दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 74 of 474
Read in context७४ · दशकुमारचरितम् । [ पूर्वपीठिकायां तदनु दारुवर्मा वाक्यानीत्थंविधानि श्रावं श्रावं तूष्णीं यदि भिया स्थास्यति तर्हि वरम्, यदि वा दौर्जन्येन त्वया सङ्गमङ्गीकरिष्यति, तदा स भवदी- यैरित्थं वाच्यः— ( १६ ) 'सौम्य, दर्पसारवसुधाधिपामात्यस्य भवतोऽस्मन्निवासे साहसं करणमनुचितम्। पौरजनसाक्षिकं भवन्मन्दिरमानीतया अनया तोयजाक्ष्या सह क्रीडन्नायुष्मान्यदि भविष्यति तदा परिणीय तरुणीं मनोरथान्निर्विश' इति । सोऽप्येतदङ्गीकरिष्यति । त्वं सखीवेषधारिणा मया सह तस्य मन्दिरं गच्छ । अहमेकान्तनिकेतने मुष्टिज्ञानुपादाघातैस्तं रभसान्निहत्य पुनरपि वयस्यामिषेण भवतीमनु निःशङ्कं निर्गमिष्यामि ! तदेनमुपायम- ङ्गीकृत्य विगतसाध्वसलज्जा भवज्जनकजननीसहोदराणां पुरत आवयोः असकृत् पुनः पुनः । भिया भयेन । यदि वा पक्षान्तरे । दौर्जन्येन दुर्जन्येनतया हेतु- ना । त्वया सहेति शेषः । सङ्गमासक्तिम् । अङ्गीकरिष्यति स्वीकरिष्यति । स दारु- वर्मा । इत्थं वक्ष्यमाणम् । वाच्यः कथनीयः । ( १९ ) दर्पसारवसुधाधिपस्य दर्पसारनृपतेरमात्यस्य मन्त्रिणः । अस्मन्निवासे अस्माकं गृहे । साहसकरणं साहसिककार्यानुष्ठानम् । पौरजनाः साक्षिणो यस्मिंस्तत्तथा तथेति क्रियाविशेषणम् । पुरजनानां समक्षमित्यर्थः । भवतो मन्दिरं गृहम् । तोयजे कमले इवाक्षिणी यस्यास्तया । क्रीडन् विहरन् । आयुष्मान् कुशली । परिणीय वि- बाह्य । निर्विश उपभुंक्ष्व । सोऽपि दारुवर्माऽपि । एतत् यन्मयोक्तमिति भावः । त्वं बालचन्द्रिका । मया पुष्पोद्भवेनेत्यर्थः । तस्य दारुवर्मणः । एकान्तनिकेतने निर्जने गृहे । मुष्ट्या जानुना पादेन च ये आघाताः प्रहारास्तैः । रभसाद् वेगात् । वयस्या- मिषेण सखीव्याजेन । भवतीमनु तव पश्चात् । विगते अपगते साध्वसलज्जे भयत्रपे चाहिये। यदि दारुवर्मा इस बातसे भयान्र्वित हो जाय तो ठीक है। और यदि वह न मानें तथा उत्पति मचावे तो तुम्हारे घरके लोग उससे यह कह दें— ( १९) हे सौम्य ! आप राजा दर्पसारके अमात्य हैं। हमारे गृहपर आपको ऐसा करना अनुचित है। नगरवासियोंके सामने इस पद्मलोचनाको अपने यहां ले जाकर यदि सुखसे रह सकें तो रहें और इसके साथ परिणय भी वहीं कर लें तथा मनोभिलाष पूर्ण करें। वह अवश्य इस बातको स्वीकार कर लेगा तब उस समय सखीके वेषमें मैं तुम्हारे साथ चलूंगा तुम मेरे साथ उसके यहां चलनेको राजी हो जाना। समय पाकर एकान्तमें मैं उसे मुक्कों-लातों-थप्पड़ों आदिके प्रहारोंसे मार डालूंगा। फिर उसी वेषमें तुम्हारी सखीके रूपमें बाहर चला आऊंगा। मेरी इस युक्तिको तुम स्वीकार कर लो और अपने जननी-जनक-भाई आदिसे अपनी प्रगाढ़