BharatKosha
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

by महर्षि वात्स्यायन / यशोधर इन्द्रपाद

DevanagariSanskritpublished353 pages

Page 238 of 353

Read in context
Page 238

२ अध्याये ] परिचयकारणप्रकरणम् । २३१

द्वितीयोऽध्यायः ।

क्रियया परिवृंहितेत्युक्तं तां क्रियां दर्शयितुमाह—

यथा कन्या स्वयमभियोगसाध्या न तथा दूत्या, परस्त्रियस्तु सूक्ष्मभावा दूतीसाध्या न तथाऽऽत्मनेत्याचार्याः ॥ १ ॥

यथेति । अभियोगसाध्ये द्वे नायिके, कन्या परयोषित् च, अभियोगो द्विविधः-आत्मना दूत्या च, अत्राचार्याणां मतं, यथा कन्येति । कन्यानामसम्प्रयुक्तत्वात्तासु प्रायेण युक्त्याऽभियोगाः, तांश्च नायक एव प्रयोक्तं शक्नोति न दूती, एवं च तास्वेकपुरुषाभियोगा उक्ताः, सूक्ष्मभावा इति । प्रवृत्तसंप्रयोगत्वात्परपुरुषसंदर्शनमपि न सम्भवति, किमु तस्मिन्भावप्रकाशनं, दूत्यामुभयं सम्भवति, तस्माद् दूत्यैव साध्या इति ॥ १ ॥

सर्वत्र शक्तिविषये स्वयं साधनमुपपन्नतरकं दुरुपपादत्वात्तस्य दूतीप्रयोग इति वात्स्यायनः ॥ २ ॥

सर्वत्रेति । कन्यासु परस्त्रीषु चेति, शक्तिविषय इति । यत्र स्वयमभियोक्तुं शक्नोति, उपपन्नतरकं, दूतीसाधनात्, तस्येति । स्वयमभियोगस्य, दुरुपपादत्वादिति । यत्र दुःखेनोपपाद्यते तत्र दूतीप्रयोगः ॥२॥

तदेव प्रायोवादेन दर्शयन्नाह—

प्रथमसाहसा अनियन्त्रणसम्भाषाश्च स्वयं प्रतार्याः, तद्विपरीताश्च दूत्येति प्रायोवादः ॥ ३ ॥

प्रथमेति । प्रथमं साहसं चारित्रखण्डनं यासां, तासु नायक एव समर्थो न दूती, अनियन्त्रणमनिषिद्धं सम्भाषणं यासां, नायकेन सह तास्वपि किं दूत्येति, स्वयं प्रतार्या इति । स्वयमुपपन्नतरकत्वं प्रदर्शयति, दुरुपपादस्त्वमाह—तद्विपरीता इति । बहुशः खण्डितचारित्रा नियन्त्रणसम्भाषिण्यः ॥ ३ ॥

ननु प्रथमसाहसायां गमनं प्रतिषिद्धं, विषयस्याशुद्धत्वात्, सत्यं; शरीरोपघातत्राणार्थमुक्तं, स्वयमभियोगस्तु न परिचयं विनेति, परिचयकारणान्युच्यन्ते, यदाह—

स्वयमभियोक्ष्यमाणस्त्वादावेव परिचयं कुर्यात् ॥ ४ ॥

अभियोक्ष्यमाणोऽभियोगं करिष्यन् ॥ ४ ॥

परिचयश्च संदर्शनपूर्वकः, संदर्शनं च द्विविधमित्याह—

तस्याः स्वाभाविकं दर्शनं प्रायत्निकं च ॥ ५ ॥ ॥ ५ ॥

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित) · Page 238 of 353 · BharatKosha