कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 171 of 1079
Read in context१४६ कथासरित्सागर मघामिवृष्टात्तस्माच्च वटशाखावलम्बिनः। मानुपास्थिकरङ्काद्ये न्यपतस्तोयबिन्दवः ॥९२॥ नद्यास्तीर्थजले तस्यास्त्वभ्यस्तानि ददर्श सः। जायमानानि पद्मानि सौवर्णानि क्षणाद् भिषक ॥९३॥ अहो किमिदमाश्चर्यं क पृच्छाम्यजन वन। यदि वा वद कः सर्ग बह्वाश्चर्यमय विधेः ॥९४॥ दृष्टस्तावन्मया सोऽथ कनकाम्भोरुहाकरः। तदेतत् प्रक्षिपाम्यत्र तीर्थे नरकलेवरम् ॥९५॥ धर्मोऽस्तु यत्पुष्ठे व जायन्तामम्बुजानि वा। इत्यालोच्य स वृक्षाग्रात् ततं कङ्कालमक्षिपत् ॥९६॥ नीत्वा च तद्दिनं तत्र सिद्धकार्योऽपरेऽहनि। प्रत्यावत्तिष्ट स ततो भिषग्देशं निजं प्रति ॥९७॥ दिनै कतिपयै प्राप तद्विलासपुरं च सः। तस्याज्रस्य निकटं राज्ञोऽम्बुकुशभूसुरः ॥९८॥ द्वाःस्थेनावेदितो यावत्प्रविश्य धरणीनतः। स पृष्टकुशलो राज्ञा वृत्तान्तं वक्ति स भिषक ॥९९॥ तावत्स विजनं कृत्वा राजा तं स्वयमभ्यधात्। दृष्टं हुमाम्बुजोत्पत्तिस्थानं तद्वभवता सखे ॥१००॥ तत्क्षेत्रमुत्तमं चैव तत्र दृष्टस्त्वया च सः। करङ्को वटवृक्षे तां प्राक्तनीं विद्धि मे तनुम् ॥१०१॥ तदूर्ध्वपादेन मया लम्बमानेन कुर्वता। तपस्तत्र पुरा त्यक्तमुपशोध्य कलेवरम् ॥१०२॥ तपसस्तस्य माहात्म्यात्करङ्कात् प्रच्युतैस्ततः। मघाम्बुभिस्ते जायन्ते पद्मास्तत्र हिरण्मयाः ॥१०३॥ स करङ्कश्च यत्क्षिप्तस्तीर्थे तत्र मम त्वया। युक्तं तद्विहितं त्वं हि मित्रं मे पूर्वजन्मनि ॥१०४॥ एष भेषजचन्द्रश्च तथाऽसौ पद्मदर्शनः। एतावपि च तज्जन्मसङ्गतौ सुहृदौ मम ॥१०५॥ यत्तस्य तपसो मित्र प्राक्तनस्य प्रभावतः। जातिस्मरत्वं ज्ञानं च राज्यं चोपगतं मम ॥१०६॥