BharatKosha
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 69 of 474

Read in context
Page 69

चतुर्थोच्छ्वासः ] व्याख्योपेतम् । ६६ हृदोऽहममुनैव साकमुज्जयिनीमुपाविशम् । मत्पितरावपि तां पुरीमभिग- मय्य सकलगुणनिलयेन बन्धुपालनाम्ना चन्द्रपालजनकेन नीयमानो माल- वनाथदर्शनं विधाय तदनुमत्या गूढवसतितमकरवम् । ततः काननभूमिषु भवन्तमन्वेष्टुमुद्युक्तं मां परममित्रं बन्धुपालो निशम्यावदत्–'सकलं धर- णितलमपारमन्वेष्टुमक्षमो भवान्मनोग्लानिं विहाय तूष्णीं तिष्ठतु । भव- न्नायकालोकनकारणं शुभशकुनं निरीक्ष्य कथयिष्यामि इति । (११) तल्लपितामृताश्वासितहृदयोऽहमनुदिनं तदुपकण्ठवर्ती कदा- चिदिन्दुमुखीं नवयौवनावलीढावयवां नयनचन्द्रिकां बालचन्द्रिकां नाम तरुणीरत्नं वणिङ्‌मन्दिरलक्ष्मीं मूर्तामिवावलोक्य तदीयलावण्यावधूतधी-

अमुना चन्द्रपालेन । उपाविशं न्यवसम् । मत्पितरौ मदीयां जननी जनकञ्च । तां पुरीमुज्जयिनीम् । अभिगमय्य प्रापय्य । सकलानां सर्वेषां गुणानां शौर्यदाक्षिण्या- दीनां निलय आधारस्तेन । मालवनाथदर्शनं उज्जयिनीपतिसन्दर्शनम् । तदनुम- त्या तस्य मालवनाथस्यानुमत्याऽऽज्ञया । गूढवसतिं गुप्तवासम् । अपारमनन्तम् । अक्षमोऽसमर्थः । मनोग्लानिं निर्वेदम् । भवतस्तव नायकस्य प्रभोरालोकनस्य दर्श- नस्य कारणं निमित्तम् । शुभशकुनं मङ्गलचिह्नम् । (११) तस्य बन्धुपालस्य लपितं भाषितमेवामृतं तेन । आश्वासितं निर्वृतं हृद् स्वान्तं यस्य सः । अहं पुष्पोद्भवः । तस्य बन्धुपालस्य उपकण्ठवर्त्ती समीपवर्त्ती । नवयौवनेन अवलीढा व्याप्ता अवयवा अङ्गानि यस्यास्ताम् । नयनयोर्नेत्रयोःचन्द्रिका ज्योत्स्नारूपिणी ताम् । मूर्ता मूर्त्तिमतीम् । तदीयेन बालचन्द्रिकासम्बन्धिना लाव- ण्येन सौन्दर्येण अवधूतस्तिरस्कृतो धीरभावो धैर्यं यस्य सः । लतान्ता कुसुमानि बाणाः शरा यस्य सः काम इत्यर्थः तस्य बाणलक्ष्यतां शरण्यत्वम् अयासिषमग-

साथ साथ उज्जैन चला गया। कुछ काल के अनन्तर मैं अपने माता पिता को भी वहीं ले आया। सकलगुणनिधान चन्द्रपालके पिता बन्धुपालके साथ मालवेशका दर्शन किया तथा उनकी आज्ञा से उनकी भूमिपर प्रच्छन्नवेश से निवास करने लगा। एकदा वन में आपको खोजते हुए ज्ञातकर मेरे परम मित्र बन्धुपालने कहा-यह भूमंडल अति विशाल है, इसका अन्वेषण करना सर्वथा असम्भव है। अतः आप शान्ति धरकर चुप बैठें। शुभ समय आने पर मैं शुभ शकुन बता दूँगा। तब आप अन्वेषण करें तो सफल होंगे। (११) उसके उन सुधामय वचनोंको सुनकर मेरा चित्त कुछ शान्त हुआ तथा मैं प्रति दिन उसके पास जाने लगा। एक दिन मैंने साक्षात् लक्ष्मीस्वरूपा एक सुन्दरीको जो गृहके समीप रहती थी, देखा। वह अति मनोशा थी। उसके मुखकी शोभा चन्द्रमाके समान थी।