कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 293 of 1079
Read in contextप्रातश्च देव्या पुत्रेण राजभिः सचिवैर्वृतम्। एकान्तस्थं च तं चन्द्रप्रभभूपं मयोऽभ्यधात् ॥४७॥ शृणु राजन् रहस्यं ते वक्ष्येऽद्य चिररक्षितम्। त्वं दानवः सुनीथाख्यो मम पुत्रो महाबलः ॥४८॥ सूर्यप्रभः सुमुण्डीकसमकश्च तवानुजः। देवाहवे हतौ जातौ पितापुत्रौ युवामिह ॥४९॥ तद्दानवशरीरं ते संरक्ष्य स्थापितं मया। आलिप्य युक्त्या दिव्याभिरोषधीभिर्घृतेन च ॥५०॥ तस्मात् प्रविश्य विवरं पातालमुपगम्य च। प्रविश स्वं शरीरं तद्युक्त्या मदुपदिष्टया ॥५१॥ तच्छरीरप्रविष्टश्च तेजोवीर्यबलाधिकः। तथा भविष्यसि यथा जेष्यसि त्रिदशान् रणे ॥५२॥ सूर्यप्रभस्त्वनेनैव कान्तेन वपुषा चिरम्। सुमुण्डीकावतारोऽयं भवता खचरेश्वरः ॥५३॥ एतन्मयासुरान्मूत्वा सर्वैरङ्गीचकार सः। राजा चन्द्रप्रभो हृष्टः सिद्धार्थस्त्विदमब्रवीत् ॥५४॥ अयंदहप्रविष्टः किं किमयं पञ्चतां गतः। इति भ्रान्तो तदस्माकं का धृतिर्वदतां वर ॥५५॥ किं चैष विस्मरेदस्मांस्तदा देहान्तराश्रितः। परलोकगतो यद्वत्तत् कोऽयं वय च के ॥५६॥ एतत् सिद्धार्थतः श्रुत्वा स जगाद मयासुरः। प्रविशन्तममुं तस्मिञ्छरीरे योगयुक्तितः ॥५७॥ स्वतन्त्रं यूयमागत्य साक्षात् तत्रैव पश्यत। न चैव विस्मरेद्येष युष्माञ्छृणुत कारणम् ॥५८॥ अस्वप्नो मृतोऽन्यत्र गर्भे यो जायते न सः। किञ्चित् स्मरत्यन्तरितः क्लेशैस्तैर्गर्भादिभिः ॥५९॥ स्वातन्त्र्येण तु योऽन्यस्मिञ्छरीरे योगयुक्तितः। अन्तःकरणमाविश्य प्रविशन्दिन्द्रियाणि च ॥६०॥ अविप्लुतमनोबुद्धिर्गुहादिव गृहान्तरम्। सहसा स स्मरत्येव ज्ञानी योगेश्वरोऽखिलम् ॥६१॥