BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 409 of 1079

Read in context
Page 409

१७४ कथासरित्सागरे एकः कुवलयश्यामः क्षत्रे विश्वावसोर्बुधात्। जातो भद्रङ्करो नाम द्वितीयश्च नियन्त्रकः ॥६९॥ उत्पन्नो जम्भकक्षेत्रे भौमादग्निनिभप्रभः। तृतीयः कालकोपाख्यः क्षेत्रे दामोदरस्य च ॥७०॥ जातः शनैश्चरात्कृष्णः कृष्णः कपिलमूर्धजः। वातश्शोणोडुपतेः क्षेत्रे महेन्द्रसचिवाद्¹ ग्रहात् ॥७१॥ नाम्ना विक्रमशक्तिश्च चतुर्थः कनकद्युतिः। त्रयोऽतिरथयूथाधिपतीनामेषु यूथपाः ॥७२॥ चतुर्थस्तु महावीरस्तदभ्यधिकविक्रमः। ते च प्रभासं दिव्यास्त्रैर्योधयामासुरुद्यताः ॥७३॥ तानि नारायणास्त्रेण प्रभासोऽस्त्राण्यवारयत्। तेषां च ह्येकैकस्याष्टङ्खरखोऽच्छिनद्धनुः ॥७४॥ ततस्तत्प्रहितान्प्रासागवादीन्प्रतिहृत्य सः। हृताश्वसारथीन्सत्त्वस्थिरपानकरोच्च तान् ॥७५॥ तद्दृष्ट्वा विससर्जान्याञ्छ्रुतशर्मा द्रुतं दश। रथयूथपयूथाधिपतीन्विद्याधराधिपान् ॥७६॥ दमास्यं नियमास्यं च स्वरूपसदृशाकृती। केतुमालेन्द्ररक्षत्रे जातौ द्वावश्विनोः सुतौ ॥७७॥ चित्रं संक्रमं चैव पराक्रममथाक्रमम्। संमर्दनं मर्दनं च प्रमर्दनविमर्दनौ ॥७८॥ क्षेत्रजान्मकरन्दस्याप्यष्टौ वसुसुतान्समान्। तेष्वागतेषु चाद्यास्तेऽप्यारोहन्नपरान् रथान् ॥७९॥ तैश्चतुर्दशभिः क्रूरैर्मिशितैः शरवर्षिभिः। निष्कम्प एव युयुधे प्रभासश्चित्रमेककः ॥८०॥ क्षतं सूर्यप्रभावेणाप्यूहाग्रात् त्यक्तसङ्गरौ। स कुम्भीरकुमारश्च प्रहस्तश्च धृतायुधौ ॥८१॥ उत्पत्य व्योममार्गेण धवलश्यामलाकृती। तस्योपजग्मतुः पार्श्वं रामकृष्णविवापरौ ॥८२॥ १ बृहस्पतेरित्यर्थः ।

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · Page 409 of 1079 · BharatKosha