BharatKosha
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 261 of 474

Read in context
Page 261

चतुर्थोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २६१ निष्ठुराज्ञः पलायिष्ट । मन्त्रिणा पुनरहमाहूयाभ्यधायिषि—‘भद्र, मृत्युरे- वैष मृत्युविजयो नाम हिंसाविहारी । सोऽयमपि तावत्त्वयैवंभूतः कृतः । तद्विरम्य कर्मणोऽस्मान्मलीमसात्किमलमसि प्रतिपद्यास्मानार्यवृत्त्या वर्तितुम्’ इति । ( ४ ) ‘यथाज्ञापितोऽस्मि’ इति विज्ञापितोऽयं मया मित्रवन्मय्यव- र्त्तिष्ट । पृष्टश्च मयैकदा रहसि जातविश्रम्भेणाभाषत स्वचरितम्—‘आसी- त्कुसुमपुरे राज्ञो रिपुंजयस्य मन्त्री धर्मपालो नाम विश्रुतधीः श्रुतऋषिः । अमुष्य पुत्रः सुमित्रो नाम पित्रव समः प्रज्ञागुणेषु । तस्यास्मि द्वैमातुरः कठोराज्ञा येन तथाभूतः । अभ्यधायिषि-अभिहितः । मृत्युरेव-साक्षात्कृतान्त एव । एवंभूतः-पलायनपरः । तत्तस्मात् । विरम्य-विरतो भूत्वा । अस्मात्कर्मण- श्चौर्यात् । मलीमसात्-मलिनाद् गर्हितादिति यावत् । अलं समर्थः । प्रतिपद्य प्राप्य । अस्मान्-मादृशान् । आर्यवृत्त्या-सदाचारेण । वर्त्तितुं स्थातुम् । (४) यथाज्ञापितोऽस्मि-यथा भवता आदिष्टं तथैव करिष्यामीत्यर्थः । विज्ञा- पित उक्तः । अयं मन्त्री । मित्रवत्-सुहृदिव । अवर्त्तिष्ट-व्यवाहरत् । जातविश्र- म्भेण-समुत्पन्नविश्वासेन-मयेत्यस्य विशेषणम् । स्वचरितं निजचरित्रम् । अमा- त्यस्येति शेषः । कुसुमपुरे-पाटलिपुत्रे । रिपुंजयस्य शत्रुदमनस्य राजहंसस्य विश्रुतधीः प्रख्यातमतिः श्रुतऋषिः-अधीतवेदः । अमुष्य-धर्मपालस्य । समस्तु- ल्यः । प्रज्ञागुणेषु-बुद्धिगुणेषु । तस्य सुमित्रस्य द्वैमातुरः वैमात्रेयः । वेशेषु-वेश्या- प्राप्त करूं। क्रोधयुक्त उच्च स्वरसे मुझे गरजते हुए देख कर के वह हाथी अपने महावतके अङ्कुशके प्रहारोंको न मान करके पीछेको ही भागने लगा । यह बात देख करके प्रधान मन्त्रीने मुझसे बुला करके कहा—'हे सौम्य ! यह हिंसाविहारी हाथी साक्षात् यमराज ही है । इस मृत्युविजय नामक हाथीकी भी आपने ऐसी दशा कर दी । अतः यदि आप इस गर्हित चौर्यवृत्तिको त्याग करके सदाचारयुक्त उत्तम कर्म करें और हम लोगोंसे व्यवहार करें तो, उचित हो । (४) मैने उत्तर दिया-'जैसी आपकी आज्ञा हो वह मैं कर सकता हूं।' मेरे इस प्रकारके कथनपर प्रधान मन्त्रीने मेरे साथ मित्रतुल्य व्यवहार करना आरम्भ किया । विश्वसित हो जानेपर मैने उन प्रधान मन्त्रीसे एक बार एकान्तमें उनके जीवन चरित- वृत्तान्तको पूछा । तब उन्होंने कहा-'पाटलिपुत्रके शत्रुदमनकारी राजा राजहंसके विख्यात बुद्धिवाले वेदवेत्ता धर्मपाल नामक एक मन्त्री था । उन मन्त्री धर्मपालके एक पुत्र सुमित्र नामक था जो पिताके सदृश ही बुद्धिमान् एवं गुणवान् था । उसी सुमित्रका

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · Page 261 of 474 · BharatKosha