BharatKosha
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 81 of 474

Read in context
Page 81

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF पञ्चमोच्छ्वासः (१) अथ मीनकेतनसेनानायकेन मलयगिरिमहीरुहनिरन्तरावासि- भुजङ्गमभुक्तावशिष्टेनेव सूक्ष्मतरेण धृतहरिचन्दनपरिमलभरेणेव मन्दग- तिना दक्षिणानिलेन वियोगिहृदयस्थं मन्मथानलमुज्ज्वलयन्, सहकारकि- सलयमकरन्दास्वादनरक्तकण्ठानां मधुकरकलकण्ठानां काकलीकलकलेन दिक् चक्रं वाचालयन्, मानिनीमानसोत्कलिकामपनयन्, माकन्दसिन्दुवार- (१) अथेति । अथानन्तरं वसन्तसमयः समाजगामेत्यग्रिमेणान्वयः। मीनेति- मीनकेतनस्य कामस्य सेनायाः सैन्यस्य नायकः प्रधानवीरः सेनापतिरित्यर्थः, तेन । मलया निलस्य अत्यन्तकामोद्दीपकत्वाद्नायकत्वमुक्तम् । मलयगिरेर्मलयपर्वतस्य म- हीरुहेषु वृक्षेषु निरन्तरं निरवच्छिन्नं निबिडमिति यावत्, आवासिनां वासं कुर्वतां भुजङ्गमानां सर्पाणां भुक्तस्य खादितस्यावशिष्टेन अतिरिक्तनेव, अत एव सूक्ष्मतरेण मन्दतरेण । भुजङ्गमानां पवनाशनत्वाद् यावान् वायुर्मलयाचलाच्चलितस्तस्य प्रचु- रोंऽशस्तैः खादितस्ततोऽवशिष्टः अत एव मन्दतर इति भावः । मन्दतरत्वे हेतुरुत्प्रेक्षि- तः । धृतेति- धृतः स्वीकृतो हरिचन्दनस्य वृक्षविशेषस्य परिमलभर आमोदातिशयो येन तेनेव मन्दगतिना धीरेण । भाराक्रान्तत्वं मन्दगतित्वे हेतुः स चोत्प्रेक्षितः । गृ- हीतभारस्य मन्दगतित्वञ्च स्वभावसिद्धम् । दक्षिणानिलेन मलयवायुना करणेन । वि- योगिनां विरहिणां हृदयेषु चित्तेषु तिष्ठतीति वियोगिहृदयस्थं विरहिहृद्गतम् । म- न्मथानलं कामाग्निम् । उज्ज्वलयन् उद्दीपयन्-उज्ज्वलयन्नित्यादि शत्रन्तपदानि वसन्तसमय इत्यस्य विशेषणानि, सहकारेति - सहकाराणामाम्रतरूणां किसलयम- करन्दयोः पल्लवपुष्परसयोः स्वादनेन भक्षणेन रक्तो मधुररागयुक्त इति यावत् कण्ठ- स्वरो येषां तेषाम् । मधुकरा भ्रमराश्च कलकण्ठाः कोकिलाश्च ते तेषाम् । काकली- कलकलेन काकलीकोलाहलेन । दिशां चक्रं मण्डलम् । वाचालयन् मुखरयन् । मानि- नीनां मानवतीनां मानसस्य मनस उत्कलिकामुकण्ठामू । अपनयन् प्रापयन् । माक- न्दः सहकारश्च सिन्दुवारो निर्गुण्डी च रक्ताशोकश्च किंशुकः पलाशश्च तिलकस्तिल- (१) अनन्तर कुछ समय बाद वसन्त ऋतु आकर उपस्थित हो गयी जिसका सेनाधिप स्वयं मीनकेतन कामदेव था । मलय पर्वतपरके चन्दनके वृक्षोंपर निवास करनेवाले साँपोंके पीनेसे अवशिष्ट तथा चन्दनकी सुगन्धसे मिश्रित पवन शनैः शनैः चलता हुआ दक्षिण पवन के साथ विरहियोंके अन्तःकरणोंमें कामोद्दीपन कर रहा था। आमकी मञ्जरियोंके परागोंका आस्वादन कर लाल कण्ठवाले कोकिलोंकी मधुर ध्वनिसे तथा भ्रमरोंकी गुञ्जारोंसे कामदेवने दिशाओंको मुखरित कर दिया था और मानिनी अंगनाओंके हृदयोंको उत्कण्ठित कर दिया था । आम, निर्गुण्डी, रक्ताशोक, पलाश तथा तिलकादि वृक्षोंको अंकुरित करके मदन- ६ द० कृ० पू० Nepal Sanskrit University, Balmeeki Campus, Kathmandu