दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 411 of 474
Read in contextCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF ॥ श्रीः ॥ दशकुमारचरितम् अष्टमोच्छ्वासः ( १ ) अथ सोऽप्याचचक्षे—'देव, मयापि परिभ्रमता विन्ध्याटव्यां कोऽपि कुमारः क्षुधा तृषा च क्लिश्यन्नक्लेशाहैः क्वचित्कूपाभ्याशेऽष्टवर्षदे- शीयो दृष्टः । स च त्रासगद्गदमगदत्—'महाभाग, क्लिष्टस्य मे क्रियता- मार्य, साहाय्यकम् । अस्य मे प्राणापहारिणीं पिपासां प्रतिकर्तुमुदकमु- दद्धन्निह कूपे कोऽपि निष्कलो ममैकशरणभूतः पतितः । तमलमस्मि नाहमुद्धर्तुम्' इति । ( २ ) अथाहमभ्येत्य व्रतत्या कयापि वृद्धमुत्तार्य, तं च बालं वंश ( १ ) अथ मन्त्रगुप्तकथनानन्तरम् । स विश्रुतनामा कुमारः । विन्ध्याटव्यां विन्ध्यारण्ये । कोऽपि अज्ञातकुलनामा । अक्लेशाहैः क्लेशसहनयोग्यो नेत्यर्थः । कूपाभ्याशे जलाशयसमीपे । अष्टवर्षदेशीयः असमाप्ताष्टवर्षः । सः बालकः । त्रास- गद्गदं भयविह्वलं यथा तथा । क्लिष्टस्य क्लेशयुक्तस्य । आर्य पूज्य । साहाय्यकं- स्वार्थे कः । प्राणापहारिणीं जीवितनाशिनीम् । प्रतिकर्तुम् अपनोदयितुम् । उदद्धन् निष्कासयन् । निष्कलो वृद्धः । ममैकशरणभूतो मदवलम्बनभूतः । तं कूपपतितं वृद्धम् । अलं समर्थः । उद्धर्तुं कूपात्निष्कासयितुम् । इत्यन्तम् अगददित्यस्य कर्म । ( २ ) अथ तच्छ्रवणानन्तरम् । अभ्येत्य समीपमागत्य । व्रतत्या लतया, ( १ ) इसके पश्चात् विश्रुतने कहा—हे देव ! विन्ध्याटवीमें इतस्ततः भ्रमण करते हुए मैंने सहसा एक कूपके समीप आठ बरसके बालकको देखा । क्लेशोंको सहन करनेमें अशक्त वह मृदु बालक भूख-प्याससे पीड़ित हो रहा था। मुझे देखकर उसने भयान्रित होकर गद्गद स्वरसे कहा—हे महाभाग ! इस समय मैं बड़ी आपत्तिमें हूँ । आप मेरी सहायता करें । मुझे प्राणापहारिणी पिपासा सता रही है, उसीके निवृत्त्यर्थ मैं इस कूपपर आया तो पानी निकालनेके समय मेरे साथका एक वृद्ध इसमें गिर पड़ा । मेरे अतिरिक्त उसका कोई सहायक भी नहीं है और मुझमें इतना पौरुष नहीं कि मैं उसे खींचकर कूपके बाहर निकाल सकूं । ( २ ) तदनन्तर मैंने कुछ लताओंको एकत्र करके उनकी सहायतासे उस बूढ़ेको २७ द० कु० उ० Nepal Sanskrit University, Balmeeki Campus, Kathmandu