दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 251 of 474
Read in contextCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २५१ ( २३ ) इत्याकर्ण्य तम् 'इयत्तवायुः । उपपद्यस्व स्वकर्मोचितां गतिम्' इति च्छुरिकया द्विधाकृत्य कृत्तमात्रं तस्मिन्नेव प्रवृत्तरुफीतसर्पिषि हिरण्य- रेतस्यजुहवम् । अभूच्चासौ भस्मसात् । अथ स्त्रीस्वभावादीषद्विह्वलां हृदय- वल्लभां समाश्वास्य हस्तकिसलयेऽवलम्ब्य गत्वा तद्गृगमनुज्ञयास्याः सर्वाण्यन्तःपुराण्याहूय सद्य एव सेवां दत्तवान् । सविस्मितविलासिनी- सार्थमध्ये कञ्चिद्विहृत्य कालं विसृष्टावरोधमण्डलस्तामेव संहत्तोरूमूरूप- पीडं भुजोपपीडं चोपगुह्य तल्पेऽभिरमयन्नल्पामिव तां निशामत्यनैषम् । ( २३ ) तं विकटवर्माणम् । इयत्-एतावत् । आयुः जीवनम् । उपपद्यस्व प्राप्नुहि । स्वकर्मोचितां कर्मफलानुसारिणीम् । गतिं परिणतिम् । द्विधाकृत्य-खण्ड- यित्वा तमिति शेषः । कृत्तमात्रं छेदनसमकालम् । प्रवृत्तेति-प्रवृत्तं प्रदत्तं स्फीतं प्रचुरं सर्पिर्हविर्यस्मिन् तस्मिन् । हिरण्यरेतसि अग्नौ । अजुहवम्-प्रक्षिप्तवान् । असौ-विकटवर्मा । भस्मसात् भस्मावशेषः । स्त्रीस्वभावात्-स्त्रीणां स्वभावः स्वत एवातिकोमलो भवतीति हेतोरित्यर्थः । ईषद्विह्वलां स्वल्पव्याकुलाम् । हृदयव- ल्लभां प्राणप्रियाम् । समाश्वास्य-सान्त्वयित्वा । करकिसलये पाणिपल्लवे । अव- लम्ब्य-गृहीत्वा तद्गृहं कल्पसुन्दरीमन्दिरम् । अनुज्ञया-अनुमत्या । अस्याः कल्पसुन्दर्याः । अन्तःपुराणि-अन्तःपुरिकावर्गान् सेवां भोज्यादिदानेन तासां सन्तोषम् । सविस्मितेति-सविस्मितः साश्चर्यो यो विलासिनीसार्थः । स्त्रीसमूहस्तस्य मध्ये । कञ्चित्कालं-कियन्तं समयं यावत् । विहृत्य-विहारं कृत्वा । विसृष्टेति- विसृष्टं त्यक्तं अवरोधमण्डलमन्तःपुरिकाचक्रं येन सः । तां कल्पसुन्दरीम् । संह- तोरुं विशालोरुदेशाम् । ऊरूपपीडम्-ऊरुभ्यामुपपीड्य । भुजोपपीडं भुजाभ्यामु- पपीड्य । उपगुह्य-आलिङ्ग्य । तल्पे शय्यायाम् । अभिरमयन् विहरन् । अल्पामिव- ( २३ ) इतना श्रवण कर मैंने उस नृपतिसे कहा कि इतने ही दिनोंका तुम्हारा जीवन है। अब अपने कर्मफलानुसारिणी गतिको प्राप्त करो और छुरीसे उस विकट- वर्माको दो टुकड़ोंमें काट करके प्रचुरमात्रामें घीके साथ अग्निमें हवन कर दिया, वह भस्मसात् हो गया । तत्पश्चात् स्त्रीस्वभावके कारण स्वल्प व्याकुलीभूता प्राणप्रियाको आश्वासन दिया । पाणिपल्लव ग्रहण करके उस रानी कल्पसुन्दरीकी अनुमतिसे उसके मन्दिरमें प्रविष्ट हुआ एवं सभी अतःपुरचरोंको बुला कर उसी कालमें उचित पुरस्कार प्रदान किया । आश्चर्यमें अभिभूत अन्तःपुरकी रमणियोंके मध्यमें कुछ समय तक रमण करनेके पश्चात् उन अन्तःपुरकी रमणियोंको दूर करके उसी रानी कल्पसुन्दरीके साथ १७ दृ० कु० च० Nepal Sanskrit University, Balmeeki Campus, Kathmandu