टकाः कारयेदिति शाखान्तरीयवचनमस्ति । संवत्सरमुख्यं बिभर्त्तीति संवत्सरभृद् यजमानः । एतदुख्यभस्मना संसृज्येष्टका- करणम् । संवत्सरेति । रात्रिशब्देन तिस्रो रात्रीर्दीक्षितः स्याद् इत्यादि रात्रिशब्देन विहितदीक्षाकल्पाः लक्ष्यन्ते । त्रिंशद्रात्रिपर्यन्तेषु दीक्षाकल्पेषु प्रवृत्तस्य नोपपद्यते । संवत्सरशब्दोऽपि मासादिकल्पस्योपलक्षणम् । तावन्मात्रेणापि कालेन इष्टका- करणस्य शक्यत्वात् । तत्परत्वाद् वाक्यस्य । एवमिति । अस्य यजमानस्य मन्त्रेण कृतायामुखायां मन्त्रेण संस्कृतस्योख्यस्य भस्मना संसृष्टत्वाद् इष्टकाकॢ- प्तिर्मन्त्रवतीति ॥ ४२ ॥ [ इति इष्टकानिर्माणे विशेषः । ] छन्दश्चितं त्रिषाहस्रस्य परस्तात् चिन्वीत । कामविवेकात् । तस्य रूपं श्येनाकृतिर्भवतीति प्रकृतित्वात् ॥ ४३ ॥ छन्द इति । त्रिसाहस्रस्य परस्ताच्छन्दश्चितं चिन्वीत । श्येनस्य Nepal Sanskrit University, Balmeeki Campus, Kathmandu

Page 106Permalink

७६ शुल्बसूत्रम् [ द्वितीयो-

प्रकृतित्वेन श्येनचित् त्रिषाहस्रं कृत्वा, छन्दःशब्दस्योपलक्षणपरत्वेन छन्द- श्चित्कङ्कादीनां विकृतित्वेन पश्चादनुष्ठानं केचिदाहुस्तदनुपपन्नम्। श्येनस्य त्रिषाहस्रपर्यन्तमनवच्छिन्नतयानुष्ठानं कृत्वा पश्चात् कङ्कादीनामनुष्ठान- मित्यत्र प्रमाणाभावात्। ननु त्रिषाहस्रस्य परस्ताच्छन्दश्चितं चिन्वीतेति सामान्यनिर्देशेऽपि श्येनचित्यादावनुष्ठानोपक्रमात्। अस्मिन्नेव त्रिषाह- स्रपर्यन्तमनुष्ठानं कृत्वा तदनन्तरमितरेषामनुष्ठानमिति चेत्, एवं तर्हि कङ्कादिष्वपि त्रिषाहस्रपर्यन्तमनुष्ठीय अन्तराग्न्यन्तरानुष्ठानं न स्यात्। ननु श्येनचिदिव त्रिषाहस्रपर्यन्तमनुष्ठानम् अग्न्यन्तराणामपि अस्तु इति चेन्न; त्रिषाहस्रानुष्ठानानन्तरं जानुदघ्नस्य वा ग्रीवादघ्नस्य वा अनुष्ठान- मिति द्वैधे नियमितत्वात् प्रत्येकं त्रिषाहस्रानुष्ठानाप्रसक्तेः। अतो यस्य कस्याप्यग्नेः त्रिषाहस्रानन्तरं छन्दश्चयनं कर्तव्यम्। युक्तञ्चैतत्। तथाहि “साहस्रं चिन्वीत प्रथमं चिन्वानः, द्विषाहस्रं चिन्वीत द्वितीयं चिन्वानः, त्रिषाहस्रं चिन्वीत तृतीयं चिन्वान” इति जानुदघ्नादिक्रमेणाम्नातानां सहस्रादीनां प्रथमादिभावेन त्रिषाहस्रानन्तर्यस्यैव युक्तत्वात्। ननु त्रिषा- हस्रानन्तरमपि छन्दश्चितेरनुष्ठानं न प्राप्नोति। जानुदघ्ना वा ग्रीवा- दघ्ना वा कार्या इति परिमाणस्यानन्तरानुष्ठेयेष्वपि समाम्नानादिति चेत्। अनिन्दक( ? ) श्छन्दश्चिदाम्नानमहिम्ना च जानुदघ्ना वेत्या- दिनियमस्य तदितर(१)परिमाणकङ्कादिविषयत्वात्। यदि श्येनचित्येव त्रिषाहस्रपर्यन्तमनुष्ठानमङ्गीक्रियते तदा श्मशानचयनस्य नाभिदघ्नं द्विषा- हस्रं चाङ्गीकृत्य धर्मोपदेशो विरुद्धः स्यात्। (यदि ?) नाभिदघ्नं पुरस्ता- ज्जानुदघ्नं पश्चादित्यादि कल्पसूत्रमप्यनुपपन्नं स्यात्। तस्मात् श्येनानन्तरं श्येनकङ्कसमूह्यात् इत्थं नियमेन त्रिषाहस्रं कृत्वा त्रिषाहस्रस्य परस्ता- च्छन्दश्चितं चिन्वीतेति वचनबलात् त्रिषाहस्रानन्तरमेव छन्दश्चितोऽनुष्ठा- नमिति सिद्धम्। छन्दश्चित्कामाकृतिं आश्रयतीति पृच्छति--कामिति। उत्तरमाह--अविवेकादिति। श्रुतावाकृतिविशेषस्य अनिर्धारणात् प्रकृतिमेवाश्रयतीत्यर्थः॥४३॥

