दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 8 of 474
Read in context६ | दशकुमारचरितम् । | पूर्वपीठिकायां (५) विजितामरपुरे पुष्पपुरे निवसत सानन्तभोगलालिता बसुमती वसुमतीव मगधराजेन यथासुखमन्वभावि । (६) तस्य राज्ञः परमविधेया धर्मपालपद्मोद्भवसितवर्मनामधेया धीर- धिषणावधीरितविबुधाचार्यविचार्याकार्यसाहित्याः कुलामात्यास्त्रयोऽभूवन् । (७) तेषां सितवर्मणः सुमतिसत्यवर्माणौ, धर्मपालस्य सुमन्त्रसुमि- त्रकामपालाः, पद्मोद्भवस्य सुश्रुतरत्नोद्भावाविति तनयाः समभूवन् । (८) तेषु धर्मशीलः सत्यवर्मा संसारासारतां बुद्ध्वा तीर्थयात्राभि- लाषी देशान्तरमगमत् । (९) विटनटवारनारीपरायणो दुर्विनीतः कामपालो जनकाग्रजन्मनोः शासनमतिक्रम्य भुवं बभ्राम । (५) विजितं समृद्ध्या तिरस्कृतममरपुरमन्द्रनगरं येन तस्मिन् । अनन्तभो- गेन नानासुखोपभोगेन लालिता पुष्टा । वसुमती पृथिवीव । सापि अनन्तस्य वासुकेः भोगेन फणेन मस्तकेनेति यावत्, लालिता धृता । वसुमती महिषी । मगधराजेन राजहंसेन । अन्वभावि सम्भुक्ता । (६) परमविधेया अतिविनीताः । धीरधिषणया स्वतीक्ष्णबुद्ध्याऽवधीरितानि अवज्ञातानि विबुधाचार्यस्य बृहस्पतेरपि विचार्याणां विचारणीयानां कार्याणां साहि- त्यानि समूहा यैस्ते अतीवगम्भीरबुद्धय इत्यर्थः। कुलामात्या वंशपरम्परागत मन्त्रिणः। (७) तेषां कुलामात्यानां मध्ये । निर्धारणे षष्ठी । (८) संसारस्य असारतां नश्वरतया तुच्छताम् । देशान्तरमन्यदेशम् । (९) विटो धूर्तः नटः शैलूषः, वारनारी वेश्या तासु परायणस्तत्पर आसक्त इत्य- (५) इन्द्रपुरीको भी अपनी सुन्दरतासे जीतनेवाली पुष्पपुरी नगरीमें रहते हुए उस राजा राजहंसने अनन्त (शेषनाग) के भोग (फणों) से लालित (धारण की हुई) पृथ्वीके समान परिमित भोग्य पदार्थोंसे प्रमुदित वसुमती रानीके साथ सुखपूर्वक विहार किया । (६) उन महाराजके परम विनीत, अपनी गम्भीर बुद्धिसे सुरगुरुको भी विचारणीय कार्य साहित्यमें अनादृत करनेवाले धर्मपाल, पद्मोद्भव और सितवर्मा नामके तीन कुल- मन्त्री थे । (७) उन मन्त्रियोंमें सितवर्माके सुमति और सत्यवर्मा, धर्मपालके सुमन्त्र, सुमित्र और कामपाल तथा पद्मोद्भवके सुश्रुत और रत्नोद्भव नामक पुत्र हुए । (८) उन पुत्रोंमेंसे धर्मशील सत्यवर्मा संसारको असार जानकर, तीर्थाटनकी इच्छासे देशान्तरमें चला गया । (९) विट, नट तथा वारविलासिनियों (वेश्याओं) में अनुरागी एवं दुर्विनीत काम- Nepal Sanskrit University, Balmeeki Campus, Kathmandu