कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 383 of 1079
Read in context१५२ कथासरित्सागरे भवेयुस्त्रिगुणा एते रथा राजसुताः सुता। सुशर्मा बाहुशाली च विशाखः क्रोधनोऽप्ययम् ॥११८॥ प्रचण्डश्चेत्यमी राजपुत्रा रथचतुर्गुणाः। कुञ्जरो वीरवर्मा च प्रवीरवर एव च ॥११९॥ सुप्रतिज्ञोऽमरा रामश्चण्डदत्तोऽथ नास्तिकः। त्रय सिंहभटव्याघ्रभटशत्रुभटा अपि ॥१२०॥ राजानो राजपुत्राश्च रथाः पञ्चगुणा अमी। उग्रवर्मा स्वयं राजपुत्रः स्यात् षड्गुणो रथः ॥१२१॥ राजपुत्रो विशाखश्च सुतन्तुः सुगमोऽपि च। नरेन्द्रधर्मा चेत्येते रथाः सप्तगुणा मताः ॥१२२॥ महारथः पुनरयं सहस्रायुधपारगः ॥ महारथानां यूथस्य शतानीकस्त्वयं पतिः ॥१२३॥ सुभासहर्षविमलाः सूर्यप्रभवयस्यकाः। महाबुद्ध्यचलाख्यौ च प्रियङ्करशुभङ्करौ ॥१२४॥ एते महारथा यक्षरुचिवर्मरुची तथा। एव विश्वरुचिर्भासः सिद्धार्थश्चेत्यमी त्रयः ॥१२५॥ सूर्यप्रभस्य सचिवाः स्युर्महारथयूथपाः। प्रहस्तश्च महार्थश्च द्वावेतावरथयूथपौ ॥१२६॥ यूथपौ रथयूथानां प्रज्ञाढ्यस्थिरबुद्धिकौ। दानवः सर्वदमनस्तथा प्रमथनोऽप्यसौ ॥१२७॥ धूमकेतुः प्रभहणो वज्रपञ्जर एव च। कालचक्रौ मरुद्गमो रथातिरथा अमी ॥१२८॥ प्रकम्पनः सिंहनादो रथाधिरथयूथपौ। महामायः कामबलः कालकम्पनकोऽप्ययम् ॥१२९॥ प्रहृष्टरोमा चेत्येते चरवारोऽप्यसराधिपाः। पुत्रातिरययूपाधिपतीनामधिपा इमे ॥१३०॥ सूर्यप्रभसमद्वाय प्रभासः सैन्यनायकः। सुमेरुतनयश्चैव धीकुञ्जरकुमारकः ॥१३१॥ द्वौ महारथयूपाधिपतियूथाधिपाविमौ। इत्येतेऽस्मद्बलेऽन्ये च शूराः सर्वे स्वकर्मयुताः ॥१३२॥