BharatKosha
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 179 of 474

Read in context
Page 179

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १८१ त्वं च निःस्वीभूता । चर्मरत्नं च धनमित्रमेव प्रतिभजिष्यति । तदियमा- पत्समन्ततोऽनर्थानुबन्धिनी । तत्किमत्र प्रतिविधेयम्' इति । ( ४६ ) तया तज्जनन्य‍ा चाश्रूणि विसृज्योक्तम्-'अस्त्येवैतदस्मद्बा- लिश्यान्निर्भिन्नप्रायं रहस्यम् । राज्ञश्च निर्बन्धाद् द्वित्रिश्चतुर्निहुत्यापि निय- तमागतिरपदेश्यैव चोरितस्य त्वयि । त्वयि त्वपदिष्टे सर्वमस्मत्कुटुम्बम- वसीदेत् । अर्थपतौ च तदपयशो रूढम् । अङ्गपुरप्रसिद्धं च तस्य कीनाशस्यास्माभिः संगतम् । अमुनैव तदस्मभ्यं दत्तमित्यपदिश्य वर- मात्मा गोपायितुम्' इति मामभ्युपगमय्य राजकुलमगमत्ताम् । राज्ञानुयुक्ते अरी । निःस्वीभूता-दरिद्रीकृता । प्रतिभजिष्यति-प्राप्स्यति । समन्ततः सर्वतः । अनर्थानुबन्धिनी-अनर्थोत्पादिका । अत्रास्मिन् विषये । प्रतिविधेयं कर्त्तव्यम् । ( ४९ ) तया काममञ्जर्या । तज्जनन्य‍ा तन्मात्रा च । अस्त्येवैतत्-सत्यमेवै- तत् । अस्मद्बालिश्यात्-अस्माकं मूर्खतया । निर्भिन्नप्रायं-बाहुल्येन प्रकाशि- तम् । निर्बन्धात् आग्रहातिशयात् । द्विर्द्विवारम् । त्रिस्त्रिवारं चतुश्चतुर्वारम् । द्वित्रिचतुर्भ्यः सुजिति सुच् प्रत्ययः । निहुत्य संगोप्य । आगतिः प्राप्तिहेतुत्वम् । चोरितस्य अपहृतस्य पदार्थस्य । अपदिष्टे कीर्त्तिते चोरत्वेनेति शेषः । अवसीदेत् । विनश्येत् । तदपयशः-चर्मरत्नचौर्यापवादः । रूढं प्रसिद्धम् । तस्य अर्थपतेः । कीनाशस्य-क्षुद्रस्य । संगतं मैत्री । अमुना अर्थपतिना । तत्-चर्मरत्नम् । वरं मनागिष्टः । गोपायितुं रक्षितुम् । अभ्युपगमय्य बोधयित्वा । अगमतां गतवत्यौ । चर्मरत्नभस्त्रिका-जिससे धनकी प्राप्ति होनेकी आशा है वह भी-धनमित्रको ही मिल जायगी । इस कारणसे यह आपत्ति सर्वथा अनर्थकारिणी है अत एव इस विषयमें क्या उपाय करना चाहिये । ( ४९ ) इस पर वह काममञ्जरी और उसकी माता माधवसेनाने आंख से आंसुओंको छोड़ते हुए कहा- 'यह सर्वदा सत्य है कि, हम लोगोंकी मूर्खताके कारण ही यह रहस्य बहुलतासे प्रकाशित हो गया है । राजाके अतिशय आग्रहसे यदि आपने दो बार तीन बार चार बार बातको छिपानेपर फिर अपहृत ( चोरी की हुई ) वस्तुके विषयमें कह दिया तो, आप पर ही चोरीका सन्देह हो जायगा । और आपके नाम-कथनसे हमारा सारा परिवार विनष्ट हो जायगा । वह चर्मरत्नभस्त्रिका का चौर्यापवाद अर्थपतिके लिए प्रसिद्ध हो चुका है । अङ्गपुरमें यह प्रसिद्धि है ही कि, उस क्षुद्र अर्थपतिके साथ हम लोगोंकी मैत्री है । ऐसी अवस्थामें हम लोग यह कह करके अपनी रक्षाका उपाय ठीक सोचती हैं कि यह चर्मरत्नभस्त्रिका मुझे उसी अर्थपति ने दी है ।' ऐसा मुझे समझा करके वे लोग राजदरबारमें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · Page 179 of 474 · BharatKosha