दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
Page 92 of 474
Read in context६२ दशकुमारचरितम्। [ पूर्वपीठिकायां करुणाकृष्टचेतास्तमवदत्—'राजन्, इह जन्मनि भवतः शापफलाभावो भवतु । मद्वचनस्यामोघतया भाविनि जनने शरीरान्तरं गतायाः अस्याः सरसिजाक्ष्या रसेन रमणो भूत्वा मुहूर्त्तद्वयं मच्छरणयुगलबन्धकारितया मासद्वयं शृङ्खलानिगडितचरणो रमणीवियोगविषादमनुभूय पश्चादनेक- कालं वल्लभया सह राज्यसुखं लभस्व' इति । (१४) तदनु जातिस्मरत्वमपि तयोरन्वगृह्णात् । 'तस्मान्मरालबन्धनं न करणीयं त्वया' इति । सापि भर्तृदारिका तद्वचनाकर्णनाभिज्ञातस्वपुरा- तनजननवृत्तान्ता 'नूनमयं मत्प्राणवल्लभः' इति मनसि जानती रागपल्ल- वितमानसा समन्दहासमवोचत्—'सौम्य, पुरा शाम्बो यज्ञवतीसन्देशपरि- पालनाय तथाविधं हंसबन्धनमकार्षीत् । तथा हि लोके पण्डिता अपि दाक्षिण्येनाकार्यं कुर्वन्ति' इति । कन्याकुमारावेवमन्योन्यपुरातनजनन- भविष्यति । जनने जन्मनि । ( जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भव इत्यमरः ) । शरीरान्तरङ्गतायाः अन्यदेहं प्राप्तायाः। रसेन अनुरागेण । रमणो वल्लभः। मुहू- र्त्तैति-त्वया तु मुहूर्त्तद्वयमेव मच्छरणयुगलस्य बन्धनं कृतं तेन पुनर्मासद्वयं तत्फलं त्वया भोक्तव्यमित्यर्थः । शृङ्खलया निगडितौ बद्धौ चरणौ यस्य सः । अनेककालं दीर्घकालं यावत् । (१४) अन्वगृह्णात् अनुज्ञातवान् । तद्वचनस्य राजवाहनवाक्यस्य आकर्णनेन श्रवणेन अभिज्ञातः स्मृतः स्वपुरातनजननस्य निजपूर्वजन्मनो वृत्तान्तो यया सा । रागेणानुरागेण पल्लवितं प्रफुल्लं मानसं यस्याः सा । दाक्षिण्येन परच्छन्दानुरोधेन । अकार्यमनुचितम् । कन्याकुमारौ अवन्तिसुन्दरीराजवाहनौ । एवमित्थम् । अन्यो- होगा । उस समय तुम दोनोंको इस जीवनकी स्मृति भी बनी रहेगी तथा मुझे दो मुहूर्त्त बाँधा है अतः तुम्हें दो मास शृङ्खलाबद्ध होकर रमणीवियोग अवश्य सहना पड़ेगा । तत्पश्चात् उस रमणीके साथ अति कालतक राज्यसुख भोगोगे । (१४) फिर तुरत ही उन तपस्वीने एक और वरदान देकर कहा 'जाओ तुम लोगोंको जाति-स्मरत्व' रहे ( पूर्वजन्मकी बात याद रहे )। अतः हे राजपुत्री ! आपसे कहता हूँ कि आप राजहंसको न बाँधें । राजकुमारीको भी राजकुमारकी बातें सुन- कर पूर्व जीवनकी स्मृति हो आई और दृढ़ प्रतीति हो गयी कि ये ही मेरे प्राणप्रिय उस जीवनके हैं । निश्चयानन्तर उसका मुख-कमल विकसित हो गया तथा वह प्रेमसे हँसकर कहने लगी-हे सौम्य ! उस समय राजा शाम्बने रानी यज्ञवतीके आदेशानुसार राजहंसको पकड़कर बाँधा था । इससे विदित होता है कि