कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 29 of 1079
Read in context१६ कथासरित्सागर नमो दिव्यप्रकाशाय निर्मलाय कलात्मने। प्रक्षीणदोषैर्दृश्याय सोमायात्यद्भुताय ते ॥१०१॥ देहार्धभूतकान्ताय केवलब्रह्मधारिणे। इच्छानिर्मितविश्वाय नमो विश्वमयाय ते ॥१०२॥ एवं कृतस्तुतिं च तं राजानं गिरिजापतिः। त्रिरात्रोपोषितं स्वप्ने साक्षाद् भूयेवमब्रवीत् ॥१०३॥ उत्तिष्ठ राजन्भावी ते वीरो वंशधरः सुतः। गौरीप्रसादात्कन्यापि भविष्यत्युत्तमा तव ॥१०४॥ नरवाहनदत्तस्य युष्माकं चक्रवर्तिनः। भविष्यतो भवित्री या महिषी महसां निधे ॥१०५॥ इत्युक्त्वान्तर्हिते शर्वे सोऽथ विद्याधरेश्वरः। हेमप्रभः प्रबुबुधे प्रहृष्टो रजनीक्षये ॥१०६॥ आनन्दयदलंकारप्रभां स्वप्नं निवेद्य सः। गौर्या स्वप्ने तथैवोक्तां भार्यां संवादसिनीम् ॥१०७॥ उत्थाय च ततः स्नातः स राजार्चितधूर्जटिः। चकार दत्तदानः सन्नुत्सवं कृतपारणः ॥१०८॥ दिवसेष्वथ यातेषु देवी कतिपयेषु सा। अलङ्कारप्रभा तस्य राज्ञो गर्भमधारयत् ॥१०९॥ आनन्दयामास च तं मुखेन मधुगन्धिना। लोलनेत्रासिता कान्तं पङ्कजेनेव पाण्डुना ॥११०॥ आख्यातदत्ताभ्यनुज्ञां तामनुवारैर्गर्भदोहदःै। असूत तनयं काले शौरर्कमिव सा ततः ॥१११॥ येन जातेन महतैस्तेजोभिरवभासितम्। सिन्दूराख्यां नीतमपि तज्जातवासकम् ॥११२॥ पिता च तं शिशुं राजा शत्रुलोभभयावहम्। न्धिव्यागुपष्टिमं नाम्ना वज्रप्रभं व्यधात् ॥११३॥ ततः स ववृधे बालः पार्वणेन्दुरिव क्रमात्। कलाभिः पूर्यमाणः सन् वृद्धिहेतोः कुलाम्बुधेः ॥११४॥ अवाचिरात्पुनस्तस्य राज्ञो हेमप्रभस्य सा। अलङ्कारप्रभा राज्ञी सगर्भा समपद्यत ॥११५॥