दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 84 of 474
Read in context८४ दशकुमारचरितम् । [ पूर्वपीठिकायां (५) या वसन्तसहायेन समुत्सुकतया रतेः केलीशालभञ्जिकाविधि- त्सया कञ्चन नारीविशेषं विरच्यात्मनः क्रीडाकासारशारदारविन्दसौन्द- र्येण पादद्वयम् , उद्यानवनदीर्घिकामत्तमरालिकागमनरीत्या लीलालसग- तिविलासम् , तूणीरलावण्येन जङ्घे, लीलामन्दिरद्वारकदलीलालित्येन मनोज्ञमूरुयुगम्, जैत्ररथचातुर्येण घनं जघनम्, किञ्चिद्विकसल्लीलाव- तंसकह्लारकोरककोटरानुवृत्त्या गङ्गावर्तसनाभिं नाभिम् , सौधारोहणपरि- ( ५ ) या अवन्तिसुन्दरी निर्मितेव रराजेत्यग्रिमेणान्वयः । वसन्तः सहायो यस्य तेन कामेनेत्यर्थः । समुत्सुकतया रत्यर्थमुत्कण्ठिततया । रतेः स्वपत्न्याः । केली क्री- डा तदर्थं या शालभञ्जिका कृत्रिमपुत्रिका तस्याः विधित्सा निर्मातुमिच्छा तया । क- ञ्चनेति अनिर्वचनीयमित्यर्थः । विरच्य निर्माय । आत्मनः स्वस्य । क्रीडाकासारे वि- हारसरसि यत् शारदं शरत्कालसम्बन्धि अरविन्दं कमलं तस्य सौन्दर्येण कान्त्या । कासारारविन्देति पाठान्तरम् । तत्र सारं सारभूतं यदरविन्दमित्यर्थः । तेन पादद्वयं च- रणयुगलं नारीविशेषस्येति शेषः । विधायेत्यग्रिमेणान्वयः । एवमग्रेऽपि सर्वत्र । उ- द्यानवने उपवने या दीर्घिका वापी तस्यां या मत्तमरालिका हंसी तस्याः गमनरीति- र्गतिपरिपाटी तया । लीलया विलासेनालसं मन्दं गतिविलासं गमनप्रकारम् । मरा- लवन्मन्दगमनेति भावः । तूणीराविषुधो तयोर्लावण्येन सौन्दर्येण जङ्घे—तूणाकारं जङ्घाद्वयमित्यर्थः । लीलामन्दिरस्य मदनक्रीडागृहस्य द्वारे या कदली रम्भातरुस्त- स्या लालित्येन सौन्दर्येण जैत्रो जयनशीलो रथो जैत्ररथः कामस्येति शेषः । तस्य चातुर्येण निर्माणपरिपाट्या । घनं निविडम् । किञ्चिद्दीपद् विकसन् प्रस्फुटन् लीलाव- तंसः विलासकर्णभूषणं यः कह्लारकोरकः सौगन्धिककलिका तस्य कोटर मध्यदेशस्त- कृशोदरी अवन्तिसुन्दरीके सन्निकट जाकर उपस्थित हो गये । (५) अवन्तिसुन्दरीकी शोभा उस समय निम्नरीत्या थी। जैसे कामदेवने अपनी प्रिया रति देवीके क्रीडनार्थ एक पुत्तलिका रची हो-उस पुत्तलिकाके बनानेमें कामदेवने ऐसी दक्षता की कि उसके दोनों चरण उसने अपने क्रीडासरोवरके शरत्कालिक कमलोंकी शोभासे निर्मित किये—अर्थात् उसके दोनों पैर शारदीय कमलके सदृश थे । अपनी वाटिकाकी बावलीमें मदोन्मत्ता होकर भ्रमणशीला हंसिनीकी गतिसे उसकी अलासायी चाल रची-वह अलसाकर हंसकी चालसे चलनेवाली थी । उसकी दोनों जाँघें अपने तूणीर (तरकस) की छविके सदृश बनायीं । अपने लीलामन्दिरके दरवाजेपर लगे हुए केलोंकी छटाको एकत्र कर दोनों घुटने रचे तथा जैत्ररथकी कान्तिसे युक्त उसके जघनस्थल । कामदेवकी स्त्री रतिके कानोंमें अलंकृत कमलोंकी कलिकाके समान शोभाशाली थोड़े थोड़े विकसित लीलावत्तंस कर्णभूषण। गङ्गाजीके आवर्त्त (भौरों) के समान गम्भीर उसकी नाभि रची। ऊपर अट्टालिकापर चढ़नेके लिए सो-