BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 369 of 1079

Read in context
Page 369

३३८ कथासरित्सागर शंखाः पश्यन्ते तावन्मात्र कुर्वन्ति सुस्थिताः । यावत् पश्यन्ति नायान्तं मेघमाच्छादिताम्बरम् ॥१६९॥ इत्युक्त्वोत्थाय सावक निर्गत्याहमिहागतः । एवम् प्रहस्ताच्छ्रुत्वा तैस्तुष्टिः प्रापि मयादिभिः ॥१७०॥ निश्चित्य चाह्वोद्योगं सर्वे सेनापति व्यधुः । प्रभासमथ ते सूर्यप्रभाद्या रणदुर्मदम् ॥१७१॥ सर्वे च रणदीक्षायां ते सुवासकुमारातः । निदेशं प्राप्य तवह प्राविशन्नियतव्रताः ॥१७२॥ रात्री सूर्यप्रभश्चात्र शतंरम्यागृहान्तरम् । प्रविष्टामीक्षतापूर्वमिन्द्रो वरकन्यकाम् ॥१७३॥ सा तस्य व्याजसुप्तस्य प्रसुप्तसखिस्य च। स्वैरं निकटमागत्य सखीमाह सहस्मिताम् ॥१७४॥ यदि सुप्तस्य विश्रान्तविलासा'पीयमीदृशी । रूपशोभास्य तत् कीदृक् प्रबुद्धस्य भवेत् सखि ॥१७५॥ तवस्तु न प्रबोध्योऽसौ पूरितं कौतुकं दृशोः । अधिकं हि निमज्जेत किमत्र हृदयेन मे ॥१७६॥ भविष्यत्यस्य संग्रामः समं हि श्रुतशर्मणा । तत्तत्र को विजानाति भाविता किल कस्य किम् ॥१७७॥ प्राप्तव्ययाय शूराणां जायते हि रणोत्सवः । तत्रास्यास्तु शिवं तावत् ततो ज्ञास्यामहे पुनः ॥१७८॥ कामचूडामणियेन किं च व्योमविहारिणा । दृष्टा तस्यास्य हृदयं मादृशी का नु रञ्जयेत् ॥१७९॥ एव तयोक्ते साचावीत् तद् सखी किं ब्रवीष्यतः । असङ्गो हृदयस्यास्मिन्नायत्तश्चण्डि किं तव ॥१८०॥ येन दृष्टेन हृदयं कामचूडामणेह तम् । सोऽप्यस्या न हरेत् कस्या यदि साक्षादरुन्धती ॥१८१॥ विद्याबलाच्च कल्याणं वेत्सि किमास्य सङ्गरे । एतस्य भार्यादृषोक्ताः स्वं सिद्धं सम्भ्रमातिनः ॥१८२॥ १ विश्रान्तः व्यपगतः, विलासो यस्याः, रूपशोभाया विशेषचन् ।