कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 397 of 1079
Read in context१६४ कथासरित्सागर देशरूपवयश्चेष्टाविज्ञानादिविभेदतः । भिन्ना गुणा वरस्त्रीणां नैका सर्वगुणान्विता ॥१०५॥ कर्णाटलाटसौराष्ट्र मध्यदेशाविदेशजाः । योषा देशसमाचारे रञ्जयन्ति निजेनिजः ॥१०६॥ काश्चिद्धरन्ति सुवृत्तैः शारदेन्दुनिभैर्मुखैः । अन्याः कनककुम्भाभैः स्तनैरुन्नतसंहतैः ॥१०७॥ स्मरसिंहासनप्रख्यैरपरा जघनस्थलैः । इतराश्चतरैरङ्गैः स्वसौन्दर्यमनोरमैः ॥१०८॥ काचित्काञ्चनगौराङ्गी प्रियङ्गुश्यामलापरा । अन्या रक्तावदाता च दृष्ट्वैव हरतीक्षणे ॥१०९॥ काचित्प्रत्यग्रसुभगा काचित्सम्पूर्णयौवना । काचित्प्रौढत्वसुरसा प्रसरद्विभ्रामोज्ज्वला ॥११०॥ हसन्ती शोभते काचित्काचित्कोपेऽपि हारिणी । व्रजन्ती गजवत् कापि हंसवत् कापि राजते ॥१११॥ आलपन्त्यमृतेनेव काचिदासिश्चति श्रुतिम् । सभ्रूविलासं पश्यन्ती स्वभावाद् भाति काचन ॥११२॥ नृत्तेन रोचते काचित् काचिद्गीतेन राजते । वीणादिवादनज्ञानेनान्या कान्ता च रोचते ॥११३॥ काचित् बाह्यरताभिज्ञा काचिदाम्यन्तरप्रिया । प्रसाधनोज्ज्वला काचित् काचिद्वैदग्ध्यशोभिता ॥११४॥ भर्तृचित्तग्रहाभिज्ञा चान्या सौभाग्यमश्नुते । कियद्वा वच्मि बहवोऽप्यन्योन्यासां पृथग्गुणाः ॥११५॥ तदेवमिह कस्याश्चिद् गुणः कोऽपि वरस्त्रियः । न तु सर्वगुणाः सर्वास्त्रैलोक्यामपि काश्चन ॥११६॥ अहो नानारसास्वादसम्व्यवस्थाम् किलेश्वराः । माहृत्याप्याहरन्त्येव भार्या नवनवाः सदा ॥११७॥ उत्तमास्तु न वाञ्छन्ति परदारान् कथञ्चन । तन्नायंयुक्तरूपैय स्याद्दोपो नेर्ध्या च नः क्षमा ॥११८॥ एवमाद्या मनोवत्या प्रोक्ता सूर्यप्रभाङ्गनाः । अन्या मदनसेनाद्यास्तत्तदोचुः कथाः क्रमात् ॥११९॥