BharatKosha
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 370 of 474

Read in context
Page 370

तेन प्रणयकुपिता नाम भूत्वा भर्तारमुरसि प्रहर्तुमर्हसि उपर्यसावुत्तम- धातुपुष्टिमूर्जितापत्योत्पादनक्षमामासादयिष्यति । अनुवर्तिष्यते देवीमि- वात्रभवतीम् । नात्र शङ्का कार्या' इति । (४५) सा तथोक्ता व्यक्तमभ्युपेष्यति नक्तं मां वृक्षवाटिकां प्रवेश्य तामपि प्रवेशयिष्यसि तावतैव त्वयाहमनुगृहीतो भवेयम्' इति । सा तथैवोपाग्राहितवती । सोऽतिप्रीतस्तस्यामेव क्षपायां वृक्षवाटिकायां गतो नितम्बवतीं निर्ग्रन्थिकाप्रयत्नेनोपनीतां पादे परामृशन्निव हेमन्नूपुरमेकमा- णेन । प्रणयकुपिता-मानिनीव । नामेत्यलीकसम्भावनायाम् । उपरि तदन- न्तरम् । असौ तव पतिः । उत्तमधातुपुष्टिं-उत्तमस्योत्कृष्टस्य धातोः शुक्रस्य पुष्टिं वृद्धिम् । उर्जितेति-उर्जितस्य बलवतः अपत्यस्य सन्ततेरुत्पादने जनने क्षमां समर्थाम् । धातुपुष्टिमित्यस्य विशेषणम् । आसादयिष्यति प्राप्स्यति । अनुवर्त्ति- ष्यते अनुसरिष्यति त्वदासक्तो भविष्यति तव पतिरिति शेषः । अत्रभवतीं त्वा- मित्यर्थः । शङ्का संशयः । (४५) सा नितम्बवती । तथोक्ता श्रमणिकया । तथा कथिता । व्यक्तं असन्दिग्धम् । अभ्युपेष्यति-स्वीकरिष्यति-तथा कर्तुमिति शेषः । वृक्षवाटिकां गृहोद्यानम् । प्रवेश्य प्रवेशं कारयित्वा । ताम् नितम्बवतीम् । तावता एतावता कर्मणा । सा श्रमणिका । उपग्राहितवती-नितम्बवतीं स्वीकारयामास । स कलह- कण्टकः । निर्ग्रन्थिकाप्रयत्नेन-श्रमणिकाचेष्टया । निर्ग्रन्थिका बौद्धभिक्षुकी । उप- नीताम् उपस्थापिताम् । पादे नितम्बवत्याश्चरणे । परामृशन् हस्तं चालयन् । अपने चरणोंको अर्पित कर देना । उसके द्वारा अभिमन्त्रित होकर तुम अपने पतिके ऊपर मान करके बैठ जाना । और पतिके द्वारा मान निवारणपर उसके वक्षःस्थलमें एक लात मारना । तदनन्तर तुम्हारा पति उत्तम धातुपुष्टिको प्राप्त कर लेगा और बलवती सन्तान उत्पन्न करनेकी शक्तिवाला हो जायगा । तुम्हारा पति तुम्हें देवीकी तरह मानेगा। इसमें शंका मत करो।' (४५) ऐसा कहनेपर वह नितम्बवती निःसन्देह प्रक्रियाको स्वीकार कर लेगी तब आप (संन्यासिनी) रातमें मुझे उस वृक्षवाटिकामें प्रवेशित कराकर फिर उसे भी प्रवेशित करा देना । आपके द्वारा यह कार्य होनेसे मैं आपका अति आभारी रहूँगा । उस संन्यासिनीने उसी तरहसे उस नितम्बवतीको राजी कर लिया । वह उसी रातमें प्रमुदित होकर वृक्षवाटिकामें गया । संन्यासिनीके प्रयत्न से आयी हुई नितम्बवतीके चरणपर हाथ लगाते हुए उसने एक सुवर्णका नूपुर (पैरका भूषण) खींच लिया और