दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 17 of 474
Read in contextCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १७ निशान्तवातलब्धसंज्ञाः कथंचिदाश्वस्य राजानं समन्तादन्वीक्ष्यानवलो- कितवन्तो दैन्यवन्तो देवीमवापुः । ( ३५ ) वसुमती तु तेभ्यो निखिलसैन्यक्षतिं राज्ञोऽदृश्यत्वं चाकर्ण्यो- द्विग्ना शोकसागरमग्ना रमणानुगमने मतिं व्यधत्त । . ( ३६ ) 'कल्याणि, भूरमणमरणमनिश्चितम् । किञ्च दैवज्ञकथितो मथितोद्धतारातिः सार्वभौमोऽभिरामो भविता सुकुमारः कुमारस्त्वदुदरे वसति । तस्माद्य तव मरणमनुचितम्' इति भूपितैभाषितैरमात्यपुरोहि- तैरनुनीयमानया तया क्षणं क्षणहीनया तूष्णीमस्थायि । येषां ते । निशान्तवातेन प्राभातिकवायुना लब्धा पुनः प्राप्ता संज्ञा चैतन्यं यैस्ते । समन्तादितस्ततः । अन्वीक्ष्य अन्विष्य । दैन्यवन्तोऽतिविषण्णाः । देवीं महिषीं वसुमतीम् । ( ३५ ) तेभ्योऽमात्येभ्यः । तत्सकाशादित्यर्थः । निखिलसैन्यक्षतिं सकलसैन्य- विनाशम् । अदृश्यत्वमन्तर्धानम् । आकर्ण्य श्रुत्वा । उद्विग्ना व्याकुला । रमणानुग- मने पतिमनु मरणे मतिं व्यधत्त निश्चयं कृतवती । ( ३६ ) कल्याणि हे मङ्गलमयि ! राज्ञीसम्बोधनमेतत् । भूरमणस्य राज्ञो मरणं मृत्युः दैवज्ञैर्ज्योतिषिकैः । कथित आदिष्टः । मथिता मर्दिता उद्धता दृप्ता अरातयः शत्रवो येन सः । मथिष्यमाणा इत्यर्थे मथिता इति । सार्वभौमश्चक्रवर्त्ती । अभिरामो मनोहरः । भविता भावी जनिष्यमाण इत्यर्थः । सुकुमारः कोमलः । कुमारः पुत्रः । तस्मात् गर्भवत्त्वात् । अनुचितमयुक्तम् । भूषितमलङ्कृतं शोभनमिति भावःभाषितं कथनं येषां तैः । क्षणहीनया उत्सवशून्यया । अस्थायि स्थितम् । स्थाधातोर्भावे लुङ् । प्रातःकालिक शीतल पवनके स्पर्शसे उद्बोधित होकर स्वस्थ हो गये । और चारों ओर राजा राजहंसको खोजने लगे । किन्तु, जब वे उन्हें न पा सके तो खिन्न होकर महारानीके समीप पहुँचे । ( ३५ ) महारानी वसुमती सेनाकी क्षति तथा राजाकी अदृश्यताकी बातें मन्त्रियोंके मुखोंसे जानकर अति दुःखी हुई और उद्विग्नमनसे शोकसागरमें निमग्न होकर पतिका अनुगमग करनेका निश्चय कर लिया - मरनेको उद्यत हो गयीं । ( ३६ ) इसपर अमात्योंने एकत्र होकर कहा—'हे कल्याणि ! प्रथमतः तो राजाका मरण अनिश्चित है तथा दूसरे दैवज्ञोंके कथनानुसार आपके उदरमें सुकुमार राजकुमार है जो चक्रवर्ती एवं शत्रुओंको नाश करनेवाला होगा । अतः आपका मरना इस समय अनुचित है। इस प्रकारके प्ररोचक वचनोंको श्रवणकर-मन्त्रियों और पुरोहितोंके समझाने पर रानी वसुमती उत्सवहीना होकर कुछ भी उत्तर न दे सकीं । चुप होकर बैठी रहीं। २ द० कृ० पृ०