कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 201 of 1079
Read in context१७४ कथासरित्सागर
तस्थौ च वार्तामन्विच्छन् सततं पुत्रयोस्तयोः । तन्मात्रा सह दुःखार्त्तो धर्मसक्तोऽम्बिकां स्मरन् ॥११६॥ तावच्च राजपुत्रस्य तपसा सानुजस्य सा। घस्येन्दीवरसेनस्य तुष्टाऽभूद्विन्ध्यवासिनी ॥११७॥ दत्त्वा च खड्गं स्वप्ने सा साक्षादेव समादिशत् । अस्य प्रभावात् खड्गस्य शत्रूञ्जेष्यसि दुर्जयान् ॥११८॥ चिन्तयिष्यसि यत्किञ्चित् तच्च सम्पत्स्यते तव । द्वावप्येतेन च युवामिष्टसिद्धिंमवाप्स्यथः ॥११९॥ इत्युक्त्वान्तर्हितायां च देव्यां तस्यां प्रबुध्य सः। तत्रेन्दीवरसेनस्तं हस्तस्थं खड्गमक्षैक्षत ॥१२० ॥ अथ खड्गेन तत्स्वप्नवर्णनेन च सोऽनुजम् । आश्वास्य चक्रे तद्युक्तं प्रातर्भेनेन पारणम् ॥१२१॥ ततः प्रणम्य देवीं तां रात्प्रसादहृतक्लमः । हृष्टस्तत्सङ्गहस्तश्च समं मात्रा ययौ ततः ॥१२२॥ गत्वा च दूरं स प्राप्वेकं पुरवरं महत् । कुर्वाणं मेरुशिखरभ्रान्तिं हममयेगृहैः ॥१२३॥ तत्र रौद्रं ददर्शैकं प्रतोलीद्वारि राक्षसम्। पप्रच्छ तं च धीरोऽस्य पुरस्यास्यां पतिं च सः ॥१२४॥ इदं धौमपुरं नाम नगरं राक्षसाधिप । अभ्यास्ते यमदंष्ट्राख्यः स्वामी नः शत्रुसूदनः ॥१२५॥ इत्युक्ते रक्षसा तेन यमदंष्ट्रजिघांसया। तत्रेन्दीवरसेनोऽथ स प्रवेष्टुं प्रवृत्तवान् ॥१२६॥ निरुन्धन्तं च तं द्वाःस्थं राक्षसं स महाभुजः । एकखड्गप्रहारेण शिरश्छित्त्वा व्यपातयत् ॥१२७॥ तं हत्वा राजभवनं प्रविश्यान्तर्ददर्श सः। शूरं सिंहासनस्थं तं यमदंष्ट्रं निशाचरम् ॥१२८॥ दृष्ट्वापोरमुगं वामपार्श्वस्थितवराङ्गनम् । आश्रितेतरपार्श्वं च कुमार्थ्या दिव्यस्यया ॥१२९॥ दृष्ट्वा च सोऽम्बिकान्तत्तद्वहहस्तो रणाय तम् । माहूतवान् स धात्तग्यो गद्दगमाङ्ख्य गद्दगः ॥१३०॥