कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 505 of 1079
Read in context४६८ कथासरित्सागर
पटे यथावल्लिखितां समादाय मदाकृतिम्। एताभ्यां सह भिक्षुभ्यां द्वीप मुक्तिपुरं व्रज॥१२४॥ तत्र रूपधराख्यस्य राज्ञस्तद्दुहितुस्तथा। युक्त्या रूपलतायाश्च मदाकारं प्रवर्धय॥१२५॥ पश्य किं स नृपस्तो मे ददाति तनयां न वा। तां च रूपलतां चित्रे लिखिला त्वमिहानय॥१२६॥ एवमुक्त्वाभिलेक्ष्य स्वं रूपं चित्रपटे स तम्। सभिक्षुकं चित्रकरं द्वीप सं प्राहिणोन्नृपः॥१२७॥ ते च क्रमान्चित्रकरश्रमणाः प्रस्थितास्ततः। प्रापुः पत्नपुरं नाम नगरं वारिधेस्तटे॥१२८॥ ततः प्रवहणारूढा गत्वैवाम्बुधिवर्त्मना। ते तं मुक्तिपुरद्वीपमवापुः पञ्चमेऽहनि॥१२९॥ तत्र चित्रकरो गत्वा राजद्वारि स चीरिकाम्। मम चित्रकरस्तुल्यो नान्योऽस्तीत्युदसम्भयत्॥१३०॥ तद् बुद्ध्वैव समाहूतो राज्ञा रूपधरेण सः। प्रविश्य राजभवनं तं प्रणम्य व्यजिज्ञपत्॥१३१॥ पृथ्वीं भ्रान्त्वा मया देव न दृष्टश्चित्रकृत्समः। तद्देवासुरमर्त्यानामालिखामि क्रमादिश॥१३२॥ तच्छ्रुत्वानाय्य नृपतिः स तां रूपलतां पुरः। इमामालिख्य मत्पुत्रीं वद्येत्येत्याविशत् तम्॥१३३॥ ततः कुमारिकत्त स चित्रकृद्राजकन्यकाम्। आलिख्य वर्धयामास तद्रूपामेव तां पटे॥१३४॥ अथ रूपधरो राजा तुष्टो मत्वा विचक्षणम्। पृच्छति स्म स तं चित्रकरं जामातृलिप्सया॥१३५॥ भद्र पृथ्वी त्वया भ्रान्ता तद् ब्रूहि यदि कुत्रचित्। रूपे मद्दुहितुस्तुल्या दृष्टा स्त्री पुरुषोऽपि वा॥१३६॥ इत्युक्तस्तन राज्ञा स चित्रकृत्प्रत्युवाच तम्। नैतत्तुल्या मया दृष्टा नारी नाप्यथवा पुमान्॥१३७॥ एकस्तु पृथ्वीरूपाख्यः प्रतिष्ठाने महीपतिः। दृष्टः समोऽस्यास्तेनेपा युज्यते यदि साधु तत्॥१३८॥