BharatKosha
चरक संहिता (द्वितीय भाग: चिकित्सा, कल्प व सिद्धि स्थान)

चरक संहिता (द्वितीय भाग: चिकित्सा, कल्प व सिद्धि स्थान)

Charaka Samhita Part 2 with Hindi Translation

by महर्षि चरक व दृढ़बल

Source: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (origin)

DevanagariSanskritpublished616 pages

Page 400 of 616

Read in context
Page 400

अ० ८ ] चिकित्सितस्थानम् ४१५ की स्मृति और बुद्धि को बढाने के लिये कुष्ठ-नाशन अध्याय मे संग्रह किया है ॥ १७७-१७६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने कुष्ठचिकित्सितं नाम सप्तमोऽध्यायः समाप्तः ॥ ७ ॥ अष्टमोऽध्यायः अथातो राजयक्ष्मचिकित्सितं व्याख्यास्यामः ॥ १ ॥ इति ह स्माऽऽह भगवानात्रेयः ॥ २ ॥ अब हम 'राजयक्ष्मा की चिकित्सा' का वर्णन करते हैं। भगवान् आत्रेय ने ऐसा उपदेश किया है ॥ १-२ ॥ दिवौकसां कथयतामृषिभिर्वै श्रुता कथा । कामव्यसनसंयुक्ता पौराणी शशिनं प्रति ॥ ३ ॥ रोहिण्यामतिसक्तस्य शरीरं नानुरक्षतः । आजगामाल्पतामिन्दोर्देहः स्नेहपरिक्षयात् ॥ ४ ॥ दुहितॄणामसंभोगाच्छ्लेष्मांशं च प्रजापतेः । क्रोधो निःश्वासरूपेण मूर्तिमान् निःसृतो मुखात् ॥ ५ ॥ पजापतेर्हि दुहितॄरष्टाविंशतिमंशुमान् । भार्यार्थं प्रतिजग्राह न च सर्वास्र्ववर्तत ॥ ६ ॥ गुरुणा तमवध्यातं भार्यास्वसमवर्तिनम् । रजःपरीतसबलं¹ यक्ष्मा शशिनमाविशत् ॥ ७ ॥ सोऽभिभूतोऽतिबलिना² गुरुक्रोधेन निष्प्रभः । देवदेवर्षिसहितो जगाम शरणं गुरुम् ॥ ८ ॥ अथ चन्द्रमसः शुद्धां मतिं बुद्ध्वा प्रजापतिः । प्रसादं कृतवान्सोमस्ततोऽश्विभ्यां चिकित्सितः ॥ ६ ॥ स विमुक्तो ग्रहश्चन्द्रो विरराज विशेषतः । ओजसा वर्धितोऽश्विभ्यां शुद्धं सत्त्वमवाप च ॥ १० ॥ क्रोधो यक्ष्मा ज्वरो रोग एकोऽर्थो दुःखसंज्ञितः । यस्मात्स राज्ञः प्रागासीद्राजयक्ष्मा ततो मतः ॥ ११ ॥ १ 'रजोऽन्धमबल दोन' इति च । २ 'गुरुणा' इति च