BharatKosha
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

Page 87 of 474

Read in context
Page 87

लज्जया कानि कान्यपि भावान्तराणि व्यधत्त । (७) 'ललनाजनं सृजता विधात्रा नूनमेषा घुणाक्षरन्यायेन निर्मि- ता । नो चेदब्जभूरेवंविधो निर्माणनिपुणो यदि स्यात्तर्हि तत्समानलाव- ण्यामन्या तरुणीं किं न करोति' इति सविस्मयानुरागं विलोकयतस्तस्य समक्षं स्थातुं लज्जिता सती किञ्चित्सखीजनान्तरितगात्रा तन्नयनाभिमुखैः किञ्चिदाकुञ्चितैरञ्चितभ्रूलतैरापाङ्गवीक्षितैरात्मनः कुरङ्गस्यानायमानलावण्यं

विश्वासोऽनुरागविशेषस्तस्मात् । कानि कान्यपि अनिर्वचनीयानीत्यर्थः । भावान्त- राणि तदवस्थासमुचितान् नानाभावान् । (७) ललनाजनमित्यादि न करोतीत्यन्तं विलोकयतः इत्यस्याः क्रियायाः कर्म । न करोतीत्येतत्पर्यन्ता राजवाहनस्य चिन्ता । एषा अवन्तिसुन्दरी । घुणाक्षरन्यायेन काकतालीयसंयोगन्यायेन । घुणः प्रसिद्धः काष्ठकीटो यदृच्छया काष्ठं भिन्दन् सञ्च- रति—तथा तस्य सञ्चारेण काष्ठे कदाचिदक्षराकाराणि चिह्नानि जायन्ते । अयमेव घुणाक्षरन्यायः । यथा घुणः अविद्वित्वैव अक्षराणि निर्माति तथैव इयमपि अविदि- त्त्वैव विधातृहस्तान्निर्गता । नो चेत्—अन्यथा । अब्जाद्भवतीति अब्जभूब्ब्रह्मा । एवं- विधाय। अवन्तिसुन्दरीसदृश्या निर्मागे सृष्टौ निपुणः कुशलः । तस्याः समानं तुल्यं लावण्यं सौन्दर्य यस्यास्ताम् । अन्यामपराम् । किं कथम् । सविस्मयानुरागं विलो- कयत इति क्रियाया विशेषणम् । विस्मयेनानुरागेण चेत्यर्थः । तस्य राजवाहनस्य । समक्षं पुरस्तात् । किञ्चिददीषत् सखीजनेन सहचर्य्या अन्तरितं व्यवहितं गात्रं शरीरं यस्याः सा तथाभूता । तस्य राजवाहनस्य नयनयोर्न्नेत्रयोरभिमुखैः सम्मुखवर्त्तिभिः किञ्चिदाकुञ्चितैर्रीषत्संक्षिप्तैः । अञ्चिते शोभिते भ्रूलते यैस्तैः । अपाङ्गवीक्षितैः कटा- क्षैः । आत्मनः कुरङ्गस्य कुरङ्गभूतस्य आत्मनः इत्यर्थः । आनयो जालं तदिबाचर- तीति आनायमानं लावण्यं यस्येति विग्रहः । यथा कश्चिद् आनाये कुरङ्गं बध्नाति

हुई लताके सदृश कांपने लगी । फिर लज्जाके कारण उसने अपनी सखियोंके साथ-खेला बन्द कर दिया तथा न मालूम एक ओर बैठकर क्या क्या सोच-विचार करने लगी । (७) उसकी ऐसी प्रतिमा देखकर ऐसा ज्ञात हुआ कि, जब ब्रह्मदेव, सृष्टिमें स्त्रियोंकी रचना करने लगे तब घुणाक्षरन्यायसे यह सुन्दरी बन गयी, अन्यथा इसके समान और स्त्रियां क्यों नहीं उन्होंने रचीं । यदि वे ऐसी रचना कर सकनेमें प्रवीण होते, तब न करते ! यह तो धोखेसे बन गयी, ब्रह्माजीने जानकर नहीं रची । नहीं तो और तरुणियां वे अवश्य बनाते । आश्चर्य और प्रीतिपूर्वक बार-बार राजवाहनको अवलोकित करनेवाली वह राजकुमारी वहां- पर अधिक न बैठ सकी । बल्कि कुछ दूर हटकर अपनी सखियोंके पीछे आड़में होकर राज- वाहनकी भुकुटियोंको देखती हुई बैठी । उस समय उसे ऐसा मालूम होता था कि राजवा-