BharatKosha
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 76 of 474

Read in context
Page 76

७६ दशकुमारचरितम् । [ पूर्वपीठिकायां ( २१ ) मन्मायोपायवागुरापाशलग्नेन दारुवर्मणा रतिमन्दिरे रन्तुं समाहूता बालचन्द्रिका तं गमिष्यन्ती दूतिकां मन्निकटमभिप्रेषितवती । अहमपि मणिनूपुरमेखलाकङ्कणकटकाताटङ्कहारक्षौमकज्जलं वनितायोग्यं मण्डनजातं निपुणतया तत्तत्स्थानेषु निक्षिप्य सम्यगङ्गीकृतमनोज्ञवेषो चल्लभया तया सह तदागारद्वारोपान्तमगच्छम् । ( २२ ) द्वाःस्थकथितास्मदागमनेन सादरं विहिताभ्युद्गतिना तेन द्वा- रोपान्तनिवारिताशेषपरिवारेण मदन्विता बालचन्द्रिका संकेतागारमनीय- ( २१ ) मन्मायेति—मम मायया कपटेन य उपायः स एव वागुरापाशो बन्ध- नरज्जुस्तत्र लग्नो बद्धस्तेन । मया तस्य विनाशार्थं ये कपटोपाया रचितास्तान् लङ्घि- तुमसमर्थेनेति भावः । तं तत्समीपम् । गमिष्यन्ती प्रस्थास्यमाना । मणिनूपुरो मञ्जीरः, मेखला रशना, कङ्कणकटके वलयभेदौ, ताटङ्कं कर्णभूषणं, हारो मुक्तासरः, क्षौमं दुकूलम्, कज्जलमञ्जनञ्चतत्सर्वं पादादिभूषणम् । वनितायोग्यं स्त्रीजनोचितम् । निपुणतया कौशलेन । तत्तत्स्थानेषु तत्तदङ्गेषु । निक्षिप्य परिधाय । सम्यग् निपुणं यथा स्यात्तथा अङ्गीकृतः स्वीकृतो धृत इति यावत्, मनोज्ञो मनोरमो वेषो येन सः । स्त्रीवेषं विष्टत्येत्यर्थः । वल्लभया प्रियया । तया बालचन्द्रिकया । तदागारेति- तस्य दारुवर्मणः आगारद्वारस्य गृहद्वारस्य उपान्तं समीपम् । (२२) द्वाःस्थेति-द्वास्थैर्द्वारिकः कथितं विज्ञापितं अस्माकमागमनं यस्मै तेन । विहिता कृता अभ्युद्गतिरभ्युत्थानं येन तेन । दारुवर्मणा । द्वारोपान्ते द्वारसमीपे निवारिता रुद्धाः अशेषा निखिलाः परिवाराः परिजना येन तेन । मदन्विता मया अ- न्विता-मत्पुरोवर्त्तिनीत्यर्थः । संकेतागारं पूर्वनिर्दिष्टस्थानम् । अनीयत नीता । अनी- का योग हूं। तत्पश्चात् मेरे पीछे-पीछे बन्धुपाल वहांसे आया और वह अपने घर गया तथा मुझे भी अपने घर जानेकी अनुमति दी। ( २१ ) मेरे युक्तिरूपी मायाजालके पाशोंमें बँधकर वह दारुवर्मा बालचन्द्रिकाके साथ रमण करनेके लिए रतिमन्दिरमें उद्यत हो गया तथा उसने उसे वहांपर बुलाया। जब वह जाने को तैयार हो गयी तब अपनी एक दासी द्वारा उसने मुझे बुलवाया। मैं भी वनि- ताओंके अनुरूप आभूषणोंसे पूर्णरूपेण अलंकृत हो गया अर्थात्—रत्नजटित नूपुर, करधनी, कंकण, विजायत, कनफूल, हार, कण्ठा आदि पहनकर एवं आंखोंमें काजल लगाकर बढ़िया रेशमी वस्त्र धारणकर अपनी सखी बालचन्द्रिकाके साथ मनोज्ञ वेषसे दारुवर्माके विहार- मन्दिरके द्वारतक पहुँचा। ( २२ ) दारुवर्माको द्वारपरसे अपने आनेकी सूचना संकेतसे दे दी। इसपर दारुवर्माने खड़े होकर भीतर-बाहर तथा द्वारके इधर-उधरके लोगोंको वहाँसे हटा दिया। तत्पश्चात् मेरे आगे Nepal Sanskrit University, Balmeeki Campus, Kathmandu