BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 449 of 1079

Read in context
Page 449

४१४ कथासरित्सागर तच्छ्रुत्वा गुणशर्मा तं प्रत्युवाच यथातथ भो । सुलक्षणाय ईदृश्या ह्याकुबेरशुभं कुतः ॥२०९॥ इत्यूचिवानप्रसङ्गेन पृष्टस्तस्मै शशंस सः । प्रत्यङ्गं तिलकादीनां फलं स्त्रीपुंसयोः पृथक् ॥२१०॥ यदा च गुणशर्माणं तं सा दृष्ट्वैव सुन्दरी । इत्येष पातु दृष्ट्यैव चकोरीवेन्दुमुत्सुका ॥२११॥ ततोऽग्निदत्तो विजने गुणशर्माणमाह तम् । महाभाग वदाम्येतां कल्यां ते सुन्दरीमहम् ॥२१२॥ मा गा विदेशं तिष्ठेह गृहे मम यथासुखम् । एतत्तद्वचनं श्रुत्वा गुणशर्माप्युवाच तम् ॥२१३॥ सत्यमेवं कृते किं किं न सौख्यं मम किं तु माम् । मिथ्याराजावमानाग्नितप्तं प्रीणाति नैव तत् ॥२१४॥ कान्ता चन्द्रोदयो वीणा पञ्चमध्वनिरित्यमी । ये मन्दयन्ति सुखितांस्तुषितान्यधयन्ति ते ॥२१५॥ जाया च स्वरसा रक्ता भवेदव्यभिचारिणी । अवशा पितृवत्ता तु स्यादशोकवती यथा ॥२१६॥ इतः प्रवेशानिकटा सा किं चोज्जयिनी पुरी । तद्वृद्धया स नृपो जातु मम कुर्यादुपद्रवम् ॥२१७॥ तत्परिभ्रम्य तीर्थानि प्रक्षाल्याजमकल्बिषम् ॥ शारीरमेतन्त्यक्ष्यामि भविष्याम्यथ निर्वृतः ॥२१८॥ इत्युक्तवन्तं प्रत्याह सोऽग्निदत्तो विहस्य तम् । तवापि मोहो यत्रेवृत्तत्रान्यस्य किमुच्यताम् ॥२१९॥ अज्ञावमानाद्दानिः का वद शुद्धाशयस्य ते । पङ्को हि नभसि क्षिप्तः क्षप्तुः पतति मूर्धनि ॥२२०॥ राजैव सोऽचिरात्प्राप्स्यत्यविशेषज्ञताफलम् । मोहान्धमविवेकं हि धीदिपराय न छेदते ॥२२१॥ किं चाशोकवतीं दृष्ट्वा वैरस्यं स्त्रीषु यत्तव । सतीं दृष्ट्वा न किं तासु श्रद्धां बध्नासि च रुदाणम् ॥२२२॥ निकटोञ्जयिनी वा चेत्तन्न दास्याम्यहं तथा । यथा त्वामिह तिष्ठन्तं नैव ज्ञास्यति कश्चन ॥२२३॥