Page 107Permalink

ऽध्यायः ] बौधायनीयं ७७ इति श्रीमदद्वैतविद्याचार्य-साग्निचित्य श्रीव्यङ्कटेश्वरदीक्षितस्य कृतिषु बौधायनशुल्वमीमांसायाम् द्वितीयोऽध्यायः। छन्दश्चितमिति। छन्दांस्येव चीयन्त इति छन्दश्चित्। न तु छन्दोभिश्चीयत इति। कल्पे छन्दश्चिद् यत्र क चाहुतिरागच्छति जुहोत्येव तत्राथ यदन्यदाहुतिभ्यः शरीरवद् यजुरेवेति तत्र देशे जपेदिति (बौ० श्रौ० सू० १०।२८) वचनात्। तत्र शरीर- वदिष्टकाद्रव्यवदित्यर्थः। कर्मान्ते च अग्निं विहरेदग्निरूपाणीति दर्शयेदित्युक्तम्। तत्र मिनुयादग्निं पक्षपुच्छादिविभागेन रूपाणि दर्शयेद्। इष्टकारूपाणि अर्धेष्टका- पादेष्टकारूपाणि। तत्तद्देशे यथास्थानं लिखित्वा शुष्केष्टकासूपधानमन्त्रं जपेदि- त्यर्थः। तस्माच्छन्दांस्येव चीयन्त इति छन्दश्चित्। त्रिषाहस्रस्य परस्ताच्चिन्वीत। ब्राह्मणक्रमात्तु पूर्वानुष्ठानम्। तस्माच्छयेनचितः प्रकृतित्वात् त्रिषाहस्रस्यान्ते प्रकृत्य- नुष्ठानपरिसमाप्तिरित्यभिप्रेत्योक्तं त्रिषाहस्रस्य परस्ताच्चिन्वीतेति। प्रकृतिं कृत्वैव विकृतेरधिकार इत्येकविधप्रसङ्गादुक्तम्। अनेन प्रक्रम्य त्रिषाहस्रपर्यन्तं चित्त्वैव विकृतेश्चयनमिति गम्यते। उक्तमर्थं साधयितुं हेतुमाह—कामेति। फलभेदात् काम्य- त्वात् परस्तादेवेत्यर्थः। तस्येति। तत्र मंत्ररूपमात्रत्वेऽपि इष्टकारूपाणि दर्शये- दित्युक्तत्वात्। आकृत्यपेक्षायां प्रकृतित्वाच्छयेनाकृतिर्भवतीति। अन्ये त्वाहुः। छन्दश्चितं त्रिषाहस्रस्य परस्ताच्चिन्वीत कामम्। छन्दश्चित् कामाकृतिमाश्रयति इति शेषः। अविवेकात् आकृतेरनुक्तत्वात्। विविच्येयमिति वचनाभावादित्यर्थः। तस्य रूपं श्येनाकृतिर्भवतीति। प्रकृतित्वात्। इति करणः परिभापासमाप्त्यर्थः॥ ४३॥ टीका भट्टात्मजेनेयं द्वारकानाथयज्वना। द्वितीयो व्याकृतोऽध्यायस्त्वग्नीनां धर्मवाचकः॥ इति बौधायनीये शुल्बसूत्रव्याख्यायां शुल्बदीपिकायां द्वितीयोऽध्यायः।