दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 72 of 474
Read in context७२ दशकुमारचरितम् । [ पूर्वपीठिकायां ( १६ ) सा रहस्यसंजातविश्रम्भतया विहाय लज्जाभये शनैरभा- षत—'सौम्य, मानसारो मालवाधीश्वरो वार्धकस्य प्रबलतया निजनन्दनं दर्पसारमुज्जयिन्यामभ्यषिञ्चत् । स कुमारः सप्तसागरपर्यन्तं महीमण्डलं पालयिष्यन्निज पैतृष्वस्रेयावुद्दण्डकर्माणौ चण्डवर्मदारुवर्माणौ धरणीभरणे नियुज्य तपश्चरणाय राजराजगिरिमभ्यगात् । ( १७ ) राज्यं सर्वमसपत्नं शासति चण्डवर्मणि दारुवर्मा मातुला- ग्रजन्मनोः शासनमतिक्रम्य पारदार्यपरद्रव्यापहरणादिदुष्कर्म कुर्वाणो मन्मथसमानस्य भवतो लावण्यात्तचित्तां मामेकदा विलोक्य कन्यादूषण- दोषं दूरीकृत्य बलात्कारेण रन्तुमुद्युङ्क्ते । तच्चिन्तया दैन्यमगच्छम्' इति । ( १६ ) रहस्ये गोप्यविषये संजात उत्पन्नो विश्रम्भो विश्वासो यस्यास्तस्या भावस्तया । वार्धकस्य वृद्धावस्थायाः जराया इति यावत् । प्रबलतया आधिक्येन । सप्त सागराः समुद्राः पर्यन्तः सीमान्तो यस्य तत् । महीमण्डलमित्यस्य विशेषणम् । निजपैतृष्वस्रेयौ-पितृस्वसुरपत्यं पुमानिति पैतृष्वस्रेयः, पितृभगिन्यास्तनयस्तौ । धरणीभरणे राज्यपालने । तपश्चरणाय तपस्यां कर्तुम् । राजराजगिरिं कैलासपर्वतं । राजराजः कुबेरस्तस्य गिरिः कैलासः । राजराजो धनाधिपः' इत्यमरः । ( १७ ) असपत्नं निःशत्रुम् निष्कण्टकमिति यावत् । शासति पालयति सति । मातुलाग्रजन्मनोः दर्पसारचण्डवर्मणोः अतिक्रम्योल्लङ्घ्य । पारदार्यं परदाराभिमर्शः परद्रव्यापहरणं चौर्यं ते आदी यस्य तत् । मन्मथसमानस्य कामसदृशस्य । लाव- ण्येन सौन्दर्येणात्तं गृहीतं चित्तं हृदयं यस्यास्ताम् । कन्याया अपरिणीतायाः दूषणं घर्षणादि तदेव दोषस्तम् । दूरीकृत्य परिहृत्य । उद्युङ्क्ते चेष्टते । ( १६ ) निर्जन प्रदेश होनेसे उसे अवसर प्राप्त हो गया और उसने लज्जा एवं भय छोड़कर धीरे-धीरे कहा—हे सौम्य ! मालवनाथ वृद्ध होनेके कारण राजपाटके कार्योंमें असमर्थ हो गये थे और इन्होंने राज्यसिंहासनपर अपने पुत्र दर्पसारको उज्जैनमें राज्याभि- षेक करके आसीन कर दिया । कुमार दर्पसार इस सप्त-सागरा वसुन्धरापर शासनके विचार से अपने पिताकी बहन के दो धृष्ट पुत्रों ( चण्डवर्मा और दारुवर्मा ) को राज्य-शासन का भार सौंपकर कैलास पर्वतपर तप करने चला गया है । (१७) शत्रुहीन समस्त राज्यका शासन करते हुए चण्डवर्मा सुखसे रहने लगा। दारुवर्मा ममेरे भाई तथा अपने बड़े भाईकी आज्ञाओंका उल्लंघन करके परस्त्री अपहरण तथा परद्र- व्याहरण करता हुआ उपद्रव मचाने लगा । कामदेवके समान सुन्दर आपपर अनुरक्ता मुझे ज्ञातकर वह एक दिन मेरे साथ बलात्कार करनेका यत्न करने लगा-कन्यारमणके पापका उसे ध्यानतक नहीं है । वह इस भयंकर पापको करनेपर उतारू होकर व्यभिचार करना चाहता है । उसी चिन्तासे मैं त्रस्त हूँ ।