गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
by आचार्य सोढल
Page 163 of 286
Read in context५.] गदनिग्रहः । १४५ पचेत्तुलां शुद्धगुडस्य दत्त्वा पृथक्सतैलात्कुडवं घृताच्च । चूर्णं च तावन्मगधोद्भवाना मनेकरोगौघमथाशु हन्यात् ॥६४॥ तद्राजयक्ष्मग्रहणीप्रदोषशोफाग्निमान्द्यस्वर भेदकासान् । पाण्ड्वामयश्वासशिरोऽक्षिरोगान्हृद्रोगहिक्काविषमज्वरांश्च ॥ ६५ ॥ मेधाबलोत्साहमतिप्रदं च चकार चैतद्भगवानगस्त्यः । कासे द्वितीयोऽगस्त्यहरीतक्यवलेहः । दशमूलीं स्वयङ्गुप्तां शङ्खपुष्पीं शठीं बलाम् । हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ॥ ६६ ॥ भार्गीं पुष्करमूलं च द्विपलांशान् यवाढकम् । हरीतकीशतं चैकं जले पञ्चाढके पचेत् ॥ ६७ ॥ यवैः स्विन्नैः कषायं तं पूतं तच्चाभयाशतम् । पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात् ॥ ६८ ॥ तैलाच्च पिप्पलीचूर्णात्सिद्धे शीते च माक्षिकात् । कुडवं, पलमानं च चतुर्जातं समावपेत् ॥ ६९ ॥ लेिह्याद्वे चाभये नित्यं ततः खादेद्रसायनात् । वलीं च पलितं हन्याद्वर्णाग्निबलवर्धनम् ॥ ७० ॥ पञ्च कासान् क्षयं श्वासं सहिध्मं विषमज्वरम् । गुल्ममेहग्रहण्यर्शोहृद्रोगारुचिपीनसान् ॥ ७१ ॥ अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम् । यथोद्दिष्टान् गुणं कुर्वन्निचं चेत्कुरुते यदि ॥ ७२ ॥ तदा सायं गुडो योज्य एष एवाल्पमात्रया । पादशेषे कषायेऽत्र स्विन्ना विद्याद्धरीतकीः ॥ ७३ ॥ भर्जितास्तिलतैलस्य कुडवे गोघृतस्य वा । पचेत्ताम्रमये पात्रे आपाकाल्लोहितोदयात् ॥ ७४ ॥ सङ्ख्या फलानां शतश्चातुर्जातं पृथक्पलम् । बद्ध्वा पोटलके पथ्या यवान् स्विन्नांश्च कारयेत् ॥ ७५ ॥ १३