BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 325 of 1079

Read in context
Page 325

[Page-Header] ९९४ कथासरित्सागर [/Page-Header]

तच्छ्रुत्वा सा विहस्यैतां कलावत्येवमब्रवीत्। सत्यं वृथैत एवेह यस्य सर्वस्य कस्यचित् ॥२६८॥ करोषीहागतस्यैव प्राघुणातिथ्यसत्क्रियाम्। एवमुक्ते कलावत्या सा जगाद महल्लिका ॥२६९॥ यदि प्रीत्या मयोक्ता त्वं तत्किं सद्वेषनिष्ठुरम्। एवं वदसि निर्लज्जे किमहं सदृशी तव ॥२७०॥ किमहं बान्धवादत्ता दूरावेत्य परस्थले। परस्य शयने सुप्ता रहस्येकाकिनी निशि ॥२७१॥ अहं पितुः प्राघुणिकं स्वस्थाने द्रष्टुमागता। आतिथ्येनाधुनेवैषा सखीद्वितयसङ्गता ॥२७२॥ यदास्माभिःप्रसक्त्यावाबसौ मन्त्री प्रविष्टवान्। तदैवैतन्मया ज्ञातं त्वया व्यक्तीकृतं स्वतः ॥२७३॥ एव महल्लिकोक्ता सा कलावत्यगमत्ततः। तिर्यक्कोपकषायेण पश्यन्ती चक्षुषा प्रियम् ॥२७४॥ ततो महल्लिका साऽपि बहुवल्लभ याम्यहम्। सम्प्रतीति रुषा सूर्यप्रभमुक्त्वा ततो ययौ ॥२७५॥ सूर्यप्रभश्च विमना मुक्तं यदभवत्तयोः। कान्ताभ्यां हि समं तस्य तदासक्तं मनो गतम् ॥२७६॥ अथ ज्ञातुं कलावत्याः कलहान्तरचेष्टितम्। प्राहिणोद्द्रुतमुत्थाय प्रभासं स स्वमन्त्रिणम् ॥२७७॥ महल्लिकायास्तच्चञ्च प्रहस्तं स विसृष्टवान्। स्वयं च तद्व्यपेक्षः सन्नासीत् प्रज्ञाढ्यसंयुतः ॥२७८॥ अथान्विष्य कलावत्याश्चेष्टितं स समाययौ। प्रभासो निकटं तस्य पृष्टश्चैवमुवाच तम् ॥२७९॥ इतो द्वितीयं पातालमवति तद्गतवानहम्। वासवेश्म कलावत्याः स्वविद्याच्छादितात्मकः ॥२८०॥ बह्रिस्तत्र द्वयोश्चेट्योरालापश्च श्रुतो मया। एकाब्रवीत् सखि किमसोद्विग्नास्ते कलावती ॥२८१॥ ततो द्वितीयाप्यवदत् सखि गुह्यत्र कारणम्। सुमुण्डीकावतारो हि चतुर्थेऽन्य रसातले ॥२८२॥