BharatKosha
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 452 of 474

Read in context
Page 452

[Page Header] CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF ४५२ | दशकुमारचरितम् । [ उत्तरपीठिकायां

न्द्रोपधिकृतामेव सन्दिश्य, उत्तरेद्युः प्रत्यूषस्येव पूर्वसंकेतितपौरामात्यसा- मान्तवृद्धैः सहाभ्येत्य भगवतीमर्चयित्वा सर्वजनप्रत्यक्षं परीक्षितकुक्षिवै- जन्यं तद्भवनं विधाय दत्तदृष्टिः सह जनेन स्थित्वा, पटीयांसं पटह- शब्दमकारयत् । अणुतररन्ध्रप्रविष्टेन तेन नादेनाहं दत्तसंज्ञः शिरसै- वोत्क्षिप्य सप्रतिमं लोहपादपीठमंसलपुरुषप्रयत्नदुश्चलमुभयकरविधृत- मेकपार्श्वमेकतो निवेश्य निरगमम् । निरगमयं च कुमारम् । अथ यथा- पूर्वमर्चयित्वा दुर्गामुद्घाटितकपाटः प्रत्यक्षीभूय प्रत्ययहृष्टदृष्टीः स्पष्टरोमा- ञ्चमुद्यताञ्जलिरूढविस्मयं च प्रणिपतन्तीः प्रकृतीरभ्यधाम्—'इत्थं देवी विन्ध्यवासिनी मन्मुखेन युष्मानाडुापयति—मया सकृपया शार्दूलरूपेण तिरस्कृत्याद्य वो दत्तमनेमद्यप्रभृति मत्पुत्रतया मन्दमातृपक्ष इति परि- गृह्णन्तु भवन्तः ।

चण्डवर्मणे चेत्यस्य सन्दिश्येत्यनेन सम्बन्धः । अवस्थां प्रचण्डवर्ममरणघटनाम् । अश्मकेन्द्रस्य वसन्तभानोरुपधिना छलेन कृतां जनितामिति अवस्थाया विशेषणम् प्रत्यूषसि प्रभाते परीक्षितं सम्यग् दृष्टं कुक्षेः अभ्यन्तरस्य वैजन्यं विजनता जनशून्यत्वं यस्य तत् । भवनस्य विशेषणम् । पटीयांसं महान्तम् । दत्तसंज्ञः दत्तसंकेतः । सप्रतिमं देवीमूर्तिसहि [म् । अंसलस्य बलवतः पुरुषस्य प्रयत्नेनाया- सेन दुश्चलं चालयितुमशक्यम् । लोहपादपीठविशेषणम् । उभयकरविधृतमिति एकपार्श्वस्य विशेषणम् । एकपार्श्वञ्च लोहपादपीठस्येति ज्ञेयम् । एकतः बिलस्यैक- पार्श्वे । निरगमयं निष्कासितवान् । प्रत्यक्षीभूय सर्वजनसमक्षं निर्गत्य । प्रत्ययेन विश्वासेन हृष्टा सन्तुष्टा दृष्टिर्यासां ताः । रूढः सञ्जातो विस्मयो यस्मिंस्तद् यथा तथा । स्पष्टरोमाञ्चमित्यादि त्रयं क्रियाविशेषणम् । प्रकृतयः प्रजाः । तिरस्कृत्य संछाद्य सङ्गोप्य वा । वः युष्मभ्यम् । एनं कुमारम् । मन्दो दुर्भाग्यो मातृपक्षो यस्य तथाभूतः । परिगृह्णन्तु-स्वीकुर्वन्तु ।

बूढ़े सचिवों एवं सामन्तों के साथ हम गये और मन्दिर में पूजन करके सफाई दी कि चण्डवर्मा और प्रचण्डवर्मा की मृत्यु में हमारा हाथ नहीं था । वहीं सबके साथ बैठकर बड़ा सा नगाड़ा बजाया । सूक्ष्म सूक्ष्म छेदों से पहुँचे उस पटहशब्द से हमें संकेत हो गया और मूर्तिसहित लौहपीठ को जो किसी हृष्ट पुष्ट शरीरधारी से भी नहीं उठ सकता था हमने दोनों हाथों से उठाकर कन्धे पर रख लिया और कुमारको साथ लेकर निकल पड़े । तदनन्तर हमने नित्य की भांति दुर्गादेवी का यथोचित पूजन किया और किवाड़ खोले । उस समय विश्वास के कारण मुदित दृष्टि वाली एवं रोमांचयुक्त हाथ जोड़े हुए तथा विस्मित

[Page Footer] Nepal Sanskrit University, Balmeeki Campus, Kathmandu