दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 328 of 474
Read in context३२८ दशकुमारचरितम् । [ उत्तरपीठिकायां नलज्जया पुष्पमयं पञ्जरम्, पञ्चबिन्दुप्रसृतेषु पञ्चापि पञ्चबाणबाणान्युग- पदिवाभिपततस्त्रासेनाबघट्टयन्ती, गोमूत्रिकाप्रचारेषु घनदर्शितरागविभ्रमा विद्युल्लतामिव विडम्बयन्ती, (१०) भूषणमणिरणितदत्तलयसंवादिपादचारम्, अपदेशस्मितप्र- भानिषिक्तबिम्बाधरम्, अंसस्रंसितप्रतिसमाहितशिखण्डभारम्, समाघ- सुरक्षितस्थानमाविशन्ती निलीयमानेवेत्युत्प्रेक्षा । पञ्चविन्दुप्रसृतेषु कन्दुकक्री- डायां तदाख्यगतिविशेषेषु । तदुक्तं पञ्चावर्त्तप्रहारस्तु पञ्चबिन्दुरुदाहृत इति । पञ्च पञ्चसंख्याकान् । 'अरविन्दमशोकञ्च चूतञ्च नवमल्लिका । नीलोत्पलञ्च पञ्चैते पञ्चबाणस्य सायका' इत्युक्तेः पञ्चबाणबाणान्-कामशरान् । युगपदिव- मन्ये समकालमेव । अभिपततः-कन्दुकाबत्याः सम्मुखमागच्छतः । पञ्चबाण- बाणानित्यस्य विशेषणम् । त्रासेन भयेन । अवघट्टयन्ती सन्ताड्य निरस्यन्ती । गोमूत्रिकाप्रचारेषु-गोमूत्रिकावत् सरलवक्रगतिविशेषास्तेषु । घनदर्शितेति-घनं सान्द्रं यथा तथा दर्शितः प्रकटितो रागस्यानुरागस्य विभ्रमो विलासो यया सा । अत एव विद्युल्लतां सौदामिनीं विडम्बयन्ती अनुकुर्वतीव । विद्युल्लतां कीदृशीम् इति पक्षान्तरे विभक्तिविपरिणामेन-घने मेघे दर्शितो रागस्य रक्तिम्नो विभ्रमो यया तामिति । (१०) भूषणेति-भूषणमणीनामलङ्काररत्नानां रणितेन शब्दितेन दत्तस्य लयस्य साम्यस्य संवादी अनुकारी पादचारः पादन्यासो यन्न तथथा तथा। इत आरभ्य सर्वाण्येव पर्यक्रीडतेति क्रियाविशेषणानि । अपदेशेति-अपदेशेन छलेन यत् स्मितमोषद्विसितं तस्य प्रभया कान्त्या निषिक्तो व्याप्तो बिम्बाधरो यत्र तत् । अंसेति-अंसे स्कन्धदेशे स्रंसित आदौ पतितः पश्चात् प्रतिसमाहितः स्व- हुई और उसो क्षण मेरे दर्शनकी कारणीभूता उत्पन्न लज्जासे विलब्जित होकर वह राजकुमारी मानो, कुसुमनिर्मित सुरक्षित स्थानमें प्रवेश करती हुई दीख रही थी । पञ्चबिन्दु (पंचावर्त्तप्रहार) गतिसे कन्दुकक्रीड़ा करती हुई वह राजकुमारी एक ही समयमें कामदेवके पांचों कुसुमनिर्मित बाणोंका, भयद्वारा, प्रतीकार करती हुई मालूम हो रही थी। गोमूत्रिका नामक गतिसे कन्दुकक्रीड़ा (सरल और वक्र गतिसे) करती हुई वह राजपुत्री प्रगाढ़ प्रीतिको झलकाती हुई बिजलीको भी तिरस्कृत कर रही थो । अथवा, बादलोंके प्रति जिसने रागके विलासको प्रकट किया है ऐसो बिजलीको भी तिरस्कृत करती हुई वह दिखाई दी। (१०) वह राजकुमारी अपने अलङ्कारोंके रत्नोंकी ध्वनियोंसे जो उसके पैरमें भूषित थे ताल (लय) को सम्पादित कर रही थी । उसके रक्त अधर कपटकी हँसीसे परिपूर्ण