BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 209 of 1079

Read in context
Page 209

१८० कथासरित्सागर ततोज्नुनीताप्येतेन नित्यमेवाबिसङ्ख्यया । ईर्ष्यया मोहितात्यर्थमहमेवमचिन्तयम् ॥१६१॥ अहो अगणयित्वैव मामयं भजतेऽपराम् । आमेज्स्य खड्गमाहात्म्यकृतो दर्पोऽयमीदृशः ॥१६२॥ तदस्य गोपयाम्येनमिति सञ्चिन्त्य मूढया। एतत्खङ्गो निधिः क्षिप्तः सुप्तेऽस्मिन्दहने मया ॥१६३॥ कलङ्कितश्च खड्गोऽसो गतश्चैव दशामिमाम् । अनुतप्तास्मि आक्रुष्टा ततो मदनदंष्ट्रया ॥१६४॥ अथैतस्यां च मयि च द्वयोः शोकाग्ध्यचेतसोः । मरणाध्यवसायिन्योरागतस्त्वमिहाधुना ॥१६५॥ तद्गृहाण त्वमेवैतत्खड्गं निस्त्रिंशकर्मिकाम् । अव्यक्तजातिभ्रंशां मामेतेनैव निपातय ॥१६६॥ इत्युक्तः स तयानिच्छासेनोऽथ भ्रातृजायया । सापापवध्यां मत्वा तां छेत्तुमैच्छन्निजं शिरः ॥१६७॥ मैवं कार्षीन्मृतो नायं राजपुत्र तवाग्रजः । खड्गप्रमादकोपेन देव्या स्वेयं विमोहितः ॥१६८॥ अस्या च खड्गदंष्ट्रायां मन्तव्या नापराधिता । यतः शापावतीर्णानामेतद्वस्तद्विजृम्भितम् ॥१६९॥ एते चास्य तव भ्रातुः पूर्वभार्ये उभे अपि । तत्प्रसाद्य तामेव देवीमभिमतप्तये ॥१७०॥ इति तत्कालमुद्भूतामन्तरिक्षात्सरस्वतीम् । श्रुत्वा निवृत्तेऽनिच्छासेनः स मरणोद्यमात् ॥१७१॥ आरुह्यैव विमानं तद्गृहीत्वाग्निकसङ्गितम् । सङ्गं तं विन्ध्यवासिन्याः पादमूलं जगाम सः ॥१७२॥ तत्र मूर्धोपहारेण तोषयिष्यन्नुपोषितः । दवीं तामुद्धतामेठां गगनादशृणोद् गिरम् ॥१७३॥ मा पुत्र साहसं कार्षीर्गच्छ जीवतु तेऽग्रजः । जायतां निर्मलः खड्गो भक्त्या तुष्टा ह्यहं तव ॥१७४॥ एतद्दिव्यं वचः श्रुत्वा तत्क्षणं निजभक्तृताम् । प्राप्तं दृष्ट्वा करे खड्गं कृत्वा तस्याः प्रदक्षिणम् ॥१७५॥