BharatKosha
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 163 of 474

Read in context
Page 163

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १६५ ( ३४ ) अविचारानुमतेन तेन सद्य एवैनां तद्गृहमुपनीय तयैवाप- सर्पभूतया तत्र मृद्भाण्डावशेषमचोरयाव । ततो निष्पत्य क्वचिन्मुषितकं निधाय समुच्चलन्तौ नागरिकसंपाते मार्गपार्श्वशायिनं कंचिन्मत्तवारण- मुपरिपुरुषमाकृष्याध्यारोहाव । ग्रैवेयप्रोतपादयुगलेन च मयोत्थाप्यमान एव पतिताधोरणपृथुलोरःस्थलपरिणतः पुरीतलतातपरीतदन्तकाण्डः स रक्षिकवलमक्षिणोत् । अध्वंसयाव चामुनेवार्थपतिभवनम् । अपवाह्य च (३४) अविचारानुमतेन-निर्विचारस्वीकृतेन । तेन धनमित्रेण-तद्वारेणे- त्यर्थः । एनां कन्याम् । तद्गृहं-तस्याः कन्याया गृहम् । उपनीय-नीत्वा । अपस- र्पभूतया-चररूपया । अपसर्पश्चरः स्पशं इत्यमरः । तत्र कुबेरदत्तगृहे । मृद्भा- ण्डेति-मृद्भाण्डानामवशेषो यस्मिंस्तद् यथा तथा । एवं चोरितं येन मृत्पात्रा- ण्येव अविशिष्टानीति भावः । अचोरयाव आवामपहृतवन्तौ । ततस्तस्माद्भग- रात् । निष्पत्य-निर्गत्य । मुषितकं-अपहृतद्रव्यम् । निधाय-संस्थाप्य । समु- च्चलन्तौ-स्वगृहं गन्तुमुद्यतौ । नागरिकसंपाते-नगररक्षणां संमर्दे सति । मार्गपा- र्श्वशायिनं पथिप्रान्तशायितम् । मत्तवारणं मत्तहस्तिनम् । अध्यारोहावेत्यस्याः क्रियायाः कर्म । उपरिपुरुषम्-उपरि हस्तिपृष्ठे स्थितं पुरुषं-आधोरणमित्यर्थः । आकृष्येति क्रियायाः कर्म आकृष्य-निपात्य ग्रैवेयेति-ग्रैवेये कण्ठरज्ज्वां प्रोतं प्रवे- शितं पादयुगलं येन तेन । उत्थाप्यमानः ऊर्ध्वमुत्क्षिप्यमानः । गज इत्यस्य विशेष- णम् । पतितेति-पतितस्य गजपृष्ठादाकृष्टस्याधोरणस्य हस्तिपकस्य पृथुले विस्तृते उरःस्थले वक्षसि परिणतस्तिर्यग्दन्तप्रहारी । तिर्यग्दन्तप्रहारस्तु गजः परिणतो मत इति हलायुधः । पुरीतिदिति पुरीतलतया अन्तर्बल्या परीतं वेष्टितं दन्तकाण्डं यस्य सः । स-गजः । रक्षिकवलं-नगररक्षिसैन्यम् । अक्षिणोत् क्षयमजयत् । (३४) बिना सोचे विचारे उसने मेरी बात मान ली तत्काल सुन्दरीको उसके घर पहुँचा दिया तथा उसी नारीको अगुआ बनाकर उस घरके मृद्भाण्डमें जो अवशिष्ट धन था, सो भी, हम दोनोंने चुरा लिया। वहां से चलकर चोरी करनेके सब उपकरण एक स्थानपर रख दिये और आगे बढ़े। मार्गमें एक जगह मनुष्योंकी बड़ी भीड़ एकत्रित थी । पास ही राहके किनारे एक मतवाला हाथी पड़ा सो रहा था । उसपर सवार फीलवानको पकड़कर हम दोनों उस हाथी पर चढ़ गये। मैंने तत्काल उसके गलेमें डाली हुई रस्सीमें दोनों पांव डालकर जैसे ही उठाया, उसी समय उसने हाथीवान को जमीनमें गिरा दियऔर उसकी छातीमें अपना दांत गड़ाकर अतड़ियां निकाल लीं और उन्हें दांतमें लपेटकर