दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 351 of 474
Read in contextCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३५१ ( ३० ) स्निग्धदृष्टिराचष्ट—‘भद्रे, कच्चिदस्ति कौशलं शालिप्रस्थेना- नेन संपन्नमाहारमस्मानभ्यवहारयितुम्' इति । ततस्तया वृद्धदासी साकू- तमालोकिता। तस्य हस्तात्प्रस्थमात्रं धान्यमादाय क्वचिदलिन्दोद्देशे सुसि- क्तसंमृष्टे दत्तपादशौचमुपावेशयत् । सा कन्या तान्गन्धशालीन्संक्षुद्य मा- त्रया विशोष्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमायां भूमौ नालीपृष्ठेन मृदु- मृदु घट्टयन्ती तुषैरखण्डैस्तण्डुलान्पृथक्चकार । जगद च धात्रीम्—'मातः एभिस्तुषैरर्थिनो भूषणमृजाक्रियाक्षमैः स्वर्णकाराः । तेभ्य इमान्दत्त्वा (३०) स्निग्धदृष्टिः स्नेहपूर्णनयनः । आचष्ट आख्यातवान् शक्तिकुमार इति शेषः । भद्रे कल्याणि । कच्चिदिति प्रश्ने । अनेन मत्करस्थेन शालिप्रस्थेन धान्यराशिना सम्पन्नं सम्पादितमाहारं भोज्यम् अभ्यवहारयितुं भोजयितुं मामिति शेषः कौशलं नैपुण्यमस्ति किमिति प्रश्नः । ततः प्रश्नानन्तरम् । तया कन्यया । साकूतं साभिप्रायम् । आलोकिता दृष्टा । तस्य शक्तिकुमारस्य । आदाय गृहीत्वा । अलिन्दोद्देशे-द्वारोपान्तप्रदेशे । सुसिक्तसंमृष्टे-सुसिक्तो जलेनाद्रीकृतः संमृष्टः शुद्धीकृतस्तादृशे दत्तेति-दत्तमर्पितं पादशौचं पादप्रक्षालनार्थजलं यस्मै तम् । तादृशं शक्तिकुमारमुपावेशयत् । उपवेशितवती वृद्धदासीति शेषः । गन्धशालीन्- गन्धयुक्तान् व्रीहीन् । संक्षुद्य कुट्टयित्वा । मात्रया अंशेन-कियत्परिमाणेनेत्यर्थः । विशोष्य नीरसीकृत्य । आतपे सूर्यकिरणे । परिवर्त्य इतस्ततः सञ्चाल्य । स्थिरस- मायां स्थिरायां कठिनायां समायामबन्धुरायाञ्च । नालीपृष्ठेन मुसलविशेषेण । मृदु मृदु मन्दंमन्दम् । घट्टयन्ती मर्द्दयन्ती । अखण्डैः अभग्नैस्तुषैः धान्यत्वग्भिः । पृथक् चकार तण्डुलान् सम्पादयामास । धात्रीं तां वृद्धदासीम् । एभिरित्यादि- भूषणानामलंकाराणां मृजाक्रियायां परिष्करणे क्षमैः समर्थैरेभिस्तुषैः स्वर्ण- काराः भूषणनिर्मातारः अर्थिनः प्रार्थिनः । अलङ्कारशोधनार्थं स्वर्णकारास्तुषान् ( ३० ) ऐसा सोचकर उस शक्तिकुमार ने प्रेमपूर्ण दृष्टि से उस कन्या से कहा 'हे- कल्याणि ! मेरे समीप एक प्रस्थ परिमाण धान्यराशि है, क्या आपमें इन धान्यों को पकाकर मुझ खिला देने का नैपुण्य है ? इस प्रश्न पर उस कन्या ने अपनी वृद्धा उपमाता को साभिप्राय देखा । तब धात्री ने उस शक्तिकुमार से प्रस्थ परिमाण धान्य ले लिया तथा अपने द्वार के समीप ( दहलीज ) में एक जगह जल छिड़ककर, एवं उस जगह को पवित्र बनाकर उस अतिथिको हाथ-पांव धोने के जल को देकर वहीं बैठा दिया । फिर उस कन्या ने उस सुगन्धित धान्यों को लेकर कूट डाला और थोड़ी देर तक उन्हें धूप में फैलाकर इधर-उधर चलाकर सुखा डाला । पुनः ओखली में धरकर हल्के हाथों द्वारा मूसल से कूट Nepal Sanskrit University, Balmeeki Campus, Kathmandu