BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 445 of 1079

Read in context
Page 445

उपाचरच्च यक्षिण्या परिव्राट्सिद्धया तया। यथोपयोगोपहृतैरुपचारैरमानुषैः ॥१७९॥ ततस्तुष्टो भदन्तोऽसौ तस्माआदित्यशर्मणे। ददौ सुलोचनामन्त्रमभित सविधानकम् ॥१८०॥ ततश्चादित्यशर्मा स मन्त्रं प्राप्य समाप्य च। होमं चकार सम्पूर्णं गत्वैकान्ते यथाविधि ॥१८१॥ ततस्तस्य विमानस्था यक्षिणी सा सुलोचना। प्रादुर्वभूव रूपेण जगदाश्चर्यदायिना ॥१८२॥ जगाद चैतमेहोहि सिद्धाऽहं तव किं पुनः। षण्मासं कन्यकाभावो नापनेयो मम त्वया ॥१८३॥ यदि मत्तो महावीर्यमृद्धिपात्रं सुलक्षणम्। सर्वज्ञकल्पमजितं पुत्रं सम्प्राप्तुमिच्छसि ॥१८४॥ इत्युक्त्वा सा तथेत्येनमुक्तवन्तं च यक्षिणी। आदायादित्यशर्माणं विमानेनालकां ययौ ॥१८५॥ स च तत्र समीपस्थां तांन्नपश्यन्नास्त सर्वदा। आदित्यशर्मा षण्मासानसिधाराव्रतं चरन् ॥१८६॥ ततस्तुष्टो धनाध्यक्षो दिव्येन विधिना स्वयम्। आदित्यशर्मणे तस्मै व्यतरत्तां सुलोचनाम् ॥१८७॥ तस्यां तस्य द्विजस्यात्र जातोऽयमहमात्मजः। पित्रा च मे कृतं नाम गुणशर्मेति सद्गुणात् ॥१८८॥ ततस्तत्रैव यक्षाधिपतेर्मणिधराभिधात्। क्रमाद्वेदाश्च विद्याश्च कलाश्चाधिगता मया ॥१८९॥ अथैकदा किमप्यागाच्छक्रोऽत्र धनवान्तिकम्। उत्तस्थुश्च तं दृष्ट्वा ये तत्रासत केचन ॥१९०॥ मत्पितादित्यशर्मा तु तत्कालं विधियोगतः। अन्यत्र गतचित्तत्वान्नोदतिष्ठत्ससम्भ्रमः ॥१९१॥ ततस्तमशपत्क्रुद्धः स शक्रो द्विजड प्रज। स्वमेव मर्त्यलोकं त गेहुं योग्यो भवानिति ॥१९२॥ प्रणिपत्यानुनीतोऽथ स सुलोचनया तया। शक्रोऽब्रवीत्तर्हि मा गान्मर्त्यलोकमयं स्वयम् ॥१९३॥