दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 381 of 474
Read in contextसप्तमोच्छ्वासः ] बालप्रबोधिनीव्याख्यासहितम् । ३८१ स्तरलतरनरास्थिशकलरचितालंकाराक्रान्तकायम्, दहनदग्धकाष्ठनिष्ठा- ङ्गाररजःकृताङ्गरागम्, तडिल्लताकारजटाधरम्, हिरण्यरेतस्यरण्यचक्रान्ध- कारराक्षसे क्षणगृहीतनानेन्धनग्रासचञ्चदर्चिषि दक्षिणेतरेण करेण तिल- सिद्धार्थकादीन्निरन्तरचटचटायितानाकिरन्तं, कंचिदद्राक्षम् । तस्याग्रे स कृताञ्जलिः किंकरः 'किं करणीयम्, दीयतां निदेशः' इत्यतिष्ठत् । आदि- ष्टश्चायं तेनातिनिकृष्टाशयेन—'गच्छ, कलिङ्गराजस्य कदर्दनस्य कन्यां कनकलेखां कन्यागृहादिहानय' इति । किञ्चिदन्तरं कियद्दूरम् । तरलेति-तरलतरैरतिचञ्चलैः नरास्थिशकलैर्मनुष्या- स्थिखण्डैः रचितेन निर्मितेन अलङ्कारेण भूषणेन आक्रान्तः व्याप्तः कायः शरीरं यस्य तादृशम् । दहनेति-दहनेन अग्निना दग्धं यत्काष्ठमिन्धनं तन्निष्ठं तत्र स्थितं यदङ्गाररजः भस्म तेन कृतः अङ्गरागः अङ्गलेपनं येन तादृशम् । तडिदिति-तडि- ल्लताकारं विद्युल्लतासदृशीं जटां धरतीति । तादृशम् । हिरण्यरेतसि अग्नौ । अरण्येत्यादि-विशेषणद्वयं हिरण्यरेतसीत्यस्य । अरण्येति-अरण्यचक्रे काननमण्डले ये अन्धकारास्तेषां राक्षसे भक्षके नाशके इति यावत् । तथा क्षणेन स्वल्पसमयेन गृहीतानां घृतानां नानेन्धनानां विविधकाष्ठानां ग्रासेन भक्षणेन दहनेनेति यावत् । चञ्चन्ती स्फुरन्ती अर्चिः शिखा यस्य तादृशे । दक्षिणेतरेण वामेन । सिद्धार्थाः श्वेत- सर्षपाः । तदादीन् तण्डुलयवांश्चेत्यर्थः । निरन्तरचटचटायितान्-अजस्रं चटचटेति अव्यक्तशब्दं कुर्वतः । आकिरन्तं क्षिपन्तम् । कञ्चित्पुरुषमिति शेषः । तस्य होमं कुर्वतः पुरुषस्य । स पूर्वोक्तः । अयं किङ्करः । तेन पुरुषेण । अतिनिकृष्टाशयेन- अत्यन्तनीचप्रकृतिना । कदर्दन इति कलिङ्गराजस्य नाम । गया था कि मैंने देखा—'एक आदमी, मनुष्योंकी हड्डियोंके टुकड़ोंसे बने हुए अति चंचल अलंकारोंको अपनी देह भरमें पहने हुए है। आगमें जले हुए काष्ठ आदिकी अंगारभस्मको अपने शरीर भरमें पोते हुए है। जिसकी जटा बिजलीकी लताके समान (चमकदार) है अर्थात् विद्युल्लताके समान जटाओंको धारण किये हुए हैं। जो काननमण्डल (वनसमूह) के अन्धकारको नाश करनेमें अग्निके समान है। क्षण-क्षणमें काष्ठ, ईंधन आदिसे अग्नि प्रज्वलित हो रही थी। जो अपने बायें हाथसे तिल, सफेद सरसों, यव, चावल आदिसे लगातार हवन कर रहा है। जिससे अग्निमें लगातार चट-चट शब्द हो रहा है ऐसे हवन करनेवाले, एक आदमीको मैने देखा। उस हवनकर्त्ताके सम्मुख वह किंकर बद्धाञ्जलि होकर पूछ रहा था—'क्या करना है, आज्ञा दें।' इस प्रकारसे हाथ जोड़े खड़े हुए उस किंकरको उस नीच बुद्धिवाले हवन Nepal Sanskrit University, Balmeeki Campus, Kathmandu