दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 436 of 474
Read in context४३६ दशकुमारचरितम् । [ उत्तरपीठिकायां प्रासरन्परोपजापाः । तदा च मृगयुवेषमृगबाहुल्यवर्णनेनाद्रिद्रोणीरनपसा- रमार्गाः शुष्कतृणवंशगुल्माः प्रवेश्य द्वारतोऽग्निविसर्गैः, व्याघ्रादिवधे प्रोत्साह्य तन्मुखपातनैः, इष्टकूपतृष्णोत्पादनेनातिदूरहारितानां प्राणहा- रिभिः क्षुत्पिपासाभिवर्धनैः तृणगुल्मगूढच्छन्नतटप्रदरपातहेतुभिर्विषम- मार्गप्रधावनैः विषमुखीभिः क्षुरिकाभिश्चरणकण्टकोद्धरणैः विष्वग्विसर- विच्छिन्नानुयातृतयैकाकीकृतानां यथेष्टघातनैः, मृगदेहापराद्धैर्नामेषुमो- क्षणैः, सपणबन्धमधिरुह्याद्रिशृङ्गाणि दुरधिरोहाण्यनन्यलक्ष्यैः प्रभ्रंशनैः, आटविकच्छद्मना विपिनेषु विरलसैनिकानां प्रतिरोधनैः, अक्षद्यूतपक्षि- परोपजापाः भेदाः । तदा भेदे समुत्पन्ने । मृगयुवेषेति—मृगयुवेषेण व्याधरूपधा- रिणा यन्मृगबाहुल्यवर्णनं तेन । विश्वासोत्पादनाय स्वयं मृगयुर्भूत्वा अत्र बहवो मृगा वर्त्तन्त इति कथयित्वेत्यर्थः । अद्रिद्रोणीः पर्वतमध्यपद्धतीः । द्रोणिः स्यान्म- ध्यपद्धतिरिति कोपात् । नास्ति अपसारमार्गो निर्गमनमार्गो यासु ताः । शुष्काणि तृणानि वंशगुल्मानि च यासु ताः । अद्रिद्रोणीरित्यस्य विशेषणद्वयम् । प्रवेश्य जनानिति शेषः । अग्निविसर्गैरनलप्रदानैः अनन्तवर्मकटकं जर्जरमकुर्वन् इत्यने- नान्त्रयः । एवं सर्वत्रापि । तन्मुखपातनैः व्याघ्रमुखपातनैः । इष्टेषु मनोज्ञेषु कूपेषु तृष्णोत्पादनेन तत्र मनोज्ञः कूपोऽस्ति तस्यैव जलं पातव्यमिति तृष्णामुत्पाद्य । अतिदूरहारितानां दूरं नीतानाम् । तृणगुल्मेति—तृणगुल्मैर्गूढच्छन्नानामाच्छादितानां तटानामुच्चैःप्रदेशानां प्रदरेषु निम्नमार्गेषु पातहेतुभिः पतनकारणैः । विषमु- खीभिः विषलिप्ताग्राभिः । विष्वगिति—विष्वक् समन्ताद् विसरेण प्रसरणेन विच्छिन्ना अष्टा अनुयातारोऽनुसारिणो येषां तेषां भावस्तया । हेतौ तृतीया । यथेष्टघातनै- र्यथेच्छमारणैः, मृगदेहे मृगशरीरे अपराद्धैर्लक्ष्यभ्रष्टैः । इषुमोक्षणैर्बाणक्षेपैः । सपणबन्धं पणं कृत्वा । प्रभ्रंशनैः पातनैः । आटविक आरण्यकस्तस्य कपटेन । निरादरसे जनता शोकातुर क्षुभित हो गयो । तरह-तरहके अनाचारोंसे शनैः शनैः शत्रुओं द्वारा प्रचारित भेदनीति फलित हो गयी । इस कारण कितने शत्रुगणोंके दूत बहेलियो व अन्य लोगोंके स्वरूप धारण कर अनन्तवर्माकी सेनामें प्रविष्ट हो गये और उन्हें वनके किसी प्रदेशमें अन्य जन्तुओंकी अधिकता तथा सहज ही में उनकी प्राप्ति का प्रलोभन देकर पर्वतों की ऐसी कण्टकाकीर्ण वोहड़ गुफाओंमें ले गये जहां से निकल भागने का कोई सीधा मार्ग ही न था । वहां उन्हें पहुँचाकर उन लोगोंने गुफाओं के दरवाजों पर घास- फूस-लकड़ियों की राशि एकत्र करके आग जला दी जिससे वे सब वहीं जलकर मर गये । कुछ शत्रुके दूत छलसे अन्य सेना को दूसरे जंगलमें यह कह कर ले गये कि 'अमुक Nepal Sanskrit University, Balmeeki Campus, Kathmandu