BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 507 of 1079

Read in context
Page 507

४७० कथासरित्सागर तुल्यरूपा यदा तेन न प्राप्ता राजकन्यका। तदा नवेऽपि तारुण्ये स तिष्ठत्यपरिग्रहः ॥१३९॥ मया च देव दृष्ट्वैव स राजा लोचनप्रियः। अभिलिख्य पटे सम्यग्गृहीतो रूपकौतुकात् ॥१४०॥ सच्छ्रुत्वा किं पटः सोऽस्तीत्युक्तस्तेन स भूभृता। अस्तीत्युक्त्वा च तं चित्रकरः पटमदर्शयत् ॥१४१॥ तत्र दृष्ट्वा स तद्रूपं पृथ्वीरूपस्य भूपतेः। राजा रूपधरो दध्रे विस्मयाघूर्णितं शिरः ॥१४२॥ जगाद च वयं धन्या यैरत्र लिखितोऽप्ययम्। दृष्टो राजा नमस्तेभ्यः साक्षात्पश्यन्ति ये त्वमुम् ॥१४३॥ एतत्पितृवचः श्रुत्वा दृष्ट्वा चित्रे च तं नृपम्। सोत्का स्मरलता भाम्यञ्चुक्षोभ न ददर्श च ॥१४४॥ तां मारमोहितां दृष्ट्वा सुतां स नृपतिस्तदा। कुमारदत्तं तं चित्रकरं रूपधरोऽभ्यधात् ॥१४५॥ नास्त्यालेख्यविसंवादस्तव तद्दुहितुर्मम। एतस्याः प्रतिरूपः स पृथ्वीरूपनृपः पतिः ॥१४६॥ तदेतं मत्सुताचित्रपटं नीत्वाद्य सत्वरम्। पृथ्वीरूपनृपायेतां मत्सुतां गच्छ दर्शय ॥१४७॥ आख्याय च यथावृत्तं सतस्मै यदि रोचते। यदिह द्रुतमायातु परिणेतुं मदात्मजाम् ॥१४८॥ इत्युक्त्वा पूजयित्वार्थैः स सहस्थितभिक्षुकम्। राजा चित्रकरं तं च स्वदूतं च विसृष्टवान् ॥१४९॥ ते गत्वाम्बुधिमुत्तीर्य चित्रकृद्दूतभिक्षुकाः। सर्वे प्रापुः प्रतिष्ठानं पृथ्वीरूपनृपान्तिकम् ॥१५०॥ तत्र प्राभृतकं दत्त्वा कार्यं शंसे यथाकृतम्। स रूपधरसंदेशं राज्ञे तस्मै न्यवेदयत् ॥१५१॥ स च चित्रकृदेतस्मै भूभृते तामदर्शयत्। कुमारदत्तश्चित्रस्थां प्रियां दम्पततां गतः ॥१५२॥ राज्ञस्तस्य वपुष्यस्या लावण्यसरसीकृतः। मग्ना दृष्टिस्तथा नैतामुद्धर्तुमशकत्तथा ॥१५३॥