कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 1052 of 1079
Read in context९९ कथासरित्सागर एकदा चाययौ तस्या राजपुत्र्यास्तमाश्रमम्। प्रव्राजिकैका भ्राम्यन्ती कौमारब्रह्मचारिणी ॥१५५॥ सा तयाभ्यर्चिता हेमप्रभया स्वकथान्तरम्। प्रव्रज्याकारणं पृष्ट्वा बालप्रव्राजिकाब्रवीत् ॥१५६॥ संवाहयन्ती चरणावहं कन्या सती पितुः। सीदत्करमुगाभूवं निद्राकुञ्चितलोचना ॥१५७॥ किं निद्रासीति पादेन ततः पित्राद्रुमाहता। तन्मन्युना प्रव्रजिता निर्गत्यैवास्मि तद्गृहात् ॥१५८॥ इति प्रव्राजिकामुक्तवतीं हेमप्रभाथ सा। समानशीलप्रीतां तां वनवाससखीं व्यधात् ॥१५९॥ एकदा तामवोचत् सा प्रात प्रव्राजिकां सखीम्। सखि स्वप्नेऽद्य जाह्नव्युत्तीर्णा विपुलां नदीम् ॥१६०॥ आरूढाऽस्मि ततः श्वेतगजं तदनु पर्वतम्। तत्राश्रमे मया दृष्टो भगवानम्बिकापतिः ॥१६१॥ तदग्रे प्राप्य वीणां च गायन्त्यहमवादयम्। ततोऽद्राक्षं च पुरुषं दिव्याकारमुपागतम् ॥१६२॥ तं दृष्ट्वा च त्वया साकमहमुत्पतिता नभः। इत्यहं दृष्ट्वा प्रबुद्धास्मि व्यतिक्रान्ता च यामिनी ॥१६३॥ एतच्छ्रुत्वैव तां हेमप्रभामाह स्म सा सखी। शापावतीर्णा कापि त्वं दिव्या कल्याणि निश्चितम् ॥१६४॥ प्रत्यासन्नं च शापान्तं तव स्वप्नो यदयसौ। श्रुत्वैतदभ्यनन्दत् सा राजपुत्री सखीवचः ॥१६५॥ ततो भूयिष्ठमुदिते जगद्दीपे दिवाकरे। आययौ तुरगारूढो राजपुत्रोऽत्र कश्चन ॥१६६॥ स तां हेमप्रभां दृष्ट्वा तापसीवेषधारिणीम्। जातप्रीतिरुपागत्य नम्रश्च मुक्तवाहनः ॥१६७॥ सापि तं रञ्जितातिथ्या कृतासनपरिग्रहम्। सञ्जातप्रणयाप्राक्षीन् महात्मन्को भवानिति ॥१६८॥ राजपुत्रोऽथ सोऽवादीन्महाभागे महीपतिः। प्रतापसेन इत्यस्ति शुभनामानुकीर्तनः ॥१६९॥