दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 78 of 474
Read in contextCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
७८ दशकुमारचरितम् । [ पूर्वपीठिकायां ( २४ ) ततो रागान्धतया सुमुखीकुचग्रहणे मतिं व्यधत्त । रोषारुणि- तोऽहमेनं पर्यङ्कतलान्निःशङ्को निपात्य मुष्टिज्ञानुपादघातैःप्राहरम् । नियुद्ध- रभसविकलमलंकारं पूर्ववन्मेलयित्वा भयकम्पितां नताङ्गीमुपलालयन्म- न्दिराङ्गणमुपेतः साध्वसकम्पित इवोच्चैरकूजमहम—'हा, बालचन्द्रिका- धिष्ठितेन घोराकारेण यक्षेण दारुवर्मा निहन्यते । सहसा समागच्छत । पश्यतेमम्' इति । ( २५) तदाकर्ण्य मिलिता जनाः समुद्यद्वाष्पा हाहानिनादेन दिशो बधिरयन्तः 'बालचन्द्रिकामधिष्ठितं यक्षं बलवन्तं शृण्वन्नपि दारुवर्मा
( २४ ) तत इति । रागेण कामजनितविषयाभिलाषेण अन्धतया मत्ततया । हेतौ तृतीया । सुमुख्याः सुवदनायाः बालचन्द्रिकायाः कुचयोः स्तनयोः ग्रहणे पीडने । मतिं बुद्धिम अभिलाषमिति यावत् । व्यधत्त अकरोत् । रोषेण क्रोधेन अरुणितः रक्तवर्णः । अहं वक्ता पुष्पोद्भव इत्यर्थः । एनं दारुवर्माणम् । पर्यङ्कतलात् खट्वायाः । मुष्टेः जानुनोः पादयोश्च घातैः प्रहारैः । नियुद्धेति-नियुद्धस्य बाहुयुद्धस्य रभसेन वेगेन विकलं विपर्यस्तम् । अलङ्कारं भूषणम् । मया घृतमिति शेषः । पूर्ववत् प्रा- ग्वि । मेलयित्वा यथास्थानं निवेश्य भयकम्पितां भयेन कम्पवतीम् । नताङ्गीं बालचन्द्रिकाम् । उपलालयन् आश्वासयन् सान्त्वयन् वा । मन्दिरस्य दारुवर्मगृहस्य अङ्गणं चत्वरम् । उपेत उपगतः प्राप्त इत्यर्थः । साध्वसेन भयेन कम्पित इव न तु सत्यमेव कम्पित इति भावः । उच्चैरकूजम्—उच्चैः स्वरेण आक्रन्दम् । आक्रन्दनस्य प्रकार माह—हेत्यादि—हा इति खेदसूचकमव्ययम् । बालचन्द्रिकाम् अधिष्ठितः आक्रम्य स्थितः तेन । घोरो भयङ्करः आकारः स्वरूपं यस्यासौ तेन सहसा सत्वरम् । ( २५ ) मिलिताः तत्र सम्मिलता उपस्थिता इति यावत् । समुद्यद् उद्गच्छद् बाष्पं नेत्रजलं येषां ते । हाहानिनादेन हाहेति शब्देन । दिशः काष्ठाः । द्वितीयाबहु-
(२४) फिर कामपीड़ासे मतवाला वह अन्ध होकर उस सुमुखिके स्तनोंको ग्रहण करनेको उद्यत हुआ । उसकी इस हरकतपर मुझे क्रोध आ गया । निश्शंक होकर मैने लाल-लाल आंखें करके उ ठाकर पलंगके नीचे पटक दिया और घूसों-लातोंके प्रहारोंसे मार डाला । लड़ाईमें मेरे अलंकार अव्यवस्थित हो गये थे उन्हें व्यवस्थित करके भयसे काँपनेवाली उस सखीको प्रीतिसे सान्त्वना देकर मन्दिरके आंगनमें आ पहुँचा । तब भयसे घबरायी हुई आवाजमें मैं चिल्लाने लगा । 'हा, हा, गजब हो गया । बालचन्द्रिकाके सिरपर रहनेवाला भयंकर प्रेत दारुवर्माको मारे डालता है । दौड़ो लोगो, दौड़ो, जल्दी आओ, इस प्रेतको मारो । ( २५ ) मेरी इस चिल्लाहटको सुनकर आँखोंमें आँसुओंको भरे हुए हाहाकार ध्वनिसे दिशाओंको बहिरे करते हुए लोग परस्पर कहने लगे 'इस दारुवर्माके लिए प्रलाप वृथा है। यद्यपि
Nepal Sanskrit University, Balmeeki Campus, Kathmandu