कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 149 of 1079
Read in context१२६ कथासरित्सागर सापि संमोह्य पितरं प्राग्वद्रूपधिया पतिम्। तमभ्यगात् पतिहितादन्यत् साध्व्यो न जानते ॥१९४॥ ततस्तया समं शृङ्गभुजः पत्न्या स सत्वरम्। आश्चर्यतुरगारूढो वर्धमानपुरं ययौ ॥१९५॥ तत्र बुद्ध्वा तमायान्तं युक्तं शृङ्गभुजं तया। पिता वीरभुजस्तस्य हृष्टोऽग्रे निर्ययौ नृपः ॥१९६॥ स दृष्ट्वा शोभितं बध्वा तं शौरिमिव भामया। प्राप्तां तदा नवां मेने नरेन्द्रो राज्यसम्पदम् ॥१९७॥ अश्वावतीर्णमेनं च पादलग्नं सवल्लभम्। उत्थाप्यालिङ्ग्य तनयं हर्षबाष्पाम्बु बिभ्रता ॥१९८॥ वधूप्रवेशकृतोदार निर्विच्छन्नममङ्गलः¹। प्रावेशयद्राजधानीं स ततो विहितोत्सवः ॥१९९॥ क्व गतोऽभूस्त्वमित्यत्र तेन पृष्टः सुतोऽथ सः। निजमाद्यन्तं शृङ्गभुजो वृत्तान्तमब्रवीत् ॥२००॥ आहूय तत्समक्षं च भ्रातृभ्यस्तत्समर्पयत्। स निर्वासभुजादिभ्यस्तेभ्यो हेममयं शरम् ॥२०१॥ तच्छ्रुत्वा च दृष्ट्वा च तेषु वीरभुजो नृपः। व्यरज्यत्सर्व्वेषु सुतेष्वेकं मेने च तं सुतम् ॥२०२॥ अथ स राजा मतिमान् सम्यगेवमचिन्तयत्। ज्ञातं यथैष विद्वेष्यादमूद्भिः प्रवासितः ॥२०३॥ पापैर्निरपराधोऽपि शत्रुभिर्भ्रातृनामभिः। तथैव नूनमेतेषां जननीभिर्मम प्रिया ॥२०४॥ मातास्य सा गुणवरा निर्दोषा दूषिता मृषा। तत्किं चिरेण पश्यामि यावदद्यैव निश्चयम् ॥२०५॥ इत्यालोच्य यथासद्दिनं नीत्वाभ्यगाद्भिशि। जिज्ञासुरयशोलेखां राज्ञीं तां स नृपोजशराम् ॥२०६॥ तदभ्यागमहृष्टा सा मद्यं तेनातिपायिता। रतान्तसुप्ता व्यस्पन्दामि तस्मिन् सजागरे ॥२०७॥ मिथ्या गुणवरायाश्चेत्साऽवदिष्याम दूषणम्। तत्किमेवमुपायास्यदयं राजा मामिह ॥२०८॥ १ निर्विन् निर्द्वन्द्व तस्यान्न राजननेव मङ्गलम्।