BharatKosha
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 313 of 474

Read in context
Page 313

नियतमभिमनायमानः स्वदुहितृसन्निधौ मां वासयिष्यति । गतस्तु भवानागामिनि मासि फाल्गुने फल्गुनीषूत्तरासु राजान्तः पुरजनस्य तीर्थयात्रोत्सवो भविष्यति । तीर्थस्थानात्प्राच्यां दिशि गोरुतान्तरमति- क्रम्य, वानीरवलयमध्यवर्त्तिनि कार्तिकेयगृहे करतलगतेन शुक्लाम्बरयुग- लेन स्थास्यसि । (२३) स खल्वहमनभिशङ्क एवैतावन्तं कालं सहाभिविहृत्य राज- कन्यया भूयस्तस्मिन्नुत्सवे गङ्गाम्भसि विहरन्विहारव्याकुले कन्यका- समाजे मग्नोपसृतस्तवद्भ्यास एवोन्मङ्क्ष्यामि । पुनस्तदुपहृते वाससी परिधायापनीतदारिकावेषो जामाता नाम भूत्वा त्वामेवानुगच्छेयम् ।

भवतेति शेषः । नियतमवश्यम् । अभिमनायमानः अनुमोदमानः । स्वदुहितृ- सन्निधौ-राजकन्यासमीपे । मां कन्यावेषधारिणं प्रमतिरित्यर्थः। वासयिष्यति- स्थापयिष्यति । फल्गुनीषु उत्तरासु-उत्तरफल्गुनीनक्षत्रे । तीर्थस्थानात्-तीर्थक्षेत्रात्। प्राच्यां पूर्वस्यां दिशि । गोरुतान्तरं-गवां शब्दो यावत्पर्यन्तं गच्छति तावत्परिमितं स्थानं गोरुतान्तरं कथ्यते-तावत्परिमितं स्थानमतिक्रम्य अतीत्य किञ्चिद्दूरे इत्यर्थः। वानीरवलयमध्यवर्त्तिनि-वेतसतरुमण्डलमध्यस्थिते करतलगतेन-हस्त- स्थितेन । (२३) स खलु अहं-कन्यावेषधारी प्रमतिरित्यर्थः । अनभिशङ्कः-निर्भयः । एतावन्तं कालं-उत्सवसमयं यावत् । अभिविहृत्य-समन्ततः क्रीडित्वा । तस्मिन्- पूर्वकथिते । विहारव्याकुले क्रीडानिरते । कन्यकासमाजे-कन्यावर्गे । मग्नोपसृतः- जलमग्नः सन् उपसृतश्चलितः । त्वदभ्यासे-तव समीपे । उन्मङ्क्ष्यामि-जलादु- त्थितो भविष्यामि । त्वदुपहृते त्वया दत्ते । वाससी वस्त्रे । अपनीतदारिकावेषः-

रहनेकी आज्ञा देगा । फिर आप मुझे वहां छोड़कर लौट आइएगा । ततः फाल्गुन महीनेके उत्तराफाल्गुनी नक्षत्रको राजाके अन्तःपुरके सभी व्यक्ति तीर्थयात्राको जायेंगे। उस तीर्थस्थानसे पूर्वकी ओर इतनी दूरपर जहां तक गोका शब्द सुनाई पड़े बेंतके लता- मण्डपके मध्यमें कार्त्तिकेय मन्दिरमें दो सफेद वस्त्रोंके साथ ठहरे रहियेगा (२३) मैं निश्शंक होकर राजकुमारीके साथ जलक्रीड़ा करता हुआ उस उत्सवमें गङ्गामें पुनः डुबकी लगाऊंगा और जब कन्यकाजन जलविहार करती हुई डुबकियां लेती रहेंगी तब मैं डुबकी मारकर आपके समीप निकल आऊँगा । वहांपर आपके दिये हुए कपड़े पहनकर कन्यावेषको छोड़ दूंगा । मुझे जलमें डूबा हुआ जानकर सभी सखियाँ और राजकुमारी दुःखी हो जायगी । राजपुत्री मुझे इधर-उधर खोजेगी और मेरा पतान