BharatKosha
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 391 of 474

Read in context
Page 391

सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३६१ (१०) अथ संततगीतसंगीतसंगताङ्गनासहस्रशृङ्गारहेलानिरर्गला- नङ्गसंघर्षहर्षितश्च । रागतृष्णैकतन्त्रस्तत्र रन्ध्र आन्ध्रनाथेन जयसिंहेन सलिलतरणसाधनानीतेनानेकसंख्येनानीकेन द्रागागत्यागृह्यत सकलत्रः । सा चानीयत त्रास्तरलाक्षी दयिता नः सह सखीजनेन कनकलेखा । तदाहं दाहेनानङ्गदहनजनितेनान्तरिताहारचिन्तश्चिन्तयन्दयितां गलित- गात्रकान्तिरित्धतर्कयम्—'गता सा कलिङ्गराजतनया जनित्रा जनयित्र्या (१०) सन्ततेति—सन्ततगीतेषु निरन्तरप्रवृत्तेषु सङ्गीतेषु गानेषु संगतानां मिलितानामङ्गनानां कामिनीनां सहस्रस्य शृङ्गारहेलया निधुवनलीलसा निर- र्गलः अप्रतिहतो यः अनङ्गसङ्घर्षः कामोद्रेकस्तेन हर्षितः तथा रागतृष्णयोः अनु- रागभोगेच्छयोः एकतन्त्रः पराधीनः स राजा कर्दण इति शेषः । तत्र तस्मिन् रन्ध्रे अवकाशे । आन्ध्रनाथेन आन्ध्रदेशाधिपेन । सलिलतरेति—सलिलतरणसा- धनं नौकारूपं तेन आनीतेन तद्देशं प्रापितेन अनेकसंख्येय बहुना अनीकेन सैन्येन द्राग् झटिति आगत्य तत्रैव सागरतीरवने इति शेषः । अगृह्यत गृहीतोऽभवत् सक- लत्रः सपरिवारः । सा च कनकलेखाऽपि । अनीयत जयसिंहेन स्वनगरं नीता । त्रास्तरलाक्षी भयचञ्चलनयना । दयिता-वल्लभा नः अस्माकम् । तदाहमित्यादि- तदा अहं मन्त्रगुप्त इत्यर्थः अनङ्गदहनजनितेन—मदनानलोत्पादितेन दाहेन तापेन अन्तरिता अवगता आहारचिन्ता यस्य सः गलितगात्रकान्तिः भ्रष्टदेहशोभः । इति-वक्ष्यमाणप्रकारम् । अतर्कयम् व्यचारयम् । सा कनकलेखा । जनित्रा पित्रा । छोटे छोटे विन्दु पवनके झोकोंसे आ रहे थे जिससे वह भूमि अति शीतल थी । (१०) आरामबागमें पहुंचनेपर-निरन्तर संगीत और गानमें प्रवृत्त सहस्र रमणियोंकी निधुवनलीलासे अप्रतिहत कामोद्रेकसे हर्षित होकर तथा अनुराग और भोगेच्छायुक्त होकर पराधीन (विलासीसा पराधीन) हो रहा था उसी कालमें आंध्र- देशाधिपति जयसिंह, नावोंद्वारा अनेक सैन्यदलके साथ वहां आया और उसने शीघ्रतासे सागर तीरवाले बागमें विहार करनेवाले उस राजाको स्त्रियोंके सहित पकड़ लिया । वह भयसे चञ्चलनयनी मेरी प्राणप्रिया कनकलेखा भी सखियोंके सहित उस राजा जयसिंह द्वारा उसके यहां ले जायी गयी । तब मैं (मन्त्रगुप्त) भी कामदेवरूपी आगसे उत्पन्न दाहसे दग्ध होकर भूख-प्यासकी चिन्ता त्यागकर उसी प्यारीकी चिन्तामें लीन हो गया । चिन्ताग्रस्त होनेसे क्षीणकान्तिवाला होकर मैने विचार किया—'वह मेरी प्यारी कनकलेखा अपने माता-पिताके साथ शत्रुके हाथमें चली गयी। वह आंध्रराज (आंध्रेश) अवश्य उसे अपने वशमें लानेकी कोशिश करेगा । वह कन्या इस बातको

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · Page 391 of 474 · BharatKosha