कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 187 of 1079
Read in context१६२ कथासरित्सागर तन्मयावश्यगन्तव्यं प्राप्तुं तां राजकन्यकाम्। इत्युक्त्वा स हयारूढः प्रतस्थे तत्क्षणं ततः ॥२७॥ अन्वगात् स च तं तूष्णीमनिच्छन्नपि गोमुखः। अकुर्वन् वचनं भृत्योनुगम्यः परं प्रभुः ॥२८॥ तावद्वत्सेश्वरोऽप्यागात् कृताखेटो निजां पुरीम्। मन्वानः स तमायान्तं सुतं स्वबलमध्यगम् ॥२९॥ स्वबलं तच्च तस्यागात् मरुभूत्यादिभिः सह। पुरीं तामेव मत्वा तं सैन्यमध्यस्थितं प्रभुम् ॥३०॥ तत्र प्राप्ता विचिन्वन्तस्ते बुद्ध्वा तमनागतम्। वत्सेश्वरादयो जग्मुः सर्वे रत्नप्रभान्तिकम् ॥३१॥ सा चादौ तच्छ्रुतवार्ता ध्यात्वा निजविद्यया। आख्यातमितोदन्ता खिन्नं श्वशुरमब्रवीत् ॥३२॥ कर्पूरिकां राजसुतां तापस्या कथितां वने। आर्यपुत्रो गतः प्राप्तुं पुरं कर्पूरसम्भवम् ॥३३॥ शीघ्रं च कृतकार्यं सन्निहैष्यति सगोमुखः। तदलं चिन्तयैतद्धि विद्यातोऽधिगतं मया ॥३४॥ इत्युक्त्वाऽश्वासयत्सा तं वत्सेशं सपरिच्छदम्। रत्नप्रभा या विद्यां च भर्तुः प्रायुङ्क्त तस्य सा ॥३५॥ नरवाहनदत्तस्य पथि क्लेशोपशान्तये। नेर्ष्या भर्तृहितैषिण्यो गणयन्ति हि सुस्त्रियः ॥३६॥ तावच्च दूरमध्वानं स ययौ वाजिपृष्ठगः। नरवाहनदत्तोऽस्यामटव्यां गोमुखान्वितः ॥३७॥ अथाकस्मादुपेतयात्र कुमारी पथ्युवाच तम्। अहं मायावती नाम विद्या रत्नप्रभेरिता ॥३८॥ रक्षाम्यदृश्या मार्गे त्वां निश्चिन्तस्तद्व्रजाधुना। इत्युक्त्वा रूपिणी विद्या तिरोऽभूत् साऽस्य पश्यतः ॥३९॥ तत्प्रभावात् ततः शान्तक्षुत्तृष्णः पथि स व्रजन्। नरवाहनदत्तस्तां स्तुवन् रत्नप्रभां प्रियाम् ॥४०॥ सायं स्वच्छसरः प्राप्य वने स्वादुतरैः फलैः। जलैश्चाहारपानादि स्नातश्चक्रे सगोमुखः ॥४१॥